०१५ रामकृष्णतीर्थमहिमानुवर्णनम्

॥ अथ रामकृष्णतीर्थमाहात्म्यम् ॥
॥ श्रीसूत उवाच ॥ ॥
वेङ्कटाख्ये महापुण्ये सर्वपातकनाशने ॥
कृष्णतीर्थस्य माहात्म्यं शृणुध्वं सुसमाहिताः ॥ १ ॥
यत्र मज्जनमात्रेण कृतघ्नोऽपि विमुच्यते ॥
पितॄन्मातॄर्गुरूंश्चावमन्यन्ते मोहमोहिताः ॥ २ ॥
ये चाप्यन्ये दुरात्मानः कृतघ्ना निरपत्रपाः ॥
ते सर्वे कृष्णतीर्थेस्मिञ्छुद्ध्यन्ति स्नानमात्रतः ॥ ३ ॥
कृष्णनामा मुनिः पूर्वं वेङ्कटाहृयभूधरे ॥
अवर्तत तपः कुर्वन्विष्णुं ध्यायन्समाहितः ॥ ४ ॥
स तत्र कल्पयामास स्नानार्थं तीर्थमुत्तमम् ॥
तत्र स्नात्वा सकृन्मर्त्यः कृतघ्नोऽपि विमुच्यते ॥ ५ ॥
अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ॥
यस्य श्रवणमात्रेण नरो मुक्तिमवाप्नुयात्॥ ६ ॥
पुरा बभूव विप्रेन्द्रो रामकृष्णो महामुनिः ॥
सत्यवाञ्छीलवान्वाग्मी सर्वभूतदयान्वितः ॥ ७ ॥
शत्रुमित्रसमो दान्तस्तपस्वी विजितेन्द्रियः ॥
परे ब्रह्मणि निष्णातो ब्रह्मतत्त्वैकसंश्रयः ॥ ८ ॥
एवम्प्रभावः स मुनिस्तपस्तेपे सुदारुणम् ॥
स वै निश्चलसर्वाङ्गस्तिष्ठन्सर्वत्र भूतले ॥ ९ ॥
परमाण्वन्तरं वापि न स्वस्थानाच्चचाल सः ॥
स्थित्वा तत्र तपस्यन्तमनेकशतवत्सरान् ॥ 2.1.15.१० ॥
तं चाक्रमत वल्मीकं छादिताङ्गं चकार वै ॥
वल्मीकाक्रान्तदेहोऽपि रामकृष्णो महामुनिः ॥११॥
अकरोत्तप एवासौ वल्मीकं न त्वबुध्यत ॥
तस्मिंश्च तप्यति तपो वासवो मुनिपुङ्गवे॥ १२ ॥
विसृज्य मेघजालानि वर्षयामास वेगवान् ॥
एवं दिनानि सप्तायं ववर्ष च निरन्तरम् ॥ १३ ॥
धारावर्षेण महता वृष्यमाणोपि वै मुनिः ॥
तद्वर्षं प्रतिजग्राह निमीलितविलोचनः ॥ १४ ॥
महता स्तनितेनाशु तदा बधिरयन्छ्रुतीः ॥
वल्मीकस्योपरिष्टाद्वै निपपात महाशनिः ॥ १५ ॥
तस्मिन्वर्षति पर्जन्ये शीतवातादिदुःसहे ॥ १६ ॥
॥ अथ रामकृष्णाख्यमहर्षितपःप्रसन्नभगवदाविर्भावः ॥ ॥
वल्मीकशिखरं ध्वस्तं बभूवाशनिताडितम्॥
तदाप्रादुरभूद्देवः शङ्खचक्रगदाधरः ॥ १७ ॥
विनतानन्दनारूढो वनमालाविभूषितः ॥
रामकृष्णस्य तपसा तोषितो वाक्यमब्रवीत्॥ १८ ॥
तपोनिधे रामकृष्ण वेदशास्त्रार्थपारग ॥
मदाविर्भावदिवसे यः स्नाति मनुजोत्तमः ॥ १९ ॥
तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते ॥
मकरस्थे रवौ विप्र पौर्णमास्यां महातिथौ ॥ 2.1.15.२० ॥
पुष्यनक्षत्रयुक्तायां स्नानकालो विधीयते ॥
तद्दिने स्नाति यो मर्त्यः कृष्णतीर्थं महामतिः ॥ २१ ॥
सर्वपापविनिर्मुक्तः सर्वान्कामाल्ँलभेत सः ॥
मदाविर्भावदिवसे कृष्णतीर्थजले शुभे ॥ २२ ॥
स्नातुं तत्र समायान्ति स्वपापपरिशुद्धये ॥
देवा मनुष्याः सर्वे च दिक्पालाश्च महौजसः ॥ २३ ॥
एते सर्वे महात्मानः कोटिसूर्यसमप्रभाः ॥
ते सर्वे कृष्णतीर्थेस्मिन्स्नानात्पूता भवन्ति हि ॥ २४ ॥
त्वन्नाम्नेदं महातीर्थं लोके प्रख्यातिमेष्यति ॥
इत्युक्त्वा श्रीनिवासश्च तत्रैवान्तरधीयत ॥ २५ ॥
एवं प्रभावं तत्तीर्थं महापापविशोधनम् ॥
बुद्धिशुद्धिप्रदं पुसां सर्वैश्वर्यप्रदायकम् ॥ २६ ॥
एवं वः कथितं विप्राः कृष्णतीर्थस्य वैभवम् ॥
शृण्वतां पठतां चैव विष्णुलोकप्रदायकम् ॥ २७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये रामकृष्णतीर्थमहिमानुवर्णनन्नाम पञ्चदशोऽध्यायः ॥ १५ ॥