॥ अथ पापविनाशनतीर्थमाहात्म्यवर्णनम् ॥
॥ ॥ श्रीसूत उवाच ॥ ॥
पुनश्चाहं प्रवक्ष्यामि पापनाशनवैभवम् ॥
भगवद्भक्तिभावेन शृणुध्वं सुसमाहिताः ॥ १ ॥
इतिहासं प्रवक्ष्यामि सर्वपापविनाशनम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २ ॥
॥ अथ भद्रमत्याख्यदरिद्रद्विजवृत्तान्तः ॥ ॥
आसीत्पुरा द्विजवरो वेदवेदाङ्गपारगः ॥
दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्द्विजः ॥ ३ ॥
श्रुतानि सर्वशास्त्राणि तेन विप्रेण धीमता ॥
श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः ॥ ४ ॥
अभवंस्तस्य षट् पत्न्यः कृता सिन्धुर्यशोवती ॥
कामिनी मालिनी चैव शोभा चैव प्रकीर्तिताः ॥ ५ ॥
तासु पत्नीषु तस्यासीत्पुत्राणां च शतद्वयम् ॥
ते सर्वे तस्य पुत्राद्याः क्षुधया परिपीडिताः ॥ ६ ॥
अकिञ्चनो भद्रमतिः क्षुधार्तानात्मजान्प्रियान् ॥
पश्यन्प्रियाः क्षुधार्ताश्च विललापाकुलेन्द्रियः ॥ ७ ॥
धिग्जन्म भाग्यरहितं धिग्जन्म धनवर्जितम् ॥
धिग्जन्म कीर्तिरहितं धिग्जन्मातिथ्यवर्जितम् ॥ ८ ॥
धिग्जन्माचाररहितं धिग्जन्म ज्ञानवर्जितम् ॥
धिग्जन्म यत्नरहितं धिग्जन्म सुखवर्जितम् ॥ ॥ ९ ॥
धिग्जन्म बन्धुरहितं धिग्जन्म ख्यातिवर्जितम् ॥
नरस्य बह्वपत्यस्य धिग्जन्मैश्वर्यवर्जितम् ॥ 2.1.20.१० ॥
अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले ॥
दारिद्र्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ॥ ११ ॥
विप्राः पुत्राश्च पौत्राश्च बान्धवा भ्रातरस्तथा ॥
शिष्याश्च सर्वे मनुजास्त्यजन्त्यैश्वर्यवर्जितम् ॥ १२ ॥
इति निश्चित्य मतिमान्धीरो भद्रमतिर्द्विजः ॥
चण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते ॥ १३ ॥
दरिद्रः पुरुषो लोके शववल्लोकनिन्दितः ॥
अहो सम्पत्समायुक्तो निष्ठुरो वाप्यनिष्ठुरः ॥ १४ ॥
गुणहीनोऽपि गुणवान्मूर्खो वापि स पण्डितः ॥
निष्ठुरो वा गुणी वापि धर्महीनोऽथ वा नरः ॥ १५ ॥
ऐश्वर्यगुणयुक्तश्चेत्पूज्य एव न संशयः ॥
अहो दरिद्रता दुःखं तत्राप्याशातिदुःखदा ॥ १६ ॥
आशाभिभूताः पुरुषा दुःखमश्नुवते क्षणात् ॥ १७ ॥
आशाया ये दासा दासास्ते सर्वलोकस्य ॥
आशा दासी येषां तेषां दासायते लोकः ॥ ॥ १८ ॥
सर्वशास्त्रार्थवेत्तापि दरिद्रो भाति मूर्खवत् ॥
आकिञ्चन्यमहाग्राहग्रस्तानां नास्ति मोचकः ॥ १९ ॥
अहो दुःखमहो दुःखमहो दुःखं दरिद्रता ॥
तत्रापि पुत्रदाराणां बाहुल्यमतिदुःखदम् ॥ 2.1.20.२० ॥
एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः ॥
अत्यैश्वर्यप्रदं धर्मं मनसा चिन्तयंस्तदा ॥
तूष्णीं स्थितो भद्रमतिमहाक्लेशसमन्वितः ॥ २१ ॥
॥ अथ भद्रमतेः कामिनीकृतवेङ्कटाद्रिगमनप्रोत्साहनम् ॥ ॥
तदानीं तासु भार्यासु कामिनी पतिदेवता ॥ २२ ॥
भार्या साधुगुणैर्युक्ता पतिं तं प्रत्यभाषत ॥ २३ ॥
॥ कामिन्युवाच ॥ ॥
भगवन्सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ॥
मम नाथ महाभाग वाक्यं शृणु महामते ॥ २४ ॥
सुवर्णमुखरीतीरे ऋषिसङ्घनिषेविते ॥
वर्तते दैवतैः सेव्यः पावनो वेङ्कटाचलः ॥ २५ ॥
तस्मिन्वेङ्कटशैलेन्द्रे सुरासुरनमस्कृते ॥
वर्तते पावनं तीर्थं पापानां दाहकं शुभम् ॥ २६ ॥
तत्र गत्वा महाभाग पापनाशे महामते ॥
कुरु स्नानं प्रयत्नेन भार्यापुत्रसमन्वितः ॥ २७ ॥
तस्य तीर्थस्य माहात्म्यं नारदाच्च श्रुतं मया ॥
बालभावे मम पितुरन्तिके प्रोक्तवान्मुनिः ॥ २८ ॥
वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने ॥
सर्वदुःखप्रशमने सर्वसम्पत्प्रदायके ॥ २९ ॥
पापनाशे महातीर्थे स्नात्वा सङ्कल्पपूर्वकम् ॥
अत्यैश्वर्यप्रदं धर्मं मनसा चिन्तयंस्तदा ॥ 2.1.20.३० ॥
भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् ॥
प्रापकं परलोकस्य सर्वकामफलप्रदम् ॥ ३१ ॥
दानानामुत्तमं दानं भूदानं परिकीर्तितम्॥
तद्दत्त्वा समवाप्नोति यद्यदिष्टतमं नरः ॥ ३२ ॥
इत्येवं नारदेनोक्तं श्रुत्वा मे जनको द्विजः ॥
सम्प्रहृष्टमना भूत्वा शेषाद्रिं प्राप्तवांस्तदा ॥ ३३ ॥
तत्र गत्वा महाभागः सर्वसम्पत्प्रदायकम् ॥
भूदानं विप्रवर्याय श्रोत्रियाय प्रदत्तवान् ॥ ३४ ॥
ततो मे जनको विद्वन्सर्वभाग्यसमन्वितः ॥
इहलोके सुखं प्राप्य चान्ते विष्णुपुरं ययौ ॥ ३५ ॥
त्वं च गत्वा महाभाग वेङ्कटाद्रिं नगोत्तमम् ॥
कुरु दानं प्रयत्नेन भूदानं सर्वकामदम् ॥ ३६ ॥
॥ अथ कामिनीकथितभूदानप्रशंसा ॥ ॥
भूमिदानस्य माहात्म्यं शृणुष्व सुसमाहितः ॥
न कोऽपि गदितुं शक्तो लोकेऽस्मिन्भगवन्प्रभो ॥ ३७ ॥
भूमिदानात्परं दानं न भूतं न भविष्यति ॥
परं निर्वाणमाप्नोति भूमिदो नात्र संशयः ॥ ३८ ॥
स्वल्पामपि महीं दत्त्वा श्रोत्रियायाहिताग्नये ॥
ब्रह्मलोकमवाप्नोति पुनरावृत्तिवर्जितम् ॥ ३९ ॥
भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत् ॥
भूभिदानं वृषाद्रौ च सर्वपापप्रणाशनम् ॥ 2.1.20.४० ॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥
दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते ॥ ४१ ॥
सत्पात्रे भूमिदाता यः सर्वदानफलं लभेत् ॥
भूमिदस्य समो नान्यस्त्रिषु लोकेषु विद्यते ॥ ४२ ॥
द्विजस्य वृत्तिहीनस्य यः प्रदद्यान्महीं शुभाम्॥
तस्य पुण्यफलं वक्तुं शेषो नार्हः कदाचन ॥ ४३ ॥
विप्रस्य वृत्तिहीनस्य सदाचारस्य कस्यचित् ॥
यो ऽल्पामपि महीं दद्यात्स विष्णुर्नात्र संशयः ॥ ४४ ॥
इक्षुगोधूमकेदारपूगदृक्षादिसंयुता ॥
पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः ॥ ४५ ॥
वृत्तिहीनस्य विप्रस्य दरिद्रस्य कुटुम्बिनः ॥
स्वल्पामपि महीं दत्त्वा विष्णुसायुज्यमश्नुते ॥ ४६ ॥
सक्तस्य देवपूजासु विप्रस्याटविका मही ॥
दत्ता भवति गङ्गायां त्रिरात्रस्नानजं फलम्॥ ४७ ॥
विप्रस्य वृत्तिहीनस्य सदाचाररतस्य च ॥
द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते शृणु ॥ ४८ ॥
गङ्गातीरेऽश्वमेधानां शतानि विधिवन्नरः ॥
कृत्वा यत्फलमाप्नोति तदाप्नोति महत्फलम् ॥ ४९ ॥
ददाति भारिकां भूमिं दरिद्राय द्विजातये ॥
तस्य पुण्यं प्रवक्ष्यामि मन्नाथ भगवन्प्रभो ॥ 2.1.20.५० ॥
अश्वमेधसहस्राणि वाजपेयशतानि च ॥
विधाय जाह्नवीतीरे यत्फलं तल्लभेत सः ॥ ५१ ॥
भूमिदानं महादानमतिदानं प्रकीर्तितम् ॥
सर्वपापप्रशमनमपवर्गफलप्रदम् ॥ ५२ ॥
यच्छ्रुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत् ॥
भार्याया वचनं श्रुत्वा त्वितिहाससमन्वितम् ॥ ५३ ॥
सन्तुष्टो मनसि ध्यात्वा शेषाचलनिवासिनम् ॥ ५४ ॥
॥ अथ भद्रमतये भूप्रदानात्सुघोषस्य सद्गतिः ॥ ॥
गन्तुं प्रचक्रमे बुद्ध्या क्रीडाचलमनुत्तमम् ॥
ततो भद्रमतिः सौम्यः सर्वधर्मपरायणः ॥ ५५ ॥
सुशालिन्नाम नगरीं कलत्रसहितो ययौ ॥
सुघोषं नाम विप्रेन्द्रं सर्वैश्वर्यसमन्वितम् ॥ ५६ ॥
गत्वा याचितवान्भूमिं पञ्चहस्तायतां द्विजः ॥
सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिनम् ॥ ॥ ५७ ॥
मनसा प्रीतिमापन्नं समभ्यर्च्यैनमब्रवीत् ॥
कृतार्थोऽहं भद्रमते सफलं मम जन्म च ॥
मत्कुलं चानघं जातं त्वं हि ग्राह्योऽसि मे यतः ॥ ५८ ॥
इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः ॥
पञ्चहस्तप्रमाणां तां ददौ तस्मै महामतिः ॥ ५९ ॥
पृथिवी वैष्णवी पुण्या पृथिवी विष्णुपालिता ॥
पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः ॥ 2.1.20.६० ॥
मन्त्रेणानेन विप्रेन्द्राः सुघोषस्तं द्विजेश्वरम् ॥
विष्णुबुद्ध्या समभ्यर्च्य तावतीं पृथिवीं ददौ ॥ ६१ ॥
स भद्रमतये विप्रा धीमांस्तां याचितां भुवम् ॥
दत्तवान्हरिभक्ताय श्रोत्रियाय कुटुम्बिने ॥ ६२ ॥
सुघोषो भूमिदानेन कोटिवंशसमन्वितः ॥
प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति ॥ ६३ ॥
॥ अथ भद्रमतेः पापनाशनतीरे भूदानार्थं वेङ्कटाद्रिगमनम्॥ ॥
विप्रो भद्रमतिश्चापि पुत्रदारसमन्वितः ॥
गतो वेङ्कटशैलेन्द्रं सुरासुरनमस्कृतम् ॥६४॥
गन्धर्वयक्षशैलादिसेवितं मेरुपुत्रकम् ॥
वैकुण्ठादागतं दिव्यं क्रीडाचलमनुत्तमम् ॥ ६५ ॥
तत्र स्वामिसरस्तोये निर्मले पावने शुभे ॥
दारपुत्रादिसंयुक्तः स्नात्वा सङ्कल्पपूर्वकम् ॥ ६६ ॥
तत्पश्चिमतटे श्वेतसूकरं वसुधाधरम् ॥
नत्वा तत्र विधानेन श्रीनिवासालयं गतः ॥६७॥
तत्र ब्रह्मादिदेवैश्च सेवितं वेङ्कटेश्वरम् ॥
दृष्टवान्सह पुत्राद्यैर्विष्णुभक्तो महामतिः॥६८॥
भक्त्या प्रणम्य देवेशं श्रीनिवासं कृपानिधिम् ॥
पुत्रदारादिसंयुक्तः पापनाशनमाययौ ॥ ६९ ॥
तत्र स्नात्वा विधानेन कृतधर्मादिसत्क्रियः ॥
कस्मैचिद्विष्णुभक्ताय श्रोत्रियाय महामतिः ॥2.1.20.७०॥
विष्णुबुद्ध्या स प्रददौ भूदानं मोक्षदं शुभम्॥७१॥
॥ अथ भूदानप्रभावेण भद्रमतेर्भगवत्साक्षात्कारः॥
तदा प्रादुरभूद्देवः शङ्खचक्रगदाधरः ॥ ७२ ॥
विनतानन्दनारूढो वनमालाविभूषितः ॥
पापनाशस्य तीरे तु भूदानस्य प्रभावतः ॥७३॥
तदा भद्रमतिः सौम्यः स्तोतुं समुपचक्रमे ॥ ७४ ॥
नमोनमस्तेऽखिलकारणाय नमोनमस्तेऽखिलपालकाय ॥
नमोनमस्तेऽमरनायकाय नमोनमो दैत्यविमर्दनाय ॥ ७५ ॥
नमोनमो भक्तजनप्रियाय नमोनमः पापविदारणाय ॥
नमोनमो दुर्जननाशकाय नमोऽस्तु तस्मै जगदीश्वराय ॥ ७६ ॥
नमो नमः कारणवामनाय नारायणायामितविक्रमाय ॥
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ ७७ ॥
नमः पयोराशिनिवासकाय नमोऽस्तु लक्ष्मीपतयेऽव्ययाय ॥
नमोऽस्तु सूर्याद्यमितप्रभाय नमोनमः पुण्यगतागताय ॥ ७८ ॥
नमोनमोऽर्केन्दुविलोचनाय नमोऽस्तु ते यज्ञफलप्रदाय ॥
नमोस्तु यज्ञाङ्गविराजिताय नमोऽस्तु ते सज्जनवल्लभाय ॥ ७९ ॥
नमोनमः कारणकारणाय नमोऽस्तु शब्दादिविवर्जिताय ॥
नमोऽस्तु तेऽभीष्टसुखप्रदाय नमोनमो भक्तमनोरमाय ॥ 2.1.20.८० ॥
नमोनमस्तेऽद्भुतकारणाय नमोऽस्तु ते मन्दरधारकाय ॥
नमोऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय ॥ ८१ ॥
नमोऽस्तु ते वामनरूपभाजे नमोऽस्तु ते क्षत्रकुलान्तकाय ॥
नमोऽस्तु ते रावणमर्दनाय नमोऽस्तु ते नन्दसुताग्रजाय ॥ ८२ ॥
नमस्ते कमलाकान्त नमस्ते सुखदायिने ॥
श्रितार्तिनाशिने तुभ्यं भूयोभूयो नमोनमः ॥ ८३ ॥
विप्रेण संस्तुतो देवो भगवान्भक्तवत्सलः ॥
वात्सल्येनाब्रवीद्वाक्यं श्रीनिवासो दयानिधिः ॥ ८४ ॥
तात तुष्टोऽस्मि भद्रं ते स्तोत्रेण महता द्विज ॥
सर्वभोगसमायुक्तः पुत्रपौत्रादिभिर्युतः ॥ ८५ ॥
इह लोके सुखं प्राप्य देहान्ते मुक्तिमाप्नुहि ॥
इत्युक्त्वा भगवान्विष्णुस्तत्रैवान्तरधीयत ॥ ८६ ॥
एवं वः कथितं विप्राः पापनाशनवैभवम् ॥
तत्तीरे भूप्रदानस्य माहात्म्यं चापि वर्णितम् ॥ ८७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये पापविनाशनतीर्थे भूदानफलानुवर्णनन्नाम विंशतितमोऽध्यायः ॥ २० ॥