०१६ जलदानवैभववर्णनम्

॥ अथ श्रीवेङ्कटाद्रौ जलदानप्रशंसा ॥
॥ श्रीसूत उवाच ॥ ॥
वेङ्कटाख्ये महापुण्ये तृषार्तानां विशेषतः ॥
जलदानमकुर्वाणस्तिर्यग्योनिमवाप्नुयात् ॥१॥
तस्माद्वेङ्कटशैलेन्द्रे यथाशक्त्यनुसारतः ॥
जलदानं हि कर्तव्यं सर्वेषां जीवनं महत्॥ २ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥
विप्रस्य गृहगोधायाः संवादं परमाद्भुतम् ॥ ३ ॥
॥ अथ हेमाङ्गस्य जलदानाकरणेन गृहगोधिकात्वप्राप्तिः ॥ ॥
पुरा चेक्ष्वाकुवंशेऽभूद्धेमाङ्ग इति भूमिपः ॥
ब्रह्मण्यो ब्रह्मभूयिष्ठो जितामित्रो जितेन्द्रियः ॥४॥
यावन्तो भूमिकणिका यावन्तस्तोयबिन्दवः ॥
यावन्त्युडूनि गगने तावतीर्गा ददात्यसौ ॥ ५ ॥
येनेष्टयज्ञदर्भैश्च भूमिर्बर्हिष्मती स्मृता ॥
गोभूतिलहिरण्याद्यैस्तोषिता बहवो द्विजाः ॥ ६ ॥
तेनादत्तानि दानानि न विद्यन्त इति श्रुतम् ॥
तेनादत्तं जलं चैकं सुखलभ्यधिया द्विजाः ॥ ७ ॥
बोधितो ब्रह्मपुत्रेण वसिष्ठेन महात्मना ॥
अमूल्यं सर्वतोलभ्यं तद्दातुः किं फलं लभेत् ॥ ८ ॥
इति दुर्धीर्हेतुवादैर्न जलं दत्तवान्विभुः ॥
अलभ्यदाने पुण्यं स्यादित्यवादीत्सयुक्तिकम् ॥ ९ ॥
स आनर्च द्विजान्व्यङ्गान्दरिद्रान्वृत्तिकर्शितान् ॥
नानर्च श्रोत्रियान्विप्रान्ब्रह्मज्ञान्ब्रह्मवादिनः ॥ 2.1.16.१० ॥
प्रख्यातान्पूजयिष्यन्ति सर्वलोकाः सहार्हणैः ॥
अनाथानामविद्यानां व्यङ्गानां च कुटुम्बिनाम् ॥ ११ ॥
दरिद्राणां गतिः का वा तस्मात्ते मद्दयास्पदाः ॥
इति दुष्टेषु पात्रेषु दत्तवान्किमपि स्वकम् ॥ १२ ॥
तेन दोषेण महता चातकत्वं त्रिजन्मसु ॥
एकजन्मनि गृध्रत्वं श्वत्वं वा सप्त जन्मसु ॥ १३ ॥
प्राप्य पश्चाद्गृहे जातो भूपोऽयं गृहगोधिका ॥
श्रुतकीर्तेस्तु भूपस्य मिथिलाधिपतेर्द्विजाः ॥ १४ ॥
गृहद्वारप्रतोल्यां स्म वर्तते कीटकाशनः ॥
अष्टाशीतिषु वर्षेषु स्थितं तेन दुरात्मना ॥ १५ ॥
॥ अथ श्रुतदेवपादोदकसेवनेन हेमाङ्गस्य जातिस्मरणम् ॥ ॥
विदेहाधिपतेर्गेहं कदाचिदृषिसत्तमः ॥
श्रुतदेव इति ख्यातः श्रान्तो मध्याह्न आगमत् ॥ १६ ॥
तं दृष्ट्वा सहसोत्थाय जातहर्षो नराधिपः ॥
मधुपर्कः सुसम्पूज्य तस्य पादावनेजनीः ॥ १७ ॥
अपो मूर्ध्नावहत्क्षिप्रं तदोत्क्षिप्तैश्च बिन्दुभिः ॥
दैवोपदिष्टकालेन प्रोक्षिता गृहगोधिका ॥ १८ ॥
सद्यो जातिस्मृतिरभूत्कृतकर्मातिदुःखिता ॥
त्राहि त्राहीति चुक्रोश ब्राह्मणं गृहमागतम् ॥ १९ ॥
तिर्यग्जन्तुरवं श्रुत्वा ब्राह्मणो विस्मितोऽभवत् ॥
कुतः क्रोशसि गोधे त्वं दशेयं केन कर्मणा ॥ 2.1.16.२० ॥
उपदेवोऽथ देवो वा त्वं नृपोऽथ द्विजोत्तमः ॥
कस्त्वं ब्रूहि महाभाग त्वामद्याहं समुद्धरे ॥ २१ ॥
इत्युक्तः स नृपः प्राह श्रुतदेवं महाप्रभुः ॥
अहमिक्ष्वाकुकुलजः शस्त्रविद्याविशारदः ॥ २२ ॥
यावन्तो भूमिकणिका यावन्तस्तोयबिन्दवः ॥
यावन्त्युडूनि गगने तावतीर्गा अदामहम् ॥ २३ ॥
सर्वैर्यज्ञैर्मया चेष्टं पूर्तान्याचरितानि मे ॥
दानान्यपि च दत्तानि धर्मजातं स्वनुष्ठितम् ॥ ॥ २४ ॥
तथापि दुर्गतिर्जाता न मे चोर्ध्वगतिर्विभो ॥
त्रिवारं चातकत्वं मे गृध्रत्वं चैकजन्मनि ॥२५॥
सप्तजन्मसु च श्वत्वं प्राप्तं पूर्वं मया द्विज ॥
धरतानेन भूपेन चापः पादावनेजनीः ॥ २६ ॥
बिन्दवो दूरमुत्क्षिप्तास्तैः सिक्तोऽहं कथञ्चन ॥
तदा जन्मस्मृतिरभूत्तेन मे हतपाप्मनः ॥ २७ ॥
गोधाजन्मानि भाव्यानीत्यष्टाविंशति मे द्विज ॥
दृश्यन्ते देवदिष्टानि बिभ्यते जन्मभिर्भृशम् ॥ २८ ॥
न कारणं प्रपश्यामि तन्मे विस्तरतो वद ॥
इत्युक्तः स द्विजः प्राह ज्ञातं विज्ञानचक्षुषा ॥ २९ ॥
॥ अथ श्रुतदेवदत्तपुण्येन हेमाङ्गस्य गोधिकात्वविमुक्तिः ॥ ॥
शृणु भूप प्रवक्ष्यामि तव दुर्गतिकारणम् ॥
न जलं तु त्वया दत्तं वेङ्कटाह्वयभूधरे ॥ 2.1.16.३० ॥
तज्जलं सुलभं मत्वा न मौल्यमिति निश्चितः ॥
नाध्वगानां द्विजादीनां घर्मकालेऽप्यजानता ॥ ३१ ॥
तथा पात्रं समुत्सृज्य ह्यपात्रे प्रतिपादितम् ॥
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ ३२ ॥
तुलसीं तु समुत्सृज्य बृहती पूज्यते नु किम् ॥
अनाथव्यङ्गपङ्गुत्वं न प्रयोजकतामियात् ॥ ३३ ॥
पङ्ग्वाद्या येप्यनाथा हि दयापात्रं हि केवलम् ॥
तपोनिष्ठा ज्ञाननिष्ठाः श्रुतिशास्त्रपरायणाः ॥ ३४ ॥
विष्णुरूपाः सदा पूज्या नेतरे तु कदाचन ॥
तत्रापि ज्ञानिनोऽत्यर्थं प्रिया विष्णोः सदैव हि ॥ ३५ ॥
ज्ञानिनामपि भूपाल विष्णुरेव सदा प्रियः ॥
तस्माज्ज्ञानी सदा पूज्यः पूज्यात्पूज्यतरः स्मृतः ॥ ३६ ॥
न जलं तु त्वया दत्तं साधवो वा न सेविताः ॥
तेन ते दुर्गतिश्चेयं प्राप्ता चेक्ष्वाकुनन्दन ॥ ३७ ॥
वेङ्कटाद्रौ कृतं पुण्यं तुभ्यं दास्यामि शान्तये ॥
भूतं भव्यं भवत्तेन कर्मजातं विजेष्यसि ॥ ३८ ॥
इत्युक्त्वाप उपस्पृश्य ददौ पुण्यमनुत्तमम् ॥
यद्दत्तं ब्राह्मणेनापि स्नानं चैकदिने कृतम् ॥ ३९ ॥
तेन ध्वस्ताखिलाऽऽगास्तु त्यक्त्वा च गृहगोधिका ॥
रूपं कर्मोचितं घोरं सद्योऽदृश्यत पूरुषः ॥ 2.1.16.४० ॥
दिव्यं विमानमारूढो दिव्यस्रग्वस्त्रभूषणः ॥
पश्यतामेव साधूनां मैथिलस्य गृहान्तरे ॥ ४१ ॥
बद्धाञ्जलिपुटो भूत्वा परिक्रम्य प्रणम्य च ॥
अनुज्ञातो ययौ राजा स्तूयमानोऽमरैर्दिवम् ॥ ४२ ॥
तत्र भुक्त्वा महाभोगान्वर्षायुतमतन्द्रितः ॥
स एव चेक्ष्वाकुकुले ककुत्स्थोऽभून्महारथः ॥ ४३ ॥
सप्तद्वीपप्रतीपालो ब्रह्मण्यः साधुसम्मतः ॥
देवेन्द्रस्य समो विष्णोरम्श एवं महाप्रभुः ॥ ४४ ॥
बोधितस्तु वसिष्ठेन सर्वान्धर्मान्मनोहरान् ॥
अनुष्ठायाखिलान्राजा तेन ध्वस्ताशुभादिकः ॥ ४५ ॥
दिव्यं ज्ञानं समासाद्य विष्णोः सायुज्यमाप्तवान् ॥
तस्माद्वेङ्कटशैलेन्द्रः पुण्यः पापविनाशनः ॥ ४६ ॥
तस्मिंश्च जलदानं तु विष्णुलोकप्रदायकम् ॥
एवं वः कथितं विप्रा जलदानस्य वैभवम् ॥
वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने ॥ ४७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये जलदानवैभववर्णनन्नाम षोडशोऽध्यायः ॥ १६ ॥