॥ अथ चक्रतीर्थमाहात्म्यम् ॥
॥ श्रीसूत उवाच ॥ ॥
अथाहं सम्प्रवक्ष्यामि द्विजेन्द्राः सत्यवादिनः॥
चक्रतीर्थस्य माहात्म्यं सर्वपापप्रणाशनम् ॥१॥
ये शृण्वन्ति महापुण्यं चक्रतीर्थस्य वैभवम् ॥
ते यान्ति विष्णुभवनं पुनरावृत्तिवर्जितम् ॥२॥
अन्नदाने च विमुखा जलदाने तथैव च ॥
गोदानविमुखा ये च शुद्धास्तेऽत्र निमज्जनात् ॥३॥
तस्मात्पुण्यतमं तीर्थं चक्रतीर्थमनुत्तमम्॥ ४ ॥ ॥
अथ पद्मनाभाख्यद्विजकृततपःप्रकारः ॥
॥ श्रीसूत उवाच ॥ ॥
पुरा श्रीवत्सगोत्रीयः पद्मनाभो जितेन्द्रियः ॥
चक्रपुष्करिणीतीरे सोऽतप्यत महत्तपः ॥ ५ ॥
दयायुक्तो निराहारः सत्यवादी जितेन्द्रियः ॥
आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ॥ ६ ॥
सर्वभूतहितो दान्तः सर्वद्वन्द्वविवर्जितः ॥
वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत् ॥ ७ ॥
कञ्चित्कालं जलाहारो वायुभक्षः कियत्समाः ॥
एवं द्वादश वर्षाणि पद्मनाभो महामुनिः ॥ ८ ॥
॥ अथ चक्रतीर्थे पद्मनाभाख्यद्विजकृततपस्तुष्टभगवदाविर्भावः ॥ ॥
अतप्यत तपो घोरं देवैरपि सुदुष्करम्॥
अथ तत्तपसा तुष्टो भगवान्कमलापतिः ॥ ९ ॥
प्रत्यक्षतामगात्तस्य शङ्खचक्रगदाधरः ॥
विकचाम्बुजपत्राक्षः सूर्यकोटिसमप्रभः ॥ 2.1.23.१० ॥
उन्मील्य चक्षुषी तत्र दृष्टवान्वेङ्कटेश्वरम् ॥
शङ्खचक्रधरं शान्तं श्रीनिवासं कृपानिधिम् ॥
दृष्ट्वा देवं महात्मानं स्तोतुं समुपचक्रमे ॥ ११ ॥
॥ अथ पद्मनाभाख्यद्विजकृतश्रीनिवासस्तुतिः ॥ ॥
नमो देवाधिदेवाय वेङ्कटेशाय शार्ङ्गिणे ॥
नारायणाद्रिवासाय श्रीनिवासाय ते नमः ॥ १२ ॥
नमः कल्मषनाशाय वासुदेवाय विष्णवे ॥
शेषाचलनिवासाय श्रीनिवासाय ते नमः ॥ १३ ॥
नमस्त्रैलोक्यनाथाय विश्वरूपाय साक्षिणे ॥
शिवब्रह्मादिवन्द्याय श्रीनिवासाय ते नमः ॥ १४ ॥
नमः कमलनेत्राय क्षीराब्धिशयनाय ते ॥
दुष्टराक्षससंहर्त्रे श्रीनिवासाय ते नमः ॥ १५ ॥
भक्तप्रियाय देवाय देवानां पतये नमः ॥ १६ ॥
प्रणतार्तिविनाशाय श्रीनिवासाय ते नमः ॥ १७ ॥
योगिनां पतये नित्यं वेदवेद्याय विष्णवे ॥
भक्तानां पापसंहर्त्रे श्रीनिवासाय ते नमः ॥ १८ ॥
एवं स्तुतो महाभागः श्रीनिवासो जगन्मयः ॥
पद्मनाभाख्यऋषिणा चक्रतीर्थनिवासिना ॥ १९ ॥
॥ अथ पद्मनाभस्य चक्रतीर्थे निरन्तरवासाय भगवन्नियमनम् ॥ ॥
सन्तोषं परमं प्राप्य वेङ्कटेशो दयानिधिः ॥ 2.1.23.२० ॥
पद्मनाभं द्विजवरं शान्तं धर्मपरायणम् ॥
सुधाधारोपमं वाक्यमब्रवीत्पुरुषोत्तमः ॥ २१ ॥
॥ श्रीनिवास उवाच ॥ ॥
द्विजवर्य महाभाग मत्पादकमलार्चक ॥
चक्रतीर्थस्य तीरे त्वमाकल्पं पूजयन्वस ॥ २२ ॥
इत्युक्त्वा भगवान्विष्णुस्तत्रैवान्तरधीयत ॥
अन्तर्धानं गते देवे श्रीनिवासे जगद्गुरौ ॥ २३ ॥
चक्रतीर्थस्य तीरे तु वासं चक्रे महामतिः ॥
ततः कालान्तरे कश्चिद्राक्षसो भीमदर्शनः ॥ २४ ॥
मुनिं तं पद्मनाभाख्यं नारायणपरायणम् ॥
आययौ भक्षितुं क्रूरः क्षुधया परिपीडतः ॥ २५ ॥
ब्राह्मणं तरसा सोऽयं राक्षसो जगृहे तदा ॥
गृहीतस्तरसा तेन् विप्रो वेदाङ्गपारगः ॥ ५४ ॥
प्रचुक्रोश दयाम्भोधिमापन्नानां परायणम्॥
नारायणं चक्रपाणिं पक्ष रक्षेति वै मुहुः॥ २७॥
वेङ्कटेश दयासिन्धो शरणागतपालक ॥
त्राहि मां पुरुषव्याघ्र रक्षोवशमुपागतम्॥२८॥
लक्ष्मीकान्त हरे विष्णो वैकुण्ठ गरुडध्वज॥
मां रक्ष राक्षसाक्रान्तं ग्राहाक्रान्तं गजं यथा॥ २९॥
दामोदर जगन्नाथ हिरण्यासुरमर्दन ॥
प्रह्लादमिव मां रक्ष राक्षसेनातिपीडितम् ॥ 2.1.23.३० ॥
॥ अथ पद्मनाभहननोद्युक्तासुरवधाय भगवत्कृतचक्रप्रेषणम् ॥ ॥
इत्येवं स्तुवततस्तस्य पद्मनाभस्य हे द्विजाः ॥
स्वभक्तस्य भयं ज्ञात्वा चक्रपाणिर्दयानिधिः ॥ ३१ ॥
स्वचक्रं प्रेषयामास भक्तरक्षणकारणात् ॥
प्रेरितं विष्णुचक्रं तद्विष्णुना प्रभविष्णुना॥ ३२॥
आजगामाथ वेगेन चक्रपुष्करिणीतटम्॥
अनन्तादित्यसङ्काशमनन्ताग्निसमप्रभम्॥ ३३॥
महाज्वालं महानाद महासुरविमर्दनम्॥
दृष्ट्वा सुदर्शनं विष्णो राक्षसोऽथ प्रदुद्रुवे॥ ३४॥
अथ भगवत्प्रेषितचक्रकृतासुरवधः॥
द्रवमाणस्य तस्याशु राक्षसस्य सुदर्शनम्॥
शिरश्चकर्त सहसा ज्वालामालादुरासदम् ॥ ३५ ॥
ततो विप्रवरो दृष्ट्वा राक्षसं पतितं भुवि ॥
मुदा परमया युक्तस्तुष्टाव च सुदर्शनम् ॥ ३६ ॥
॥ पद्मनाभ उवाच ॥ ॥
विष्णुचक्र नमस्तेऽस्तु विश्वरक्षणदीक्षित ॥
नारायणकराम्भोज भूषणाय नमोऽस्तु ते ॥ ३७ ॥
युद्धेष्वसुरसंहारकुशलाय महारव ॥
सुदर्शन नमस्तुभ्यं भक्तानामार्तिनाशन ॥ ३८ ॥
रक्ष मां भयसंविग्नं सर्वस्मादपि कल्मषात् ॥
स्वामिन्सुदर्शन विभो चक्रतीर्थे सदा भवान् ॥ ३९ ॥
सन्निधेहि हिताय त्वं जगतो मुक्तिकाङ्क्षिणः ॥
ब्राह्मणेनैवमुक्तं तद्विष्णुचक्रं मुनीश्वराः ॥ 2.1.23.४० ॥
तं प्राह पद्मनाभाख्यं प्रीणयन्निव सौहृदात् ॥ ४१ ॥
॥ अथ द्विजप्रार्थनया चक्रकृतवरदानादिः ॥
॥ सुदर्शन उवाच ॥ ॥
पद्मनाभ महापुण्यं चक्रतीर्थमनुत्तमम्॥
अस्मिन्वसामि सततं लोकानां हितकाम्यया ॥ ४२ ॥
त्वत्पीडां परिचिन्त्याहं राक्षसेन दुरात्मना ॥ ४३ ॥
प्रेरितो विष्णुना विप्र त्वरया समुपागतः ॥
त्वत्पीडकोऽपि निहतो मयाऽयं राक्षसाधमः ॥ ४४ ॥
मोचितस्त्वं भयादस्मात्त्वं हि भक्तो हरेः सदा ॥
चक्रतीर्थे महापुण्ये सर्वपापहरे द्विज ॥ ४५ ॥
सततं लोकरक्षार्थं सन्निधानं करोमि ते ॥
अस्मिन्मत्सन्निधानात्ते तथान्येषामपि द्विज ॥ ४६ ॥
इतः परं न पीडा स्याद्भूतराक्षससम्भवा ॥
अस्मिन्मत्सन्निधानात्स्याच्चक्रतीर्थमिति प्रथा ॥ ४७ ॥
स्नानं येऽत्र प्रकुर्वन्ति चक्रतीर्थे विमुक्तिदे ॥
तेषां पुत्राश्च पौत्राश्च वंशजाः सर्व एव हि ॥ ४८ ॥
विधूतपापा यास्यन्ति तद्विष्णोः परमं पदम् ॥
इत्युक्त्वा विष्णुचक्रं तत्पद्मनाभस्य पश्यतः ॥ ४९ ॥
अन्येषामपि विप्राणां पश्यतां सहसा द्विजाः ॥
चक्रपुष्करिणीं तां तु प्राविशत्पापनाशिनीम् ॥ 2.1.23.५० ॥
॥ श्रीसूत उवाच ॥ ॥
चक्रतीर्थस्य माहात्म्यं विप्रेन्द्राः पापनाशनम् ॥
युष्माकं कथितं सर्वं शौनकाद्या महौजसः ॥ ५१ ॥
चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति ॥
अत्र स्नात्वा नरा विप्रा मोक्षभाजो न संशयः ॥९२ ॥
कीर्तयेदिममध्यायं शृणुयाद्वा समाहितः ॥
चक्रतीर्थाभिषेकस्य प्राप्नोति फलमुत्तमम् ॥ ५३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये चक्रतीर्थमहिमानुवर्णनन्नाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥