॥ अथ स्वामिपुष्करिणी स्नानात्तामिस्रादिनरकनिस्तारः ॥
॥ ऋषय ऊचुः ॥ ॥
सूत सर्वार्थतत्त्वज्ञ वेदवेदाङ्गपारग ॥
श्रीस्वामिपुष्करिण्याश्च वैभवं वद नः प्रभो ॥ ॥ १ ॥
यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि ॥ २ ॥
॥ श्रीसूत उवाच ॥ ॥
स्वामितीर्थं प्रशंसन्ति स्नान्ति वा कथयन्ति ये ॥
अष्टाविंशतिभेदांस्ते नरकान्नोपभुञ्जते ॥ ३ ॥
तामिस्रमन्धतामिस्रं महारौरवरौरवौ ॥
कुम्भीपाकं कालसूत्रमसिपत्रवनं तथा ॥ ४ ॥
कृमिभक्षोऽन्धकूपश्च सन्दंशः शाल्मली तथा ॥
लालाभक्षो ह्यवीचिश्च सारमेयादनं तथा ॥ ५ ॥
तथैव वज्रकणकः क्षारकर्दमपातनम् ॥
रक्षोगणाशनं चापि शूलप्रोतनिरोधनम्॥ ६ ॥
तिरोधानाभिधं विप्रास्तथा सूचीमुखाभिधम् ॥
पूयशोणितभक्षं च विषाग्निपरिपीडनम् ॥ ७ ॥
अष्टाविंशतिसङ्ख्यातमेतन्नरकसञ्चयम्॥
न याति मनुजो विप्राः स्वामितीर्थनिमज्जनात् ॥ ८ ॥
वित्तापत्यकलत्राणां योऽन्येषामपहारकः ॥
स कालपाशबद्धोऽयं यमदूतैर्भयानकैः ॥ ९ ॥
तामिस्रे नरके घोरे पात्यते बहुवत्सरम् ॥
स्नाति चेत्स्वामितीर्थे स तस्मिन्नासौ निपात्यते ॥ 2.1.12.१० ॥
मातरं पितरं विप्रान्यो द्वेष्टि पुरुषाधमः ॥
स कालसूत्रनरके विस्तृतायुतयोजने ॥ ११ ॥
अधस्तादग्निसन्तप्ते उपर्यर्कमरीचिभिः ॥
खले ताम्रमये विप्राः पात्यते क्षुधयार्दितः ॥ १२ ॥
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नाऽसौ निपात्यते ॥
यो वेदमार्गमुल्लङ्घ्य वर्तते कुपथे नरः ॥ १३ ॥
सोऽसिपत्रवने घोरे पात्यते यमकिङ्करैः ॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥ १४ ॥
योऽश्नाति पङ्क्तिभेदेन पक्वं सूपादिकं नरः ॥
अकृत्वा पञ्चयज्ञान्वा भुङ्क्ते मोहेन स द्विजाः ॥ १५ ॥
पात्यतेऽयं यमभटैर्नरके कृमिभोजने ॥
भक्ष्यमाणः कृमिशतैर्भक्षयन्कृमिसञ्चयान् ॥ १६ ॥
स्वयं च कृमिभूतः संस्तिष्ठेद्यावदघक्षयम् ॥
स्नाति चेत्स्वामितीर्थे वै तस्मिन्नाऽसौ निपात्यते ॥ १७ ॥
यो हरेद्विप्रवित्तानि स्नेहेन बलतोऽपि वा ॥
अन्येषामपि वित्तानि राजा तत्पुरुषोऽपि वा ॥ १८ ॥
अयोमयाग्निकुण्डेषु सन्दंशैः सोऽपि पीडितः ॥
सन्दंशे नरके घोरे पात्यते यमपूरुषैः ॥ १९ ॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥
अगम्यां योभिगच्छेत स्त्रियं वै पुरुषाधमः ॥ 2.1.12.२० ॥
अगम्यं पुरुषं योषिदभिगच्छेत वा द्विजाः ॥
तावयोमयनारीं च पुरुषं चाप्ययोमयम् ॥ २१ ॥
तप्तावालिङ्ग्य तिष्ठन्तौ यावच्चन्द्रदिवाकरम् ॥
सूच्याख्ये नरके घोरे पात्येते यमकिङ्करैः ॥ २२ ॥
स्नाति चेत्स्वामितीर्थे च तस्मिन्नासौ निपाप्यते ॥
बाधते सर्वजन्तून्यो नानोपायैरुपद्रवैः ॥ २३ ॥
शाल्मलीनरके घोरे पात्यते बहुकण्टके ॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥ २४ ॥
राजा वा राजभृत्यो वा यः पाषण्डमनुद्रुतः ॥
भेदको धर्मसेतूनां वैतरण्यां निपात्यते ॥ २५ ॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥
वृषलीसङ्गदुष्टो वा शौचाद्याचारवर्जितः ॥ २६ ॥
त्यक्तलज्जस्त्यक्तवेदः पशुचर्यारतः सदा ॥
स पूयविष्ठामूत्रासृक्छ्लेष्मपित्तादिपूरिते ॥ २७ ॥
अतिबीभत्सनरके पात्यते यमकिङ्करैः ॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥ २८ ॥
यः श्वभिर्मृगयुर्वन्यान्बाणैर्वा बाधते मृगान् ॥
स विध्यमानो बाणौघैः परत्र यमकिङ्करैः ॥ २९ ॥
प्राणरोधाख्यनरके पात्यते यमकिङ्करैः ॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते॥ 2.1.12.३० ॥
दाम्भिको यः पशून्यज्ञे विध्यनुष्ठानवर्जितः ॥
हन्त्यसौ परलोकेषु वैशसे नरके द्विजाः ॥३१॥
कर्त्यमानो यमभटैः पात्यते यमकिङ्करैः ॥
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नासौ निपात्यते ॥३२॥
आत्मभार्यां सवर्णां यो रेतः पाययते यदि ॥
परत्र रेतःपायी स रेतःकुण्डे निपात्यते ॥ ३३ ॥
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नासौ निपात्यते ॥
यो दस्युर्मार्गमाश्रित्य गरदो ग्रामदाहकः ॥ ॥ ३४ ॥
वणिग्द्रव्यापहारी च स परत्र द्विजोत्तमाः ॥
वज्रदंष्ट्राभिधे घोरे पात्यते नरके चिरम् ॥ ३५ ॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥
विद्यन्ते यानि चान्यानि नरकाणि परत्र वै ॥ ३६ ॥
तानि नाप्नोति मनुजः स्वामितीर्थनिमज्जनात् ॥
पुष्करिण्यां सकृत्स्नानादश्वमेधफलं लभेत् ॥ ३७ ॥
आत्मविद्या भवेत्साक्षान्मुक्तिश्चापि चतुर्विधा ॥
न पापे रमते बुद्धिर्न भवेदुःखमेव वा ॥ ३८ ॥
तुलापुरुषदानेन यत्फलं लभ्यते नरैः ॥
तत्फलं लभ्यते पुम्भिः स्वामितीर्थनिमज्जनात् ॥ ३९ ॥
गोसहस्रप्रदानेन यत्पुण्यं हि भवेन्नृणाम् ॥
तत्पुण्यं लभते मर्त्यः स्वामितीर्थनिमजनात् ॥ 2.1.12.४० ॥
धर्मार्थकाममोक्षाणां यं यमिच्छति पूरुषः ॥
तं तं सद्यः समाप्नोति स्वामितीर्थनिमज्जनात् ॥ ४१ ॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥
सद्यः पूतो भवेद्विप्राः स्वामितीर्थनिमज्जनात् ॥ ४२ ॥
प्रज्ञा लक्ष्मीर्यशः सम्पज्ज्ञानं धर्मो विरक्तता ॥
मनःशुद्धिर्भवेन्नृणां स्वामितीर्थनिषेवणात् ॥ ४३ ॥
ब्रह्महत्याऽयुतं चापि सुरापानायुतं तथा ॥
अयुतं गुरुदाराणां गमनं पापकारिणाम् ॥ ॥ ४४ ॥
स्तेयायुतं सुवर्णानां तत्संसर्गाश्च कोटिशः ॥
शीघ्रं विलयमायान्ति स्वामितीर्थनिमज्जनात् ॥ ४५ ॥
ब्रह्महत्यासमानानि सुरापानसमानि च ॥
गुरुस्त्रीगमनेनापि यानि तुल्यानि चास्तिकाः ॥ ४६ ॥
सुवर्णस्तेयतुल्यानि तत्संसर्गसमानि च ॥
तानि सर्वाणि नश्यन्ति स्वामितीर्थनिमज्जनात् ॥ ४७ ॥
॥ अथ स्वामितीर्थमहिमाश्रद्धालूनां महानरकप्राप्तिः ॥ ॥
उक्तेष्वेतेषु सन्देहो न कर्त्तव्यः कदाचन ॥
जिह्वाग्रे परशुं तप्तं प्रक्षिपन्ति च किङ्कराः ॥ ४८ ॥
अर्थवादमिमं सर्वं ब्रुवन्वै नरकं व्रजेत् ॥
सूकरः स हि विज्ञेयः सर्वकर्मबहिष्कृतः ॥ ४९ ॥
अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं द्विजोत्तमाः ॥
स्वामितीर्थाभिधे तीर्थे सर्वपातकनाशने ॥ 2.1.12.५० ॥
अद्वैतज्ञानदे पुंसां भुक्तिमुक्तिप्रदायिनि ॥
इष्टकामप्रदे नित्यं तथैवाज्ञाननाशने ॥ ५१ ॥
स्थितेऽपि तद्विहायायं रमतेन्यत्र वै जनः ॥
अहो मोहस्य माहात्म्यं मया वक्तुं न शक्यते ॥ ५२ ॥
स्नातस्य स्वामितीर्थे तु नान्तकाद्भयमस्ति वै ॥
स्वामितीर्थं च पश्यन्ति तत्र स्नान्ति च ये नराः ॥ ५३ ॥
स्तुवन्ति च प्रशंसन्ति स्पृशन्ति च नमन्ति च ॥
न पिबन्ति हि ते स्तन्यं मातॄणां द्विजपुङ्गवाः ॥ ५४ ॥
एवं वः कथितं विप्राः स्वामितीर्थस्य वैभवम् ॥
भुक्तिमुक्तिप्रदं नृणां सर्वपापनिबर्हणम् ॥५५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये श्री स्वामिपुष्करिणीतीर्थमहिमानुवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥