॥ अथ श्रीवेङ्कटाचलक्षेत्रादिवर्णनम् ॥
॥ श्रीसूत उवाच ॥ ॥
वेङ्कटाद्रेस्तु माहात्म्यं भूयोऽपि प्रवदाम्यहम् ॥
युष्माकं सावधानेन शृणुध्वं सुसमाहिताः ॥ १ ॥
पृथिव्यां यानि तीर्थानि ब्रह्माण्डान्तर्गतानि च ॥
तानि सर्वाणि वर्तन्ते वेङ्कटाह्वयभूधरे ॥ २ ॥
तस्मिन्नगोत्तमे पुण्ये वसन्तं पुरुषोत्तमम् ॥
शङ्खचक्रधरं देवं पीताम्बरधरं शुभम् ॥ ३ ॥
कौस्तुभालङ्कृतोरस्कं भक्तानामभयप्रदम् ॥
देवदेवं विशालाक्षं वेदवेद्यं सनातनम् ॥ ॥ ४ ॥
अङ्गकोसलकर्णाटकाशीगुर्जरदेशगाः ॥
चोलकेरलपाण्ड्यादिसर्वदेशसमुद्भवाः ॥ ५ ॥
सकुटुम्बाश्च सेवार्थमायान्ति प्रतिवत्सरम् ॥
देवाश्च ऋषयः सिद्धा योगिनः सनकादयः ॥ ६ ॥
ये भाद्रपदमासे तु वेङ्कटेशमहोत्सवे ॥
सेवां कुर्वन्ति ते सर्वे निष्पापा उत्तमोत्तमाः ॥ ७ ॥
तत्र श्रीवेङ्कटेशस्य ब्रह्मा लोकपितामहः ॥
चकार कन्यामासे तु ध्वजारोपमहोत्सवम् ॥ ८ ॥
प्रतिवर्षं च तत्सेवा निमित्तं सर्वमानवाः ॥
सर्वे देवाश्च गन्धर्वाः सिद्धाः साध्या महौजसः ॥ ९ ॥
ब्रह्मोत्सवे भगवतः समायान्ति द्विजोत्तमाः ॥
विद्यानां वेदविद्येव मन्त्राणां प्रणवो यथा ॥ 2.1.17.१० ॥
प्राणवत्प्रियवस्तूनां धेनूनां कामधेनुवत् ॥
तथा वेङ्कटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥ ११ ॥
शेषवत्सर्वनागानां पक्षिणां गरुडो यथा ॥
देवानां तु यथा विष्णुर्वर्णानां ब्राह्मणो यथा ॥ १२ ॥
तथा वेङ्कटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥
भूरुहाणां सुरतरुर्भार्येव सुहृदां यथा ॥ १३ ॥
तीर्थानां तु यथा गङ्गा तेजसां तु रविर्यथा ॥
तथा वेङ्कटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥१४॥
आयुधानां यथा वज्रं लोहानां काञ्चनं यथा ॥
वैष्णवानां यथा रुद्रो रत्नानां कौस्तुभो यथा ॥ १५ ॥
तथा वेङ्कटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥
नानेन सदृशो लोके विष्णुप्रीतिविवर्धनः ॥ १६ ॥
न माधवसमो मासो न कृतेन समं युगम् ॥
न च वेदसमं शास्त्रं न तीर्थं गङ्गया समम् ॥ १७ ॥
न जलेन समं दानं न सुखं भार्यया समम्॥
न कृषेस्तु समं वित्तं न लाभो जीवितात्परः ॥ १८ ॥
न तपोऽनशनादन्यन्न दानात्परमं सुखम् ॥
न धर्मस्तु दयातुल्यो न ज्योतिश्चक्षुषा समम् ॥ १९ ॥
न तृप्तिरशनातुल्या न वाणिज्यं कृषेः समम् ॥
न धर्मेण समं मित्रं न सत्येन समं यशः ॥ ॥ 2.1.17.२० ॥
यथा तथा भगवतः स्थानेन सदृशं न हि ॥ २१ ॥
यत्कीर्तनं सकलपापहरं मुनीन्द्रा यद्वन्दनं सकलसौख्यदमेव लोके ॥
यात्रापि यं प्रति सुरैरपि पूजनीया तादृङ्महान्भवति वेङ्कटशैलमुख्यः ॥ २२ ॥
तस्यानुभावं प्रवदामि भूयः समस्ततीर्थानि वसन्ति यत्र ॥
एवं समस्तेषु च मुख्यतीर्थं श्रीस्वामिनामास्ति सरोवरं तत् ॥ २३ ॥
माहात्म्यमेतस्य मयोच्यते कथं यत्पश्चिमे रोधसि भूवराहः ॥
आलिङ्ग्य कान्तामतिसौम्यमूर्तिर्विराजते विश्वजनोपकारी ॥ २४ ॥
श्रीस्वामिपुष्करिण्यां च दक्षिणे वेङ्कटेश्वरः ॥
आलिङ्गितवपुर्लक्ष्म्या वरदो वर्तते चिरम् ॥ २५ ॥
एवं वः कथितं विप्राः क्षेत्रमाहात्म्यमुत्तमम् ॥
यः शृणोति सदा भक्त्या विष्णुलोके महीयते ॥ २६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये क्षेत्रमहिमानुवर्णनन्नाम सप्तदशोऽध्यायः ॥ १७ ॥