०१९ पापविनाशनतीर्थमहिमानुवर्णनम्

अथ ब्रह्मादीनां नैरन्तर्येण श्रीवेङ्कटाचले स्थितिवर्णनम् ॥
॥ श्रीसूत उवाच ॥ ॥
अथातः सम्प्रवक्ष्यामि वेङ्कटाचलवैभवम् ॥
युष्माकं सावधानेन शृणुध्वं सुसमाहिताः ॥ १ ॥
लक्षकोटिसहस्राणि सरांसि सरितस्तथा ॥
समुद्राश्च महापुण्या वनान्यप्याश्रमा अपि ॥ २ ॥
पुण्यानि क्षेत्रजातानि वेदारण्यादिकानि च ॥
मुनयश्च वसिष्ठाद्या सिद्धचारणकिन्नराः ॥ ३ ॥
लक्ष्म्या सह धरण्या च भगवान्मधुसूदनः ॥
सावित्र्या च सरस्वत्या सहैव चतुराननः ॥ ४ ॥
पार्वत्या सह देवेशस्त्र्यम्बकस्त्रिपुरान्तकः ॥
हेरम्बषण्मुखाद्याश्च देवाः सेन्द्रपुरोगमाः ॥ ५ ॥
आदित्यादि ग्रहाश्चैव तथाष्टवसवो द्विजाः ॥
पितरो लोकपालाश्च तथान्ये देवतागणाः ॥ ६ ॥
महापातकसङ्घानां नाशने लोकपावने ॥
दिवानिशं वसन्त्यन्तर्वेङ्कटाचलमूर्धनि ॥ ७ ॥
तस्य दर्शनमात्रेण बुद्धिसौख्यं नृणां भवेत् ॥
तन्मूर्धनि कृतावासा सिद्धचारणयोषितः ॥ ८ ॥
पूजयन्ति सदाकालं वेङ्कटेशं कृपानिधिम् ॥
कोटयो ब्रह्महत्यानामगम्यागमकोटयः ॥ ९ ॥
अङ्गलग्ना विनश्यन्ति वेङ्कटाचलमारुतैः ॥ 2.1.19.१० ॥
॥ अथ श्रीवेङ्कटाचलारोहणसमयानुसन्ध्यानक्रमः ॥ ॥
वेङ्कटाद्रिं गिरिं तं तु प्रार्थयेत्पुण्यवर्धनम् ॥
स्वर्णाचल महापुण्य सर्वदेवनिषेवित ॥ ११ ॥
ब्रह्मादयोऽपि यं देवाः सेवन्ते श्रद्धया सह ॥
तं भवन्तमहं पद्भ्यामाक्रमेयं नगोत्तम ॥ १२ ॥
क्षमस्व तदघं मेऽद्य दयया पापचेतसः ॥
त्वन्मूर्धनि कृतावासं माधवं दर्शयस्व मे ॥ १३ ॥
प्रार्थयित्वा नरस्त्वेवं वेङ्कटाद्रिं नगोत्तमम् ॥
ततो मृदुपदं गच्छेत्पावनं वेङ्कटाचलम् ॥ १४ ॥
वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने ॥
स्वामिपुष्करिणीतीर्थे स्नात्वा नियमपूर्वकम् ॥ १५ ॥
पिण्डदानं ततः कुर्यादपि सर्षपमात्रकम् ॥
शमीदलसमानान्वा दद्यात्पिण्डान्पितॄन्प्रति ॥ १६ ॥
स्वर्गस्था मोक्षमायान्ति स्वर्गं नरकवासिनः ॥ १७ ॥
॥ अथ पापविनाशनाख्यतीर्थमाहात्म्यम् ॥ ॥
ततस्तस्योपरि महत्सर्वलोकेषु विश्रुतम् ॥
सर्वतीर्थोत्तमं पुण्यं नाम्ना पापविनाशनम् ॥ १८ ॥
अस्ति पुण्यतमे विप्राः पवित्रे वेङ्कटाचले ॥
यस्य संस्मरणादेव गर्भवासो न विद्यते ॥ १९ ॥
तत्प्राप्य तु नरः स्नायात्स्वामितीर्थस्य चोत्तरे ॥
तत्र स्नानान्नरा यान्ति वैकुण्ठं नात्र संशयः ॥ 2.1.19.२० ॥
॥ ऋषय ऊचुः ॥ ॥
सूत पापविनाशाख्यतीर्थस्य ब्रूहि वैभवम् ॥
व्यासेन बोधितस्त्वं हि वेत्सि सर्वं महामुने ॥ २१ ॥
॥ श्रीसूत उवाच ॥ ॥
ब्रह्माश्रमपदे वृत्तां पार्श्वे हिमवतः शुभे ॥
वक्ष्यामि ब्राह्मणश्रेष्ठा युष्माकं तु कथां शुभाम् ॥ २२ ॥
तदाश्रमपदं पुण्यं ब्रह्माश्रमपदं शुभम्॥
नानावृक्षसमाकीर्णं पार्श्वे हिमवतः शुभे ॥ २३ ॥
बहुगुल्मलताकीर्णं मृगद्विपनिषेवितम् ॥
सिद्धचारणसङ्घुष्टं रम्यं पुष्पितकाननम् ॥ ॥ २४ ॥
यतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम्॥
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः ॥ २५ ॥
नियमव्रतसम्पन्नैः समाकीर्णे तपस्विभिः ॥
दीक्षितैर्यागशीलैश्च यताहारैः कृतात्मभिः ॥२६॥
वेदाध्ययनसम्पन्नैर्वैदिकैः परिवेष्टितम् ॥
वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥ २७ ॥
स्वाश्रमाचारनिरतैः स्ववर्णोक्तविधायिभिः ॥
वालखिल्यैश्च ऋषिभिः समन्तात्परिवेष्टितम् ॥२८ ॥
॥ अथ दृढमत्याख्यशूद्रवृत्तान्तः ॥ ॥
तत्राश्रमे पुरा कश्चिच्छूद्रो दृढमतिर्द्विजाः ॥
साहसी ब्राह्मणाभ्याशमाजगाम मुदान्वितः ॥ २९ ॥
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥
नाम्ना दृढमतिः शूद्रः साष्टाङ्गं प्रणनाम वै ॥ 2.1.19.३० ॥
तान्स दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ॥
कुर्वतो विविधान्यज्ञान्सम्प्राशहृष्यत शूद्रकः ॥ ३१ ॥
अथास्य बुद्धिरभवत्तपः कर्तुमनुत्तमम् ॥
ततोऽब्रवीत्कुलपतिं मुनिमागत्य तापसम् ॥ ३२ ॥ ॥
दृढमतिरुवाच॥ ॥
तपोधन नमस्तेऽस्तु रक्ष मां करुणानिधे ॥
तव प्रसादादिच्छामि यागं कर्तुं प्रसीद मे ॥ ३३ ॥
॥ अथ दृढमतिं प्रति कुलपत्याख्यमुन्युपदिष्टशूद्रधर्माः ॥ ॥
एवमुक्तस्तु शूद्रेण तमाह ब्राह्मणस्तदा ॥ ३४ ॥
॥ कुलपतिरुवाच ॥ ॥
यागे दीक्षयितुं शक्यो न शूद्रो हीनजन्मभाक् ॥
भूयते यदि ते बुद्धिः शुश्रूषा निरतो भव ॥ ३५ ॥
उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् ॥
उपदेशे महान्दोष उपाध्यायस्यविद्यते ॥ ३६ ॥
नाध्यापयेद्बुधः शूद्रं तथा नैव च याजयेत् ॥
न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम् ॥ ३७ ॥
काव्यं वा नाटकं वापि तथालङ्कारमेव वा ॥
पुराणमितिहासं च शूद्रं नैव तु पाठयेत् ॥ ३८ ॥
यदि चोपदिशेद्विप्रः शूद्रस्यैतानि कर्हिचित् ॥
त्यजेयुर्ब्राह्मणा विप्रं ते ग्रामाद्ब्रह्मसङ्कुलात् ॥ ३९ ॥
शूद्राय चोपदेष्टारं द्विजं चण्डालवत्त्यजेत्॥
शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥ 2.1.19.४० ॥
तच्छुश्रूषस्व भद्रं ते ब्राह्मणाच्छद्धयासह ॥
शूद्रस्य द्विजशुश्रूषा मन्वादिभिरुदीरिता ॥ ४१ ॥
न हि नैसर्गिकं कर्म परित्यक्तुं त्वमर्हसि ॥
एवमुक्तः स मुनिना स शूद्रोऽचिन्तयत्तदा ॥ ४२ ॥
किं कर्तव्यं मया त्वद्य व्रते श्रद्धा हि मे परा ॥
यथा स्यान्ममसुज्ञान यतिष्येऽहं तथाद्य वै ॥ ४३ ॥
इति निश्चित्य मनसा शूद्रो दृढमतिस्तदा ॥
गत्वाश्रमपदादूरं कृतवानुटजशुभम्॥ ४४ ॥
तत्र वै देवतागारं पुण्यान्यायतनानि च ॥
पुष्पारामादिकं चापि तटाकखननादिकम् ॥ ४५॥
श्रद्धया कारयामास तपः सिद्ध्यर्थमात्मन ॥
अभिषेकांश्च नियमानुपवासादिकानपि ॥ ४६ ॥
बलिं कृत्वा च हुत्वा च दैवतान्यभ्यपूजयत् ॥
सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः ॥ ४७ ॥
नित्यं कन्दैश्च मूलैश्च पुष्पैरपि तथा फलैः ॥
अतिथीन्पूजयामास यथावत्समुपागतान् ॥ ४८ ॥
एवं हि सुमहान्कालो व्यतिचक्राम तस्य वै ॥ ४९ ॥
॥ अथ दृढमतये सुमत्याख्यविप्रप्रकाशितकर्मानुष्ठानक्रमः ॥ ॥
अथाश्रममगात्तस्य सुमतिर्नाम नामतः ॥
द्विजो गर्गकुलोद्भूतः सत्यवादी जितेन्द्रियः ॥ 2.1.19.५० ॥
स्वागतैर्मुनिमाराध्य तोषयित्वा फलादिकैः ॥
कथयन्वै कथाः पुण्याः कुशलं पर्यपृच्छत ॥ ५१ ॥
इत्थं विप्रः स पाद्याद्यैरुपचारैस्तु पूजितः ॥
आशीर्भिरभिनन्द्यैनं प्रतिगृह्य च सत्क्रियाम् ॥ ५२ ॥
तमापृच्छत्प्रहृष्टात्मा स्वाश्रमं पुनराययौ ॥
एवं दिनेदिने विप्रः शूद्रेऽस्मिन्पक्षपातवान् ॥ ५३ ॥
आगच्छदाश्रमं तस्य द्रष्टुं तं शूद्रयोनिजम् ॥
बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना ॥ ५४ ॥
स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे ॥
अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् ॥ ५५ ॥
हव्यकव्यविधानं मे ब्रूहि त्वं तु गुरुर्मतः ॥
एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ॥५६॥
कारयामास शूद्रस्य पितृकार्यादिकं तदा ॥
पितृकार्ये कृते तेन विसृष्टः स द्विजोत्तमः ॥ ५७ ॥
॥ अथ शूद्रस्य वैदिककर्मोपदेशेन सुमत्यनुभूतदुर्गतिः ॥ ॥
अथ दीर्घेण कालेन पोषितः शूद्रयोनिना ॥
त्यक्तो विप्रगणैः सोऽयं पञ्चत्वमगमद्द्विजः ॥ ५८ ॥
वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ५९ ॥
भुक्त्वा क्रमेण नरकांस्तदन्ते स्थावरोऽभवत् ॥
गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् ॥ 2.1.19.६० ॥
जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ॥
अथ चण्डालतां प्राप्य शूद्रयोनिमगात्ततः ॥ ६१ ॥
गतवान्वैश्यतां पश्चात्क्षत्रियस्तदनन्तरम् ॥
प्रबलैर्बाध्यमानोऽसौ ब्राह्मणो वै तदाभवत् ॥ ६२ ॥
उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः ॥
वर्तमानः पितुर्गेहे स्वाचाराभ्यासतत्परः ॥ ६३ ॥
गच्छन्कदाचिद्गहने गृहीतो ब्रह्मरक्षसा ॥
रुदन्भ्रमन्स्खलन्मूढः प्रलपन्प्रहसन्नसौ ॥ ६४ ॥
शश्वद्धाहेति च वदन्वैदिकं कर्म सोऽत्यजत् ॥
दृष्ट्वा सुतं तथाभूतं पिता दुःखेन पीडितः ॥ ६५ ॥
सुतमादाय च स्नेहादगस्त्यं शरणं ययौ ॥
सुवर्णमुखरीतीरे तपस्यन्तं शिवाग्रतः ॥६६॥
भक्त्या मुनिं प्रणम्यासौ पिता तस्य सुतस्य वै ॥
तस्मै निवेदयामास स्वपुत्रस्य विचेष्टितम् ॥६७॥
॥ अथागस्त्योक्त्या दुर्गत्यपनोदनार्थं सुमतेर्वेङ्कटाद्रिगमनम् ॥ ॥
अब्रवीच्च तदा विप्रः कुम्भजं मुनिपुङ्गवम् ॥
एष मे तनयो ब्रह्मन्गृहीतो ब्रह्मरक्षसा ॥६८॥
सुखं न लभते ब्रह्मन्रक्ष तं करुणादृशा ॥
नास्ति मे तनयोऽप्यन्यः पितॄणामृणमुक्तये ॥ ६९ ॥
तस्य पीडाविनाशार्थमुपायं ब्रूहि कुम्भज ॥
त्वत्समस्त्रिषु लोकेषु तपःशीलो न विद्यते ॥ 2.1.19.७० ॥
त्वां विनास्य परित्राता न मे पुत्रस्य विद्यते ॥
पुत्रे दयां कुरु गुरो दयाशीला हि साधवः ॥ ७१ ॥
॥ श्रीसूत उवाच ॥ ॥
एवमुक्तस्तदा तेन कुम्भजो ध्यानमास्थितः ॥
ध्यात्वा तु सुचिरं कालमब्रवीद्ब्राह्मणं ततः ॥७२॥
॥ अगस्त्य उवाच ॥ ॥
पूर्वजन्मनि ते पुत्रो ब्राह्मणोऽयं महामते ॥
सुमतिर्नाम विप्रोऽयं मतिं शूद्राय वै ददौ ॥ ७३ ॥
कर्माणि वैदिकान्येष सर्वाण्युपदिदेश वै ॥
अतोऽयं नरकान्भुक्त्वा कल्पकोटिसहस्रकम् ॥ ७४ ॥
जातो भुवि तदन्तेषु स्थावरादिषु योनिषु ॥
इदानीं ब्राह्मणो जातः कर्मशेषेण ते सुतः ॥ ७५ ॥
यमेन प्रेषितेनात्र गृहीतो ब्रह्मरक्षसा ॥
क्रूरेण पातकेनाद्य पूर्वजन्मकृतेन वै ॥ ७६ ॥
उपायं ते प्रवक्ष्यामि ब्रह्मरक्षोविनाशने ॥
शृणुष्व श्रद्धया युक्तः समाधाय च मानसम्॥ ७७ ॥
सुवर्णमुखरीतीरे ऋषिसङ्घनिषेविते ॥
वर्तते दैवतैः सेव्यः पावनो वेङ्कटाचलः ॥ ७८ ॥
तस्योपरि महातीर्थं नाम्ना पापविनाशनम्॥
अस्ति पुण्यं प्रसिद्धं च महापातकनाशनम् ॥ ७९ ॥
भूतप्रेतपिशाचानां वेतालब्रह्मरक्षसाम् ॥
महतां चैव रोगाणां तीर्थं तन्नाशकं स्मृतम् ॥ 2.1.19.८० ॥
सुतमादाय गच्छ त्वं तत्तीर्थं गिरिमध्यगम् ॥
प्रयतः स्नापय सुतं तीर्थे पापविनाशने ॥ ८१ ॥
स्नानेन त्रिदिनं तत्र बह्मरक्षो विनश्यति ॥
नैवोपायान्तरं तस्य विनाशे विद्यते भुवि ॥ ८२ ॥
तस्माच्छीघ्रं प्रयाहि त्वं वेङ्कटाह्वयपर्वतम् ॥
तत्र पापविनाशाख्यतीर्थे स्नापय ते सुतम् ॥ ८३ ॥
मा विलम्बं कुरुष्वात्र त्वरया याहि वै द्विज ॥
इत्युक्तः स द्विजोऽगस्त्यं प्रणम्य भुवि दण्डवत् ॥ ८४ ॥
अनुज्ञातश्च तेनासौ प्रययौ वेङ्कटाचलम् ॥
सुतेन साकं विप्रोऽसौ गत्वा पापविनाशनम् ॥ ८५ ॥
॥ अथ सुमतेः पापनाशनस्नानेन दुर्गत्यपनोदनम् ॥ ॥
सङ्कल्पपूर्वं संस्नाप्य दिनत्रयमसौ सुतम् ॥
सस्नौ स्वयं च विप्रेन्द्रः पिता पापविनाशने ॥ ८६ ॥
समागतः पपौ तोयं कृत्वा चाप्याह्निकक्रमम् ॥
अथ तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा ॥ ८७ ॥
समजायत नीरोगः स्वस्थः सुन्दररूपधृक् ॥
सर्वसम्पत्समृद्धोऽसौ भुक्त्वा भोगाननेकशः ॥ ८८ ॥
देहान्ते प्रययौ मुक्तिं स्नानात्पापविनाशने ॥
पितापि तत्र स्नानेन देहान्ते मुक्तिमाप्तवान् ॥ ८९ ॥
॥ अथ वैदिककर्मानुष्ठातुर्दृढमतेर्दुर्गतिप्राप्त्यपनोदनम् ॥ ॥
तेनोपदिष्टोऽयं शूद्रः स भुक्त्वा नरकान्क्रमात् ॥
अनेकासु जनित्वा च कुत्सितास्वपि योनिषु ॥ 2.1.19.९० ॥
गृध्रजन्माभवत्पश्चाद्वेङ्कटाचलभूधरे ॥
स कदाचिज्जलं पातुं तीर्थे पापविनाशने ॥ ९१ ॥
समागतः पपौ तोयं सिषिचे चात्मनस्तनुम् ॥
तदैव दिव्यदेहः सन्सर्वाभरणभूषितः ॥ ९२ ॥
दिव्यं विमानमारुह्य प्रययावमरालयम्॥ ९३ ॥
॥ श्रीसूत उवाच ॥ ॥
एवम्प्रभावमेतद्वै तीर्थं पापविनाशनम् ॥
पापानां नाशनाद्विप्राः पापनाशाभिधं हि तत् ॥ ९४ ॥
इत्थं रहस्यं कथितं मुनीन्द्रास्तद्वैभवं पापविनाशनस्य ॥
यत्राभिषेकात्सहसा विमुक्तौ द्विजश्च शूद्रश्च विनिन्द्यकृत्यौ ॥ ९५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्यं पापविनाशनतीर्थमहिमानुवर्णनन्नामैकोनविंशतितमोऽध्यायः ॥ १९ ॥