॥ अथ जाबालितीर्थमाहात्म्यवर्णनम् ॥
॥ श्रीसूत उवाच ॥ ॥
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥
वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने ॥ १ ॥
ततो जाबालितीर्थस्य माहात्म्यं वर्णयाम्यहम् ॥
दुराचाराभिधो यत्र स्नात्वा मुक्तोऽभवद्द्विजाः ॥ २ ॥
॥ मुनय ऊचुः ॥ ॥
दुराचाराभिधः कोऽसौ सूत तत्त्वार्थकोविद ॥
किञ्च पापं कृतं तेन दुराचारेण वै मुने ॥ ३ ॥
कथं वा पातकान्मुक्तस्तीर्थेस्मिन्स्नानवैभवात् ॥
एतच्छुश्रूषमाणानां विस्तराद्वद नो मुने ॥ ४ ॥
॥ अथ कावेरीतीरवासिदुराचाराख्यद्विजोदन्तः ॥
॥श्रीसूत उवाच ॥ ॥
मुनयः श्रूयतां तस्य दुराचारस्य पातकम् ॥
जाबालितीर्थस्नानेन यथा मुक्तश्च पातकात्॥ ५ ॥
दुराचाराभिधो विप्रः कावेरीतीरमाश्रितः ॥
कश्चिदास्ते द्विजः पापी क्रूरकर्मरतः सदा ॥ ६ ॥
ब्रह्मघ्नैश्च सुरापैश्च स्तेयिभिर्गुरुतल्पगैः ॥
सदा संसर्गदुष्टोऽसौ तैः साकं न्यवसद्द्विजाः ॥ ७ ॥
महापातकसंसर्गदोषेणास्य द्विजस्य वै ॥
ब्राह्मण्यं सकलं नष्टं निःशेषेण द्विजोत्तमाः ॥ ८ ॥
महापातकिभिः सार्धं दिनमेकं तु यो द्विजः ॥
निवसेत्सादरं तस्य तत्क्षणाद्वै द्विजन्मनः ॥ ९ ॥
ब्राह्मणस्य तु चैकांशो नश्यत्येव न संशयः ॥
द्विदिनं सेवनात्स्पर्शाद्दर्शनाच्छयनात्तथा ॥ 2.1.25.१० ॥
भोजनात्सह पङ्क्तौ च महापातकिभिर्द्विजाः ॥
द्वितीयभागो नश्येत ब्राह्मण्यस्य न संशयः ॥ ११ ॥
त्रिदिनाच्च तृतीयांशो नश्यत्येव न संशयः ॥
चतुर्दिनाच्चतुर्थांशो विलयं याति हि धुवम् ॥ १२ ॥
अतः परं च तैः साकं शयनासनभोजनैः ॥
तत्तुल्यपातकी भूयान्महापातकिसङ्गवान् ॥ १३ ॥
तेन ब्राह्मण्यहीनोऽयं दुराचाराभिधो द्विज. ॥
ग्रस्तोऽभवद्भीषणेन व्यालेनेव बलीयसा ॥ १४ ॥
असौ परवशस्तेन वेतालेनातिपीडितः ॥
देशाद्देशं भ्रमन्विप्रो वनाच्चैव वनान्तरम् ॥ १५ ॥
पूर्वपुण्यविपाकेन दैवयोगेन स द्विजः ॥
वेङ्कटाद्रिं महापुण्यं सर्वपातकनाशनम् ॥ १६ ॥ ॥
अथ ज्ञाबालितीर्थस्नानाद्दुराचारवेतालयोर्महपातकादिनिवृत्तिः ॥ ॥
अनुद्रुतः पिशाचेन वेतालेन द्विजो ययौ ॥
न्यमज्जयत्स वेतालो महापातकनाशने ॥ १७ ॥
जाबालितीर्थे विप्रेन्द्रा महापातकिसङ्गिनम् ॥
उदतिष्ठत्क्षणादेव वेतालेन विमोचितः ॥ १८ ॥
उत्थितोऽसौ द्विजो विप्रास्तस्मात्तीर्थात्तु पावनात् ॥
स्वस्थो व्यचिन्तयत्कोऽयं स्वर्णमुख्याः समीपतः ॥ १९ ॥
कथं मयागतमहो कावेरीतीरवासिना ॥
इति चिन्ताकुलः सोऽयं जाबालेस्तीर्थमुत्तमम् ॥ 2.1.25.२० ॥
जाबालिं च महात्मानं योगीन्द्रवरमुत्तमम् ॥
समागम्य प्रणम्यासौ दुराचारोऽभ्यभाषत ॥ २१ ॥
न जाने भगवन्विप्र पर्वतोऽयं वदाधुना ॥
कावेरीतीरनिलयो दुराचाराभिधो ह्यहम् ॥ २२ ॥
कृपया ब्रूहि मे ब्रह्मन्मयात्र कथमागतम्॥
इति पृष्टो मुनिस्तेन दुराचारेण सुव्रतः ॥ २३ ॥
ध्यात्वा मुहुर्तमवदद्दुराचारं कृपानिधिः ॥ २४ ॥ ॥
॥ अथ जाबालिवर्णितपार्वणश्राद्धाकरणदोषकथनम् ॥
॥ जाबालिरुवाच ॥ ॥
महापातकिसंसर्गाद्दुराचारस्य ते पुरा ॥
ब्राह्मण्यं नष्टमभवद्वेतालस्त्वां ततोऽग्रहीत् ॥ २५ ॥
तेनाविष्टस्त्वमायातो विवशोऽत्र विमूढधीः ॥
न्यमज्जयत्त्वां वेतालस्तीर्थेऽस्मिन्नतिपावने ॥ २६ ॥
अत्र मज्जनमात्रेण विमुक्तः पातकाद्भवान् ॥
जाबालितीर्थे ये स्नानं पुण्यं कुर्वन्ति मानवाः॥ २७॥
तेषां नश्यन्ति वै सत्यं पञ्चपातकसञ्चयाः ॥
सत्कर्मसाधने पुण्यतीर्थेऽस्मिन्स्नानमात्रतः ॥ २८ ॥
महापातकिसंसर्गदोषस्ते विलयं गतः ॥
त्वामग्रहीद्यो वेतालः पुरायं ब्राह्मणोऽभवत् ॥ २९ ॥
मृतेऽहनि पितृश्राद्धं नाकरोत्पार्वणेन वै ॥
तेन स्वपितृभिः शप्तो वेतालत्वमगादयम् ॥ 2.1.25.३० ॥
सोऽपि जाबालितीर्थस्य जले स्नानप्रभावतः ॥
वेतालत्वं विहायैव विष्णुलोकमवाप्तवान्॥ ३१ ॥
न कुर्याद्यो नरः श्राद्धं मातापित्रोर्मृतेऽहनि ॥
वेतालत्वमवाप्याशु पश्चान्नरकमश्नुते ॥ ३२ ॥
॥ श्रीसूत उवाच ॥ ॥
दुराचारो महापापी तीर्थेऽस्मित्स्नानमात्रतः ॥
प्राप्तवान्विष्णुलोकं वै पुनरावृत्तिवर्जितम् ॥ ३३ ॥
एवं वः कथितं पुण्यं दुराचारविमोक्षणम्॥
तस्मात्पुण्यतमं तीर्थं सर्वपापहरं शुभम् ॥ ३४ ॥
यत्र हि स्नानमात्रेण दुराचारो विमोचितः ॥
यानि निष्कृतिहीनानि पापान्यपि विनाशयेत् ॥ ३५ ॥
शूद्रेण पूजितं लिङ्गं विष्णुं वा यो नमेद्द्विजः ॥
प्रायश्चित्तं न स्मृतिषु तस्योक्तं परमर्षिभिः ॥ ३६ ॥
नश्येत्तस्यापि तत्पापं तीर्थे जाबालिसञ्ज्ञके ॥
विप्रनिन्दाकृतां चैव प्रायश्चित्तं न विद्यते ॥ ३७ ॥
विश्वासघातुकानां च कृतघ्नानां च निष्कृतिः ॥
भ्रातृभार्यारतानां च प्रायश्चित्तं न विद्यते ॥ ३८ ॥
तेषां जाबालितीर्थे वै स्नानाच्छुद्धिर्भविष्यति ॥
एवं वः कथितं विप्रा जाबालेस्तीर्थवैभवम् ॥ ३९ ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥ 2.1.25.४० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये जाबालितीर्थमहिमानुवर्णनन्नाम पञ्चविंशोऽध्यायः ॥ २५ ॥