०२१ रामानुजविप्रव्रतचर्यादिवर्णनम्

॥ अथ रामानुजाख्यद्विजवृत्तान्तः ॥
॥ श्रीसूत उवाच ॥ ॥
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥
आकाशगङ्गातीर्थस्य माहात्म्यं प्रवदाम्यहम् ॥ १ ॥
आकाशगङ्गानिकटे सर्वशास्त्रार्थपारगः ॥
रामानुज इति ख्यातो विष्णुभक्तो जितेन्द्रियः ॥ २ ॥
तपश्चकार धर्मात्मा वैखानसमते स्थितः ॥
ग्रीष्मे पञ्चाग्निमध्यस्थो विष्णुध्यानपरायणः ॥ ३ ॥
जपन्नष्टाक्षरं मन्त्रं ध्यायन्हृदि जनार्दनम् ॥
वर्षास्वाकाशगो नित्यं हेमन्तेषु जलेशयः ॥ ४ ॥
सर्वभूतहितो दान्तः सर्वद्वन्द्वविवर्जितः ॥
वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोभवत् ॥ ५ ॥
कञ्चित्कालं जलाहारो वायुभक्षः कियत्समाः ॥६॥
॥ अथाकाशगङ्गातीरे रामानुजतपस्तुष्टभगवदाविर्भावः ॥ ॥
अथ तत्तपसा तुष्टो भगवान्भक्तवत्सलः ॥
प्रत्यक्षतामगात्तस्य शङ्खचक्रगदाधरः ॥ ७ ॥
विकचाम्बुजपत्राक्षः सूर्यकोटिसमप्रभः ॥
विनतानन्दनारूढश्छत्रचामरशोभितः ॥ ८ ॥
हारकेयूरमुकुटः कटकादिविभूषितः ॥
विष्वक्सेनसुनन्दादि किङ्करैः परिवारितः ॥ ९ ॥
वीणावेणुमृदङ्गादिवादकैर्नारदादिभिः ॥
गीयमानः सुविभवः पीताम्बरविराजितः ॥2.1.21.१०॥
लक्ष्मीविराजितोरस्को नीलमेघनिवच्छविः ॥
सनकादिमहायोगिसेवितः पार्श्वयोर्द्वयोः ॥ ११ ॥
मन्दस्मितेन सकलं मोहयन्भुवनत्रयम् ॥
स्वभासा मानयन्सर्वा दिशो दश विराजयन्॥ १२ ॥
सुभक्तसुलभो देवो वेङ्कटेशो दयानिधिः ॥
पुनः सन्निदधे तस्य रामानुजमहामुनेः ॥ १३ ॥
आविर्भूतं तदा दृष्ट्वा श्रीनिवासं कृपानिधिम् ॥
पीताम्बरधरं देवं तुष्टिं प्राप महामुनिः ॥ १४ ॥
भक्त्या परमया युक्तस्तुष्टाव जगदीश्वरम् ॥१५॥
॥ अथ रामानुजाख्यविप्रकृतभगवत्स्तुतिः ॥
॥ रामानुज उवाच ॥ ॥
नमो देवाधिदेवाय शङ्खचक्रगदाभृते ॥
नमो नित्याय शुद्धाय वेङ्कटशाय ते नमः ॥ १६ ॥
नमो भक्तार्तिहन्त्रे ते हव्यकव्यस्वरूपिणे ॥
नमस्त्रिमूर्तये तुभ्यं सृष्टिस्थित्यन्तकारिणे ॥ १७ ॥
नमः परेशाय नमोऽतिभूम्ने नमोऽस्तु लक्ष्मीपतये विधात्रे ॥
नमोऽस्तु सूर्येन्दुविलोचनाय नमो विरिञ्चाद्यभिवन्दिताय ॥ १८ ॥
यो नाम जात्यादिविकल्पहीनः समस्तदोषैरपि वर्जितो यः ॥
समस्तसंसारभयापहारिणे तस्मै नमो दैत्यविनाशकाय॥१९॥
वेदान्तवेद्याय रमेश्वराय वृषादिवासाय विधातृपित्रे ॥
नमोनमः सर्वजनार्तिहारिणे नारायणायामितविक्रमाय ॥ 2.1.21.२० ॥
नमस्तुभ्यं भगवते वासुदेवाय शार्ङ्गिणे ॥
भूयोभूयो नमस्तुभ्यं वेङ्कटाद्रिनिवासिने ॥ २१ ॥
इति स्तुत्वा वेङ्कटेशं श्रीनिवासं जगद्गुरुम् ॥
रामानुजो मुनिस्तूष्णीमास्ते विप्रवरोत्तमः ॥ २२ ॥
श्रुत्वा स्तुतिं श्रुतिसुखां स्तुतस्तस्य महात्मनः ॥
अवाप परमं तोषं वेङ्कटाचलनायकः ॥ २३ ॥
अथालिङ्ग्य मुनिं शौरिश्चतुर्भिर्बाहुभिस्तदा ॥
बभाषे प्रीतिसंयुक्तो वरं वै व्रियतामिति ॥ २४ ॥
तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि महामुने ॥
नमस्कारेण च प्रीतो वरदोऽहं तवागतः ॥ २५ ॥
॥ अथ रामानुजाख्यविप्रकृतभगवत्प्रार्थना ॥ ॥ ॥
॥ रामानुज उवाच ॥ ॥
नारायण रमानाथ श्रीनिवास जगन्मय ॥
जनार्दन जगद्धाम गोविन्द नरकान्तक ॥ २६ ॥
त्वद्दर्शनात्कृतार्थोऽस्मि वेङ्कटाद्रिशिरोमणे ॥
त्वां नमस्यन्ति धर्मिष्ठा यतस्त्वं धर्मपालकः ॥ २७ ॥
यं न वेत्ति भवो ब्रह्मा यं न वेत्ति त्रयी तथा ॥
त्वां वेद्मि परमात्मानं किमस्मादधिकं परम् ॥ २८ ॥
योगिनो यं न पश्यन्ति यं न पश्यन्ति कर्मठाः ॥
पश्यामि परमात्मानं किमस्मादधिकं परम् ॥ २९ ॥
एतेन च कृतार्थोऽस्मि वेङ्कटेश जगत्पते ॥
यन्नामस्मृतिमात्रेण महापातकिनोऽपि च ॥ 2.1.21.३० ॥
मुक्तिं प्रयान्ति मनुजास्तं पश्यामि जनार्दनम् ॥
त्वत्पादपद्मयुगले निश्चला भक्तिरस्तु मे ॥ ३१ ॥
॥ अथ भगवद्वर्णिताकाशगङ्गातीर्थस्नानकालः ॥
॥ श्रीभगवानुवाच ॥ ॥
मयि भक्तिर्दृढा तेस्तु रामानुज महामते ॥
शृणु चाप्यपरं वाक्यमुच्यते ते मया द्विज ॥ ३२ ॥
मेषसङ्क्रमणे भानोश्चित्रानक्षत्रसंयुते ॥
पौर्णमास्यां च गङ्गायां स्नानं कुर्वन्ति ये जनाः ॥ ३३ ॥
ते यान्ति परमं धाम पुनरावृत्तिवर्जितम् ॥
वियद्गङ्गासमीपे त्वं वस रामानुज द्विज ॥ ३४ ॥
एतत्प्रारब्धदेहान्ते मत्स्वरूपमवाप्स्यसि ॥
बहुना किमिहोक्तेन वियद्गङ्गाजले शुभे ॥ ३५ ॥
स्नान्ति ये वै जनाः सर्वे ते वै भागवतोत्तमाः ॥
भवन्ति मुनिशार्दूल नात्र कार्या विचारणा ॥ ३६ ॥
॥ रामानुज उवाच ॥ ॥
किंलक्षणा भागवता ज्ञायन्ते केन कर्मणा ॥
एतदिच्छाम्यहं श्रोतुं कौतूहलपरो यतः ॥ ३७ ॥ ॥
॥ अथ भगवद्वर्णितभागवतलक्षणानि ॥
॥ श्रीवेङ्कटेश उवाच ॥
लक्ष्म भागवतानां तु शृणुष्व मुनिसत्तम ॥ ३८ ॥
वक्तुं तेषां प्रभावं तु शक्यते नाब्दकोटिभिः ॥ ३९ ॥
ये हिताः सर्वजन्तूनां गतासूया विमत्सराः ॥
ज्ञानिनो निःस्पृहाः शान्तास्ते वै भागवतोत्तमाः ॥ 2.1.21.४० ॥
कर्मणा मनसा वाचा परपीडां न कुर्वते ॥
अपरिग्रहशीलाश्च ते वै भागवतोत्तमाः ॥ ४१ ॥
सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः ॥
मत्पादाम्बुजभक्ता ये ते वै भागवतोत्तमाः ॥ ४२ ॥
मातापित्रोश्च शुश्रूषां कुर्वते ये नरोत्तमाः ॥
ये तु देवार्चनरता ये तु तत्साधका नराः ॥
पूजां दृष्ट्वा तु मोदन्ते ते वै भागवतोत्तमाः ॥ ४३ ॥
वर्णिनां च यतीनां च परिचर्यापराश्च ये ॥
परनिन्दामकुर्वाणास्ते वै भागवतोत्तमाः ॥ ४४ ॥
सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः ॥
ये गुणग्राहिणो लोके ते वै भागवतोत्तमाः ॥ ४५ ॥
आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः ॥
तुल्याः शत्रुषु मित्रेषु ते वै भागवताः स्मृताः ॥ ४६ ॥
धर्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये ॥
तेषां शुश्रूषवो ये च ते वै भागवतोत्तमाः ॥ ४७ ॥
व्याकुर्वन्ति पुराणानि तानि शृण्वन्ति ये तथा ॥
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ॥ ४८ ॥
ये गोब्राह्मणशुश्रूषां कुर्वन्ति सततं नराः ॥
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ॥ ४९ ॥
अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः ॥
हरिनामपरा ये च ते वै भागवतोत्तमाः ॥ 2.1.21.५० ॥
आरामारोपणरतास्तटाकपरिरक्षकाः ॥
कासारकूपकर्तारस्ते वै भागवतोत्तमाः ॥ ५१ ॥
ये वै तटाककर्तारो देवसद्मानि कुर्वते ॥
गायत्रीनिरता ये च ते वै भागवतोत्तमाः ॥ ५२ ॥
येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः ॥
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥ ५३ ॥
तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः ॥
तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥॥ ५४ ॥
तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये ॥
तन्मूलमुद्धरा ये च ते वै भागवतोत्तमाः ॥ ५५ ॥
स्वाश्रमाचारनिरतास्तथैवातिथिपूजकाः ॥
ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ॥ ५६ ॥
विदितानि च शास्त्राणि परार्थं प्रवदन्ति ये ॥
सर्वत्र गुणभाजो ये ते वै भागवतोत्तमाः ॥ ५७ ॥
पानीयदाननिरता ह्यन्नदानरताश्च ये ॥
एकादशीव्रतपरास्ते वै भागवतोत्तमाः ॥ ५८ ॥
गोदाननिरता ये च कन्यादानरताश्च ये ॥
मदर्थं कर्मकर्तारस्ते वै भागवतोत्तमाः ॥ ५९ ॥
मन्मानसाश्च मद्भक्ता ये मद्भजनलोलुपाः ॥
मन्नामस्मरणासक्तास्ते वै भागवतोत्तमाः ॥॥ 2.1.21.६० ॥
बहुनात्र किमुक्तेन सङ्क्षेपात्ते ब्रवीम्यहम् ॥
सद्गुणाय प्रवर्तन्ते ते वै भागवतोत्तमाः ॥ ६१ ॥
एते भागवता विप्राः केचिदत्र प्रकीर्तिताः ॥
ममापि गदितुं शक्या नाब्दकोटिशतैरपि ॥ ६२ ॥
रामानुज महाभाग मद्भक्तानां च लक्षणम् ॥
मयि भक्ते त्वयि प्रीत्या युक्तं किल महामते ॥ ६३ ॥
॥ श्रीसूत उवाच ॥ ॥
एवं वः कथितं विप्राः शौनकाद्या महौजसः ॥
वृषाद्रौ च वियद्गङ्गातीर्थमाहात्म्यमुत्तमम ॥ ॥ ६४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये आकाशगङ्गामाहात्म्य रामानुजविप्रव्रतचर्यादिवर्णनन्नामैकविंशतितमोऽध्यायः ॥ २१ ॥