०२२ आकाशगङ्गामाहात्म्यवर्णनम्

॥ अथ दानार्हसत्पात्रनिर्णयः ॥
॥ ऋषय ऊचुः ॥ ॥
भगवन्सूत सर्वज्ञ वेदवेदान्तकोविद ॥
दानानि कस्मै देयानि दानकालश्च कीदृशः ॥ १ ॥
कश्च तत्प्रतिगृह्णीयात्सर्वं नो वक्तुमर्हसि ॥ २ ॥
॥ श्रीसूत उवाच ॥ ॥
महापुण्यप्रदे क्षेत्रे वेङ्कटाख्ये द्विजोत्तमाः ॥
सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः ॥ ३ ॥
तस्मै दानानि देयानि स तारयति पण्डितः ॥
ब्राह्मणः प्रतिगृह्णीयाद्वर्जयित्वा त्ववर्णकम् ॥ ४ ॥
षण्डस्य पुत्रहीनस्य दम्भाचाररतस्य च ॥
वेदविद्वेषिणश्चैव द्विजविद्वेषिणस्तथा ॥ ५ ॥
स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम् ॥
परदाररतस्यापि परद्रव्यरतस्य च ॥ ६ ॥
गायकस्यापि विप्रस्य दत्तं भवति निष्फलम् ॥
असूयाविष्टमनसः कृतघ्नस्य च मायिनः ॥ ७ ॥
ज्ञानशून्यस्य विप्रस्य दत्तं भवति निष्फलम् ॥
नित्यं याञ्चापरस्यापि हिंसकस्याबलस्य च ॥ ८ ॥
नामविक्रयिणश्चैव वेदविक्रयिणस्तथा ॥
स्मृतिविक्रयिणश्चैव धर्मविक्रयिणस्तथा ॥ ९ ॥
परोपतापशीलस्य दत्तं भवति निष्फलम् ॥
ये केचित्पापनिरता निन्दिताः सुकृतैस्तथा ॥ 2.1.22.१० ॥
न तेभ्यः प्रतिगृह्णीयान्न देयं वापि किञ्चन ॥
सत्कर्मनिरतायैव श्रोत्रियायाहिताग्नये ॥ ११ ॥
वृत्तिहीनाय वै देयं दरिद्राय कुटुम्बिने ॥
देवपूजासु सक्ताय पुराणकथकाय च ॥ १२ ॥
देयं प्रयत्नतो विप्रा दरिद्रस्य विशेषतः ॥
बहुना किमिहोक्तेन शृणुध्वं द्विजसत्तमाः ॥ १३ ॥
सर्वेषां ब्राह्मणानां च प्रदातुं शक्यते सदा ॥
वन्ध्याभर्त्रे प्रदत्तञ्चेद्रासभो जायते नरः ॥ १४ ॥
नास्तिकं भिन्नमर्यादं पुत्रहीनं जडं खलम् ॥
स्तेयिनं कितवं चैव कदाचिन्नाभिवादयेत् ॥ १५ ॥
पाषण्डं पतितं व्रात्यं वेदविक्रयिणं तथा ॥
कृतघ्नं पापनिरतं कदाचिन्नाभिवादयेत् ॥ १६ ॥
तथा स्नानं प्रकुर्वन्तं समित्पुष्पकरं तथा ॥
उदपात्रधरञ्चैव भुञ्जन्तं नाभिवादयेत् ॥ १७ ॥
विवादशालिनं चण्डं वमन्तं जनमध्यगम् ॥
भिक्षान्नधारिणं चैव शयानं नाभिवादयेत् ॥ १८ ॥
वन्ध्याञ्च पुष्पिणीं जारां सूतिकां गर्भपातिनीम् ॥
व्रतघ्नीञ्च तथा चण्डीं कदाचिन्नाभिवादयेत् ॥ १९ ॥
सभायां यज्ञशालायां देवतायतनेष्वपि ॥
प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुरातनम् ॥ ॥ 2.1.22.२० ॥
श्राद्धव्रते नियुक्तञ्च देवताभ्यर्चकं तथा ॥
यज्ञं च तर्पणञ्चैव कुर्वन्तं नाभिवादयेत् ॥ २१ ॥
कुर्वते वन्दनं यस्तु न कुर्यात्प्रतिवन्दनम् ॥
नाभिवाद्यः स विज्ञेयो यथा शूद्रस्तथैव च ॥ २२ ॥
तस्मात्सर्वेपु कालेषु बुद्धिमान्ब्राह्मणोत्तमः ॥
वन्ध्यापतिं द्विजं क्रूरं कदाचिन्नाभिवादयेत् ॥ ॥ २३ ॥
॥ अथाकाशगङ्गामाहात्म्यम्॥
॥ श्रीसूत उवाच ॥ ॥
अत्रेतिहासं वक्ष्यामि पुण्यशीलस्य धीमतः ॥
सनत्कुमारमुनये नारदेन प्रभाषितम् ॥ २४ ॥
तद्वक्ष्यामि मुनिश्रेष्ठाः शृणुध्वं सुसमाहिताः ॥
पुरा गोदावरीतीरे सर्वधर्मपरायणः ॥ २५ ॥
पुण्यशीलो द्विजवरः सत्यवादी जितेन्द्रियः ॥
दयावान्सर्वभूतेषु देवाग्निद्विजपूजकः ॥२६॥
कर्मणा जन्मशुद्धश्च मातापितृहिते रतः ॥
गुरुभक्तिः सदाक्षिण्यो ब्रह्मण्यः साधुसम्मतः ॥ २७ ॥
एतादृशगुणैर्युक्तः पुण्यशीलस्य धीमतः ॥ २८ ॥
॥ अथ पुण्यशीलस्य वन्ध्यापतिनिमन्त्रणेन गर्दभमुखत्वप्राप्तिः ॥ ॥
गृहं सम्प्राप्तवान्विप्रो वेदवेदाङ्गपारगः ॥
प्रार्थितः पुण्यशीलेन पितृश्राद्धेऽतिवेगतः ॥ २९ ॥
तं विप्रं श्रोत्रियं शान्तं पितृश्राद्धे नियोज्य वै ॥
श्राद्धं चकार धर्मात्मा प्रत्याब्दिकमनुत्तमम्॥ 2.1.22.३० ॥
ततः कालान्तरे तस्य पुण्यशीलस्य चानने ॥
वैरूप्यं प्राप्तमत्युग्रं रासभाननवत्तदा ॥ ३१ ॥
ततः खिन्नमना भूत्वा पुण्यशीलोऽतिधार्मिकः ॥
निःश्वस्य बहुधा खिन्नः प्रपेदेऽगस्त्ययोगिनः ॥ ३२ ॥
सुवर्णमुखरीतीरे ऋषिसङ्घनिषेविते ॥
आश्रमं परमं दिव्यं सर्वकामफलप्रदम्॥ ३३ ॥
तत्राश्रमे मुनिवरैः सेव्यमानमहर्निशम् ॥
दृष्ट्वागस्त्यं महात्मानं सर्वलोकहितैषिणम् ॥ ३४ ॥
प्रणाममकरोत्तस्मै गार्दभास्योऽतिदुःखितः ॥ ३५ ॥
॥ पुण्यशील उवाच ॥ ॥
तपोनिधे नमस्तुभ्यमगस्त्य मुनिसेवित ॥
कुत्सितास्यं महापापं रक्षरक्ष दयानिधे ॥ ३६ ॥
केन दोषेण मे चात्र मुखस्यासीत्कुरूपता ॥ ३७ ॥
मयि प्रीत्या महाभाग वदस्व मुनिसत्तम ॥ ३८ ॥
अगस्त्य उवाच ॥ ॥
विप्रवर्य महाभाग पुण्यशील महामते ॥
आननस्य विरूपं वै शृणु नान्यमना द्विज ॥३९॥ ॥
अथ वन्ध्यापतेः श्राद्धनिमन्त्रणानर्हत्वकथनम् ॥ ॥
कञ्चिद्विप्रं गुणनिधिं वेदवेदाङ्गपारगम् ॥
श्रोत्रियं पुत्ररहितं श्राद्धे त्वं विनियुक्तवान् ॥ 2.1.22.४० ॥
तेन दोषेण महता मुखे तव विरूपता ॥
ये लोके हव्यकव्यादौ वन्ध्यायाः स्वामिनं द्विजम्॥ ४१ ॥
नियोजयन्ति ते यान्ति मुखे गर्दभरूपताम् ॥
शुभकर्मणि वा विप्र पैतृके वापि कर्मणि ॥ ॥ ४२ ॥
वन्ध्यापतिं महापापं कदाचिन्न निमन्त्रयेत् ॥
वन्ध्यापतिं महाक्रूरं वृषलीपतिमेव वा ॥ ४३ ॥
श्रेयस्कामी हि विप्रेन्द्र श्राद्धे तु न निमन्त्रयेत् ॥
वेदशास्त्रादियुक्तोऽपि कुलीनः कर्मठोऽपि वा ॥ ४४ ॥
वन्ध्याभर्ता द्विजश्रेष्ठ श्राद्धे त्याज्यः कथञ्चन ॥
ज्योतिष्टोमादियज्ञेषु व्रतेषु च तपःसु च ॥ ४५ ॥
समर्थोऽपि द्विजश्रेष्ठः श्राद्धे वन्ध्यापतिं त्यजेत् ॥
अलभ्ये तु द्विजे पात्रे तन्तुमात्रोपजीविनम् ॥ ४६ ॥
पुत्रवन्तं सदाचारं श्राद्धार्थं तु निमन्त्रयेत् ॥
तदभावे द्विजश्रेष्ठ पुत्रं वाऽनुजमेव वा ॥ ४७ ॥
आत्मानं वा नियुञ्जीत श्राद्धे वन्ध्यापतिं त्यजेत् ॥
पुण्यशील महाभाग चोद्धृत्य भुजमुच्यते ॥ ४८ ॥
सर्वथा पुत्रहीनं तु श्राद्धार्थं न नियोजयेत् ॥
वन्ध्यापतिं द्विजं यस्तु श्राद्धकर्ता नियोक्ष्यति ॥ ४९ ॥
तच्छ्राद्धमासुरं ज्ञेयं कर्ता च नरकं व्रजेत् ॥ 2.1.22.५० ॥
॥ अथाकाशगङ्गास्नानेन पुण्यशीलस्य तद्विकृतिनिवृत्तिः ॥ ॥
बहुनात्र किमुक्तेन तद्दोषविनिवृत्तये ॥
उपायं ते प्रवक्ष्यामि स्वर्णमुख्यास्तटे शुभे ॥ ५१ ॥
वर्तते देवसङ्घैश्च सेवितो वेङ्कटाचलः ॥
मेरुपुत्रो महापुण्यः सर्वकामफलप्रदः ॥ ॥ ५२ ॥
तस्मिन्वेङ्कटशैलेन्द्रे सुरासुरनमस्कृते ॥
वियद्गङ्गेति नाम्ना वै तीर्थमस्ति महत्तरम् ॥ ५३ ॥
सर्वपापप्रशमनमायुरारोग्यवर्धनम् ॥
त्वं गत्वा वेङ्कटं शैलं स्वामिपुष्करिणीजले ॥ ५४ ॥
स्नात्वा सङ्कल्पपूर्वं तु गङ्गातीर्थमनन्तरम् ॥
गत्वा तीर्थविधानेन स्नानं कुरु महामते ॥ ५५ ॥
स्नानमात्रात्ततः सद्यो मुखस्यास्य महामते ॥
वैरूप्यं तत्क्षणादेव नङ्क्ष्यत्येव न संशयः ॥५६॥
एवमुक्तः पुण्यशीलो ह्यगस्त्येन महात्मना ॥
तं प्रणम्य महात्मानं वेङ्कटाद्रिं ततो ययौ ॥५७ ॥
तत्र गत्वा महाभागः स्वामिपुष्करिणीजले ॥
स्नात्वा नियमपूर्वं तु वियद्गङ्गासमीपगः ॥ ५८ ॥
तत्र स्नानेन धर्मात्मा कामवक्रोपमं मुखम् ॥
प्राप्तवान्पुण्यशीलस्तु अहो तीर्थस्य वैभवम् ॥ ५९ ॥
॥ श्रीसूत उवाच ॥ ॥
एवं वः कथितं विप्रा नारदेन प्रभाषितम् ॥
सनत्कुमारमुनये शौनकाद्या महौजसः ॥ 2.1.22.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्य आकाशगङ्गामाहात्म्यवर्णनन्नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥