॥ अथ श्रीवेङ्कटेश्वरवैभववर्णनम् ॥
॥ श्रीसूत उवाच ॥ ॥
अथेदानीं प्रवक्ष्यामि वेङ्कटेश्वरवैभवम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १ ॥
श्रीवेङ्कटेश्वरं देवं यः पश्यति सकृन्नरः ॥
स नरो मुक्तिमाप्नोति विष्णुसायुज्यमाप्नुयात् ॥ २ ॥
दशवर्षैस्तु यत्पुण्यं क्रियते तु कृते युगे ॥
त्रेतायामेकवर्षेण तत्पुण्यं साध्यते नृभिः ॥ ३ ॥
द्वापरे पञ्चमासेन तद्दिनेन कलौ युगे ॥
तत्फलं कोटिगुणितं निमिषेनिमिषे नृणाम् ॥ ४ ॥
निःसन्देहं भवेदेवं श्रीनिवासविलोकिनाम्॥
श्रीवेङ्कटेश्वरे देवे तीर्थानि सकलान्यपि ॥ ५ ॥
विद्यन्ते सर्वदेवाश्च मुनयः पितरस्तथा ॥
एककालं द्विकालं वा त्रिकालं सर्वदैव वा ॥ ६ ॥
ये स्मरन्ति महादेवं श्रीनिवासं विमुक्तिदम् ॥
कीर्तयन्त्यथवा विप्रास्ते मुक्ताः पापपञ्जरात् ॥ ७ ॥
नारायणं परं देवं वेङ्कटेशं प्रयान्ति वै ॥
पूजितं शङ्खराजेन सच्चिदानन्दविग्रहम् ॥ ८ ॥
तस्य स्मरणमात्रेण यमपीडाऽपि नो भवेत् ॥
श्रीनिवासं महादेवं येऽर्चयन्ति सकृन्नराः॥ ॥ ९ ॥
किं दानैः किं व्रतैस्तेषां किं तपोभिः किमध्वरैः ॥
वेङ्कटेशं परं देवं यो न चिन्तयति क्षणम् ॥ 2.1.18.१० ॥
अज्ञानी स च पापी स्यात्स मूको बधिरस्तथा ॥
स जडोऽन्धश्च विज्ञेयश्छिद्रं तस्य सदा भवेत् ॥ ११ ॥
श्रीनिवासे महादेवे सकृद्दृष्टे मुनीश्वराः ॥
किं काश्या गयया चैव प्रयागेनापि किं फलम्॥ १२ ॥
दुर्लभं प्राप्य मानुष्यं मानवा इह भूतले ॥
वेङ्कटेशं परं देवं ये पश्यन्त्यर्चयन्ति वा ॥ १३ ॥
जन्म तेषां हि सफलं ते कृतार्थाश्च नेतरे ॥
वेङ्कटेशे परे देवे दृष्टे वा पूजितेऽपि वा ॥ १४ ॥
शम्भुना ब्रह्मणा किं वा शक्रेणाप्यखिलामरैः ॥
वेङ्कटेशे महादेवे भक्तियुक्ताश्च ये नराः ॥ १५ ॥
तेषां प्रणामस्मरणपूजायुक्तास्तु ये नराः ॥
न ते पश्यन्ति दुःखानि नैव यान्ति यमालयम् ॥ १६ ॥
ब्रह्महत्यासहस्राणि सुरापानायुतानि च ॥
दृष्टे नारायणे देवे विलयं यान्ति कृत्स्नशः ॥ १७ ॥
ये वाञ्छन्ति सदा भोगं राज्यं च त्रिदशालये ॥
वेङ्कटाद्रिनिवासं ते प्रणमन्तु सकृन्मुदा ॥ १८ ॥
यानि कानि च पापानि जन्मकोटिकृतानि च ॥
तानि सर्वाणि नश्यन्ति वेङ्कटेश्वरदर्शनात् ॥ १९ ॥
सम्पर्कात्कौतुकाल्लोभाद्भयाद्वापि च संस्मरन् ॥
वेङ्कटेशं महादेवं नेहामुत्र च दुःखभाक् ॥ 2.1.18.२० ॥
वेङ्कटाचलदेवेशं कीर्तयन्नर्चयन्नपि ॥
अवश्यं विष्णुसारूप्यं लभते नात्र संशयः ॥ २१ ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात् ॥
तथा पापानि सर्वाणि वेङ्कटेश्वरदर्शनम् ॥ २२ ॥
वेङ्कटेश्वरदेवस्य भक्तिरष्टविधा स्मृता ॥
तद्भक्तजनवात्सल्यं तत्पूजापरितोषणम् ॥ २३ ॥
स्वयं तत्पूजनं भक्त्या तदर्थे देहचेष्टितम् ॥
तन्माहात्म्यकथावाञ्छाश्रवणेष्वादरस्तथा ॥ २४ ॥
स्वरनेत्रशरीरेषु विकारस्फुरणं तथा ॥
श्रीनिवासस्य देवस्य स्मरणं सततं तथा ॥ २५ ॥
वेङ्कटाद्रिनिवासं तमाश्रित्यैवोपजीवनम्॥
एवमष्टविधा भक्तिर्यस्मिन्म्लेच्छेऽपि वर्तते॥२६॥
स एव मुक्तिमाप्नोति शौनकाद्या महौजसः॥
भक्त्या त्वनन्यया मुक्तिर्ब्रह्मज्ञानेन निश्चिता॥ २७॥
वेदान्तशास्त्रश्रवणाद्यतीनामूर्ध्वरेतसाम् ॥
सा च मुक्तिर्विना ज्ञानं वेदान्तश्रवणोद्भवम्॥
यत्याश्रमं विना विप्रा विरक्तिं च विना तथा ॥ २८ ॥
सर्वेषां चैव वर्णानामखिलाश्रमिणामपि ॥
वेकटेश्वरदेवस्य दर्शनादेव केवलम् ॥ २९ ॥
अपुनर्भवदा मुक्तिर्भविष्यत्यविलम्बितम् ॥
कृमिकीटाश्च देवाश्च मुनयश्च तपोधनाः ॥ 2.1.18.३० ॥
तुल्या वेङ्कटशैलेन्द्रे श्रीनिवासप्रसादतः ॥
पापं कृतं मयानेकमिति मा क्रियतां भयम् ॥ ३१ ॥
मा गर्वः क्रियतां पुण्यं मयाऽकारीति वा जनैः ॥
वेङ्कटेशे महादेवे श्रीनिवासे विलोकिते ॥ ३२ ॥
न न्यूना नाधिकाश्च स्युः किन्तु सर्वे महाजनाः॥
वेङ्कटाख्ये महापुण्ये सर्वपातकनाशने॥३३॥
श्रीनिवासं परं देवं यः पश्यति सभक्तिकम्॥
न तेन तुल्यतामेति चतुर्वेद्यापि भूतले॥३४॥
वेङ्कटेश्वरदेवेशं यः पूजयति भक्तितः॥
स कोटिकुलसंयुक्तः प्रयाति हरिमन्दिरम्॥३५॥
श्रीनिवासाच्च न समं नाधिकं पुण्यमस्ति वै ॥
वेङ्कटाद्रिनिवासं तं द्वेष्टि यो मोहमास्थितः ॥ ३६ ॥
ब्रह्महत्यायुतं तेन कृतं नरककारणम् ॥
तत्सम्भाषणमात्रेण मानवो नरकं व्रजेत् ॥ ३७ ॥
श्रीनिवासपरा वेदाः श्रीनिवासपरा मखाः ॥
श्रीनिवासपराः सर्वे तस्मादन्यन्न विद्यते ॥ ३८ ॥
अन्यत्सर्वं परित्यज्य श्रीनिवासं समाश्रयेत् ॥
सर्वयज्ञतपोदानतीर्थस्नाने तु यत्फलम् ॥ ३९ ॥
तत्फलं कोटिगुणितं श्रीनिवासस्य सेवया ॥
वेङ्कटाद्रिनिवासं तं चिन्तयन्घटिकाद्वयम् ॥ 2.1.18.४० ॥
कुलैकविंशतिं धृत्वा विष्णुलोके महीयते ॥
स्वामिपुष्करिणीतीर्थे स्नानं देवस्य दर्शनम् ॥ ४१ ॥
यदि लभ्येत वै पुंसां किं गङ्गाजलसेवया ॥
वेकटेशं परं देवं यः कदापि न पश्यति ॥ ४२ ॥
सङ्करः स तु विज्ञेयो न पितुर्बीजसम्भवः ॥
तस्मात्सर्वप्रयत्नेन वेङ्कटेशो दयानिधिः ॥ ४३ ॥
द्रष्टव्योऽतिप्रयत्नेन परलोकेच्छया द्विजाः ॥
एवं वः कथितं विप्रा वेङ्कटेशस्य वैभवम् ॥ ४४ ॥
यस्त्वेतच्छृणुयान्नित्यं पठते च सभक्तिकम् ॥
स वै वेङ्कटनाथस्य सेवाफलमवाप्नुयात् ॥ ४५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये वेङ्कटेश्वरवैभवानुवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥ ॥