अथ सुन्दराख्यगन्धर्वस्य राक्षसत्वप्राप्तिनिवृत्त्योरुपोद्घातः ॥
॥ ऋषय ऊचुः ॥ ॥
भगवन्राक्षसः कोऽसौ सूत पौराणिकोत्तम ॥
विष्णुभक्तं महात्मानं यो ब्राह्मणमबाधत ॥ १ ॥
॥ श्रीसूत उवाच ॥ ॥
वक्ष्यामि राक्षसं क्रूरं तं विप्राः शृणुतादरात् ॥
यथा च राक्षसो जातो मुनीनां शापवैभवात् ॥ २ ॥
पुरा वैकुण्ठसदृशे श्रीरङ्गे विष्णुमन्दिरे ॥
वसिष्ठात्रिमुखाः सर्वे विष्णुभक्ता महौजसः ॥ ॥ ३ ॥
श्रीरङ्गनाथं देवेशं भक्तानामभयप्रदम् ॥
उपासाञ्चक्रिरे मुक्त्यै श्रीरङ्गपुरवासिनः ॥ ४ ॥
कदाचित्तत्र गन्धर्वो वीरबाहुसुतो बली ॥
सुन्दरो नाम विप्रेन्द्रा विटगोष्ठीपरायणः ॥ ५ ॥
ललनाशतसंयुक्तो विवस्त्रः सलिलाशये ॥
चिक्रीड स विवस्त्राभिः साकं युवतिभिर्मुदा ॥ ६ ॥
कवेरजायास्तीर्थे तु वसिष्ठो मुनिभिः सह ॥
माध्याह्निकं कर्तुमना ययौ श्रीरङ्गमन्दिरात् ॥ ७ ॥
तानृषीनवलोक्याथ रामास्ता भयकातराः ॥
वासांस्याच्छादयामासुः सुन्दरो न तु साहसी ॥ ८ ॥
ततो वसिष्ठः कुपितः शशापैनं गतत्रपम् ॥ ९ ॥
॥ वसिष्ठ उवाच ॥ ॥
यस्मात्सुन्दर गन्धर्व दृष्ट्वाऽस्माल्ँलज्जया त्वया ॥
वासो नाच्छादितं शीघ्रं याहि राक्षसतां ततः ॥ 2.1.24.१० ॥
एवमुक्ते वसिष्ठेन रामाः प्राञ्जलयस्तदा ॥
प्रणिपत्य वसिष्ठं तं भक्तिनम्रेण चेतसा ॥११॥
मुनिमण्डलमध्ये तु वसिष्ठमिदमब्रुवन् ॥ १२ ॥
॥ रामा ऊचुः ॥ ॥
भगवन्सर्वधर्मज्ञ चतुरानननन्दन ॥
दयासिन्धोऽवलोक्यास्मान्न कोपं कर्तुमर्हसि ॥ १३ ॥
पतिरेव हि नारीणां भूषणं परमुच्यते ॥
पतिहीना तु या नारी शतपुत्रापि सा मुने ॥ ॥ १४ ॥
विधवेत्युच्यते लोके तासां जन्म निरर्थकम् ॥
तत्प्रसादं कुरु मुने पत्यावस्माकमादरात् ॥ १५ ॥
एकोऽपराधः क्षन्तव्यो मुनिभिस्तत्त्वदर्शिभिः ॥
क्षमां कुरु दयासिन्धो युष्मच्छिष्येऽत्र सुन्दरे ॥ १६ ॥
॥ श्रीसूत उवाच ॥ ॥
वसिष्ठः प्रार्थितस्त्वेवं सुन्दरस्याङ्गनाजनैः ॥
प्रोवाच वचनं भूयः प्रसन्नः स द्विजोत्तमः ॥ १७ ॥
॥ अथ सुन्दराख्यस्य वसिष्ठोक्तराक्षत्वनिवृत्त्युपायः ॥
॥ वसिष्ठ उवाच ॥ ॥
न मे स्याद्वचनं मिथ्या कदाचिदपि सुभ्रुवः ॥
उपायं वः प्रवक्ष्यामि शृणुध्वं श्रद्धया सह ॥ १८ ॥
षोडशाब्दावधिः शापो भर्तुर्वै भविता ध्रुवम् ॥
षोडशाब्दावधौ चैव सुन्दरो राक्षसाकृतिः ॥ १९ ॥
यदृच्छया वेङ्कटाद्रिं सर्वपापहरं शुभम् ॥
गत्वासौ चक्रतीर्थं तद्गमिष्यति सुराङ्गनाः ॥ 2.1.24.२० ॥
आस्ते तत्र महायोगी पद्मनाभो मुनीश्वरः ॥
भक्षार्थं तं मुनिं सोऽयं राक्षसोऽभिगमिष्यति ॥ २१ ॥
ततो ब्राह्मणरक्षार्थ प्रेरितं चक्रमुत्तमम् ॥
विष्णुनास्य शिरः कायाद्धरिष्यति न संशयः ॥ २२ ॥
ततः स्वं रूपमासाद्य शापान्मुक्तः स सुन्दरः ॥
पतिर्वस्त्रिदिवं भूयो गन्ता नास्त्यत्र संशयः ॥ २३ ॥
ततस्त्रिदिवमासाद्य सुन्दरोऽयं पतिर्हि वः ॥
रमयिष्यति सुन्दर्यो युष्मान्सुन्दरवेषभृत् ॥ २४ ॥
॥ श्रीसूत उवाच ॥ ॥
इत्युक्त्वा तु वसिष्ठस्ताः सुन्दरस्य वराङ्गनाः ॥
स्वाश्रमं प्रययौ तूर्णं श्रीरङ्गेश्वरभक्तिमान् ॥ २५ ॥
अथ रामास्तमालिङ्ग्य सुन्दरं पतिमात्मनः ॥
रुरुदुः शोकसन्तप्ता दुःखसागरमध्यगाः ॥ २६ ॥
दृश्यमानासु तास्वेवं सुन्दरो राक्षसोऽभवत् ॥
महादंष्ट्रो महाकायो रक्तश्मश्रुशिरोरुहः ॥ २७ ॥
तं दृष्ट्वा भयसंविग्ना जग्मू रामास्त्रिविष्टपम् ॥
ततो राक्षसवेषोऽयं सुन्दरी भैरवाकृतिः ॥ २८ ॥
भक्षयन्प्राणिनः सर्वान्देशाद्देशं वनाद्वनम्॥
भ्रमन्ननिलवेगोऽयं वेङ्कटाद्रिं नगोत्तमम् ॥ २९ ॥
प्रविश्यासौ महापापी चक्रतीर्थं ततो ययौ ॥
एवं षोडशवर्षाणि भ्रमतोऽस्य ययुस्तदा ॥ 2.1.24.३० ॥
ततस्तु षोडशाब्दान्ते राक्षसोऽयं मुनीश्वराः ॥
भक्षितुं पद्मनाभं तं चक्रतीर्थनिवासिनम् ॥ ३१ ॥
उपाद्रवद्वायुवेगः सचास्तौषीज्जनार्दनम् ॥
योगिना च स्तुतो विष्णुस्तदा चक्रमचोदयत् ॥ ३२ ॥
रक्षितुं पद्मनाभं तं राक्षसेन प्रपीडितम् ॥
अथागत्य हरेश्चक्रं राक्षसस्य शिरोऽहरत् ॥ ॥ ३३ ॥
॥ अथ सुन्दराख्यस्य राक्षसत्वविमुक्तिपूर्वकं स्वस्वरूपप्राप्तिः ॥ ॥
ततोऽयं राक्षसं देहं त्यक्त्वा दिव्यकलेवरः ॥
विमानवरमारुह्य सुन्दरः पुष्पवर्षितः ॥ ३४ ॥
प्राञ्जलिः प्रणतो भूत्वा ववन्दे तत्सुदर्शनम् ॥
तुष्टाव श्रुतिरम्याभिर्वाग्भिरग्र्याभिरादरात् ॥ ३५ ॥
॥ सुन्दर उवाच ॥ ॥
सुदर्शन नमस्तेऽस्तु विष्णुहस्तैकभूषण ॥
नमस्तेऽसुरसंहर्त्रे सहस्रादित्यतेजसे ॥ ३६ ॥
कृपावेशेन भवतस्त्यक्वाहं राक्षसीं तनुम् ॥
स्वं रूपमभजं विष्णोश्चक्रायुध नमोऽस्तु ते ॥ ३७ ॥
अनुजानीहि मां गन्तुं त्रिदिवं विष्णुवल्लभ ॥
भार्या मे परिशोचन्ति विरहातुरचेतसः ॥ ३८ ॥
त्वन्मनस्को भविष्यामि यावज्जीवं यथा ह्यहम् ॥
तथा रूपं कुरुष्व त्वं मयि चक्र नमोऽस्तु ते ॥ ३९ ॥
एवं स्तुतं विष्णुचक्रं सुन्दरेण सभक्तिकम् ॥
अनुजग्राह सहसा तथास्त्विति मुनीश्वराः ॥ 2.1.24.४० ॥
चक्रायुधाभ्यनुज्ञातः सुन्दरो ब्राह्मणोत्तमम् ॥
प्रणम्य तेनानुज्ञातो गन्धर्वस्त्रिदिवं ययौ ॥ ४१ ॥
सुन्दरे तु गते स्वर्गं पद्मनाभो मुनीश्वरः ॥
तच्चक्रं प्रार्थयामास विष्ण्वायुध नमोऽस्तु ते ॥ ॥ ४२ ॥
चक्रायुध नमामि त्वां महासुरविमर्दन ॥
सन्निधानं कुरुष्व त्वं चक्रतीर्थेऽमले शुभे ॥४३॥
त्वत्सन्निधानात्सर्वेषां स्नातानां पापिनामिह ॥
पापनाशं कुरुष्व त्वं मोक्षं च कुरु शाश्वतम् ॥ ४४ ॥
चक्रतीर्थमिति ख्यातिं लोकेऽस्य परिकल्पय ॥
त्वत्सन्निधानादत्रत्यमुनीनां भयनाशनम् ॥ ४५ ॥
इतः परं भवत्वार्य चक्रायुध नमोऽस्तु ते ॥
भूतप्रेतपिशाचेभ्यो भयं मा भवतु प्रभो ॥ ४६ ॥
इति सम्प्रार्थितं चक्रं पद्मनाभेन योगिना ॥
तथैवास्त्विति सम्भाष्य तस्मिंस्तीर्थे तिरोहितम् ॥ ४७ ॥
॥ श्रीसूत उवाच ॥ ॥
एवं वः कथितं विप्रा राक्षसस्योद्भवे मया ॥
माहात्म्यं चक्रतीर्थस्य कथितं च मलापहम् ॥ ४८ ॥
यच्छुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥ ४९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये चक्रतीर्थमहिमानुवर्णनन्नाम चतुर्विंशोऽध्यायः ॥ २४ ॥