॥ अथ तोण्डमान्नृपस्य स्वपितुः सकाशाद्राज्यप्राप्तिः ॥
॥ श्रीशुक उवाच ॥ ॥
इदं पद्मसरोनाम राजन्पापप्रणाशनम् ॥
कीर्तनात्स्मरणात्स्नानान्नृणां लक्ष्मीप्रदं भुवि ॥
कृत्वा स्नानं त्वमप्यस्मिन्व्रज स्वपितुरन्तिकम् ॥ १ ॥
॥ श्रीवराह उवाच ॥ ॥
एतच्छुकवचः श्रुत्वा स्नात्वा पद्मसरोवरे ॥ २ ॥
तं नत्वा हयमारुह्य तोण्डमान्स्वपुरं ययौ ॥
तं पिता युवराजानं कृत्वा त्रीन्वत्सरानथ ॥ ३ ॥
रञ्जकत्वं च सामर्थ्यं शौर्यं वीर्यं सुशीलताम् ॥
भक्तिं विप्रेषु पुत्रस्य वीक्ष्य राजा स्वमन्त्रिभिः ॥ ४ ॥
स्वपदे स्थापयामास स्वभिषिच्य विधानतः ॥
अनुनीय सुतं पत्न्या सार्धं राजा वनं ययौ ॥ ५ ॥
॥ अथ वसोर्वल्मीके श्रीवराहसन्दर्शनम् ॥ ॥
तोण्डमानपि साम्राज्यं लब्ध्वा राज्यं चकार ह ॥
निषादस्य वने देवो वाराहं रूपमास्थितः ॥ ६ ॥
श्यामाकपक्वं भक्षित्वा रात्रौरात्रौ चचार ह ॥
पदानि स वराहस्य चान्वियेष दिवादिवा ॥ ७ ॥
अदृष्ट्वा तं वराहं स रात्रौ जाग्रद्धनुर्धरः ॥
स्थितोऽपश्यच्चरन्तं तं चन्द्रकोटिसमप्रभम् ॥ ८ ॥
वराहं सुभगाकारं श्यामाकवनमध्यतः ॥
तं दृष्ट्वा धनुरादाय सिंहनादं चकार ह ॥ ९ ॥
वराहस्तद्ध्वनिं श्रुत्वा वनान्निष्क्रम्य सत्वरम् ॥
ययौ तं चाप्यनुययौ वराहं स निषादपः ॥ 2.1.10.१० ॥
रात्रिशेषमनुद्रुत्य वने चन्द्रसमप्रभम् ॥
वल्मीकं प्रविशन्तं च ददर्श स निषादपः ॥ ११ ॥
गच्छन्तं पूर्णिमाचन्द्रमस्तं गिरिवरं यथा ॥
विस्मितोऽखानयत्कोपाद्वल्मीकं स निषादपः ॥ १२ ॥
धरावराहो ददृशे मूर्च्छितोऽयं पपात ह ॥
पितरं मूर्च्छितं दृष्ट्वा तत्पुत्रो भक्तिमांस्तदा ॥ ॥ १३ ॥
वराहदेवं तुष्टाव तेन प्रीतोऽभवद्धरिः ॥
आविश्य पितरं तस्य प्रोवाच मधुसूदनः ॥ १४ ॥
॥ श्रीभगवानुवाच ॥ ॥
अहं वराह देवेशो नित्यमस्मिन्वसाम्यहम् ॥
राज्ञे त्वमुक्त्वा मामत्र प्रतिष्ठाप्यैव पूजय ॥ १५ ॥
वल्मीकं कृष्णगोक्षीरैः क्षालयित्वा तदुत्थिते ॥
शिलातले च वाराहमुद्धृत्य धरणीस्थितम् ॥ १६ ॥
कारयित्वा प्रतिष्ठाप्य विप्रैर्वैखानसैश्च माम् ॥
पूजयेद्विविधैर्भोगैस्तोण्डमान्राजसत्तमः ॥ १७ ॥
इत्युक्त्वा तं जहौ देवः स च स्वस्थो बभूव ह ॥
सुखासीनं तु पितरं नमस्कृत्य निषादजः ॥ १८ ॥
न्यवेदयद्देववचः पित्रे सर्वं यथातथम् ॥
स श्रुत्वा विस्मितो भूत्वा कृत्स्नं पुत्रवचः शुभम् ॥ १९ ॥ ॥
अथ तोण्डमन्नृपाय वसुनिवेदितवाराहोदन्तः ॥ ॥
राज्ञे वक्तुं ययौ शीघ्रं निषादः स्वानुगैः सह ॥
वसुर्निषादाधिपती राजद्वारमुपागमत् ॥ 2.1.10.२० ॥
निषादाधिपमाज्ञाय द्वारपालैर्नृपोत्तमः ॥
आहूय तं निषादेशं सभायां मन्त्रिभिः सह ॥ ॥ २१ ॥
सत्कृत्य तं वसुं राजा सपुत्रं सपरिच्छदम् ॥
पप्रच्छ प्रीतिमान्राजा वसुं तं वनगोचरम्॥
किमागमनकृत्यं ते वद त्वं वनगोचर ॥२२॥
॥ ॥ वसुरुवाच ॥ ॥
राजन्मम वने दृष्टमाश्चर्यं शृणु भूपते ॥ २३ ॥
कश्चिच्छ्वेतवराहस्तु श्यामाकमचरन्निशि ॥ ॥
तं वराहं धनुष्पाणिरन्वधावमहं नृप ॥ २४ ॥
अनुद्रुतो वायुवेगो गत्वा वल्मीकमाविशत् ॥
स्वामिपुष्करिणीतीरे पश्यते मम भूपते ॥ २५ ॥
वल्मीकमखनं क्रोधान्मूर्च्छितो न्यपतं भुवि ॥
मत्पुत्रोऽयं समागत्य मां दृष्ट्वा मूर्च्छितं भुवि ॥ २६ ॥
शुचिर्भूत्वा देवदेवं तुष्टाव मधुसूदनम् ॥
ततो मयि समाविश्य वराहोऽध्यवदत्सुतम् ॥ २७ ॥
राज्ञे निवेदय क्षिप्रं मच्चरित्रं निषादप ॥
कृष्णगोक्षीरसेकेन वल्मीकं क्षालयेन्नृपः ॥ २८ ॥
दृश्यते च शिला काचिद्वल्मीकस्था सुशोभना ॥
वामाङ्कस्थभुवं मां च वराहवदनं स्थितम् ॥ २९ ॥
कारयित्वा शिल्पिनाथ प्रतिष्ठाप्य मुनीश्वरैः ॥
वैखानसैर्मुनिवरैरर्चयेत्तोण्डमानपि ॥ 2.1.10.३० ॥
अथ गत्वा श्रीनिवासं वल्मीकावृतपद्द्वयम् ॥
कपिलाकृष्णगोक्षीरसेचनैः क्षालयेच्छनैः ॥ ॥ ३१ ॥
आपादपीठपर्यन्तं क्षालयित्वा दिनेदिने ॥
कुर्यात्प्राकारमुभयोरुत्तरे दक्षिणे तथा ॥ ३२ ॥
इत्युक्त्वा चैव माऽमुञ्चद्देवः स्वस्थोऽभवं नृप ॥
इदं ते वक्तुमायातो देवदेवचिकीर्षितम् ॥ ३३ ॥
॥ अथ नृपस्य निषादवाक्यस्वप्नाभ्यां बिलमार्गेण शेषाचलगमनम् ॥ ॥ ॥
॥ श्रीवराह उवाच ॥ ॥
तोण्डमानपि तच्छ्रुत्वा सुप्रीतो विस्मितोऽभवत् ॥
ततः कार्यं विनिश्चित्य मन्त्रिभिः पुष्करादिभिः ॥ ३४ ॥
वेकटाद्रिं जिगमिषुर्गोपानाहूय सर्वशः ॥
कृष्णाश्च कपिला गावो याः काश्चित्सन्ति मामिकाः ॥ ३५ ॥
ताः सवत्सा आनयध्वं वेङ्कटाद्रिसमीपतः ॥
इत्याज्ञाप्य नृपो गोपाञ्छ्वो यात्रेति च मन्त्रिणः ॥ ३६ ॥
विसृज्य प्रकृतीः सर्वा विवेशान्तःपुरं वशी ॥
उक्त्वा कथां तां पत्नीभ्यः सुष्वाप निशि पार्थिवः ॥ ३७ ॥
तं स्वप्ने श्रीनिवासोऽपि बिलमार्गं ह्यदर्शयत् ॥
स्वपुरादाबिलं मार्गे पल्लवानसृजद्धरिः ॥ ३८ ॥
एवं स्वप्नं नृपो दृष्ट्वा प्रातरुत्थाय सत्वरः ॥
आहूय मन्त्रिणः सर्वान्प्रकृतीर्ब्राह्मणानपि ॥ ३९ ॥
स्वप्नं तथाविधं चोक्त्वाऽपश्यद्द्वारेऽथ पल्लवान् ॥
युक्ते मुहूर्ते प्रययौ हयमारुह्य तोण्डमान् ॥ 2.1.10.४० ॥
पश्यन्पल्लवभङ्गांश्च शनैः प्रीतो ययौ बिलम् ॥
दृष्ट्वा विस्मयमापन्नो निर्ममे तत्र पत्तनम् ॥ ॥ ४१ ॥
॥ अथ भगवदुक्त्या तोण्डमन्नृपकृतक्षीराभिषेकवप्रनिर्माणादिकम् ॥ ॥
बिलमन्तःपुरे कृत्वा प्राकारं चाप्यकारयत् ॥
वसंस्तत्र नृपेन्द्रोऽसौ निर्जित्य पृथिवीमिमाम्॥ ४२ ॥
यथोक्तं देवदेवेन क्षीरप्रक्षालनादिकम् ॥
कृत्वा प्राकारनिर्माणं कर्तुमुद्योगमाययौ ॥ ४३ ॥
तदानीं देवदेवेन स्वयमाज्ञापितो नृपः ॥
तिन्तिणीं चम्पकं चोभौ पालयैतौ नगोत्तमौ ॥ ४४ ॥
मम चास्थानिकी चिञ्चा लक्ष्म्याः स्थानं च चम्पकः ॥
नमस्कार्यौ नृपैस्तौ हि ऋषिदेवनरैः सदा ॥ ४५ ॥
संस्थाप्यैतौ नृपश्रेष्ठ च्छेदयान्यान्नगोत्तमान् ॥
प्राकारमात्रं कुरु मे द्वारगोपुरसंयुतम् ॥ ४६ ॥
विमानं तु भवद्वंश्यो नाम्ना नारायणो नृपः ॥
कारयिष्यति मद्भक्तः स्वर्णेनालङ्करिष्यति ॥ ४७ ॥
॥ श्रीवराह उवाच ॥ ॥
एवमुक्त्वा तोण्डमानं विरराम श्रियः पतिः ॥ ४८ ॥
एवं देववचः श्रुत्वा कृत्वा प्राकारमेव च ॥
पूजयामास मुनिभिर्वैखानसकुलोद्भवैः ॥ ४९ ॥
नित्यं बिलेन चागत्य देवं नत्वा नृपोत्तमः ॥
राज्यं चकार धर्मेण भुञ्जानो भोगमुत्तमम् ॥ 2.1.10.५० ॥
॥ अथ गङ्गास्नानागतवीरशर्माख्यविप्रचरित्रम् ॥ ॥
एतस्मिन्नेव काले तु दाक्षिणात्यो द्विजोत्तमः ॥ ५१ ॥
गङ्गास्नानाय गच्छन्वै सदारः प्रययौ पुरात् ॥
मार्गेऽथ गर्भिणी जाता ब्राह्मणी ब्राह्मणः स च ॥ ५२ ॥
तां तु गर्भवतीं दृष्ट्वा स्वात्मानुगमनेऽक्षमाम् ॥
राजानं द्रष्टुकामोऽसौ राजद्वारमुपागमत् ॥ ५३ ॥
द्वाःस्थेनाज्ञापितो राजा तमाहूय द्विजोत्तमम् ॥
पूजयित्वा तु विधिवत्पप्रच्छ कुशलं द्विजम् ॥ ५४ ॥
॥ राजोवाच ॥ ॥
किमागमनकृत्यं ते किं करिष्याम्यहं द्विज ॥
॥ ब्राह्मण उवाच ॥ ॥
वासिष्ठो वीरशर्माहं सामवेदी नृपोत्तम ॥ ५५ ॥
सदारो निर्गतो राक्तगङ्गास्नानाय सादरः ॥
मार्गे च गर्भिणी चेयं कौशिकी पुण्यशालिनी ॥ ५६ ॥
नाम्ना लक्ष्मीरिति ख्याता शीला च पतिव्रता ॥
संस्थाप्यैनां तव गृहे व्रतं निर्वर्तयाम्यहम् ॥ ५७ ॥
तस्माद्राजन्प्रयच्छास्यै यथेष्टं भक्तवेतने ॥
तावच्च रक्ष्यतां लक्ष्मीर्यावदागमनं मम ॥ ५८ ॥
॥ श्रीवराह उवाच ॥ ॥
राजा तस्य वचः श्रुत्वा तण्डुलानि धनान्यपि ॥
दत्त्वा षण्मासपर्यन्तं गृहमन्तःपुरे ददौ ॥ ५९ ॥
तां न्यस्य ब्राह्मणः प्रीतो गङ्गास्नानाय निर्ययौ ॥
गत्वा भागीरथीं गङ्गां प्रयागे क्षेत्र उत्तमे ॥ 2.1.10.६० ॥
स्नात्वा काशीं ततो गत्वा तत्रोषित्वा दिनत्रयम् ॥
गयां प्राप्य पितृश्राद्धमकरोद्ब्राह्मणोत्तमः ॥ ६१ ॥
गत्वायोध्यामपि पुरीं प्रययौ बदरीवनम् ॥
सालग्रामं ततो गत्वा स्वदेशं प्रति निर्ययौ ॥ ६२ ॥
संवत्सरद्वयेऽतीते चैत्रे मासि शुभे दिने ॥
निवृत्तोऽसौ द्विजश्रेष्ठः शनैरागत्य माधवे ॥ ६३ ॥
एकादश्यां शुक्लपक्षे पुना राजानमाययौ ॥
राजा तु विस्मृत्य तदा ब्राह्मणीं नास्मरन्नृपः ॥ ६४ ॥
ब्राह्मणी मानिनी गेहे मृता शुष्का बभूव ह ॥
वीरशर्मा ततो विप्रो गङ्गातोयकरण्डकम् ॥ ६५ ॥
विमुच्य बन्धनं त्वेकं गङ्गाम्भःकरकं शुभम् ॥
प्रादाय राज्ञे पप्रच्छ पत्नी कुशलिनीति मे ॥ ६६ ॥
स्मृत्वाथ राजा विप्रं तं स्थीयतामिति चाब्रवीत् ॥
अन्तःपुरं ततो गत्वा तामपश्यन्मृतां गृहे ॥ ६७ ॥
अनुक्त्वा ब्रह्मणे तस्मै प्रविश्य बिलमुत्तमम् ॥
श्रीनृसिंहं नमस्कृत्य पुनः प्राप्य बिलोत्तमम् ॥ ६८ ॥
श्रीनिवासं ययौ द्रष्टुं श्रीभूमिसहितं परम् ॥
तं दृष्ट्वा सहसायान्तं जुगूहाते धरारमे ॥ ६९ ॥
प्रणमन्तमवोचत्तं किमकाले नृपागतः॥
नृपोऽवदत्प्रणम्येशं भीतोऽथ ब्राह्मणीं मृताम् ॥ 2.1.10.७० ॥
॥ अथ अस्थिसरोवरमाहात्म्यम् ॥ ॥
तच्छ्रुत्वा देवदेवोऽपि मा भै राजन्द्विजोत्तमात् ॥
आन्दोलिकां तामारोप्य स्त्रीभिः स्वाभिः समन्विताम्॥ ७१ ॥
मदालयात्पूर्वभागे द्वादश्यां स्नापय प्रभो ॥
अस्थिनाम्नि सरस्यस्मिन्नपमृत्युनिवारणे ॥ ७२ ॥
प्राप्तजीवा समं स्त्रीभिर्ब्राह्मणेन च योक्ष्यते ॥
शीघ्रं याहि नृपश्रेष्ठ यथोक्तं वचनं कुरु ॥ ७३ ॥
इति देववचः श्रुत्वा प्रययौ स्वपुरं नृपः ॥
आन्दोलिकासु रम्यासु स्त्रिय आरोप्य तामपि ॥ ७४ ॥
ब्राह्मणं च पुरस्कृत्य द्रष्टुं देवं ययौ नृपः ॥
अस्थिकूटसरः प्राप्य स्नापयामास ताः स्त्रियः ॥ ७५.॥
त्वगस्थिरूपा सा चापि ताभिः क्षिप्ता सरोवरे ॥
प्राप्तजीवा यथापूर्वं सुव्यञ्जितशरीरजा ॥ ७६ ॥
उत्थिता सरसः स्नात्वा राज्ञीभिः सहमङ्गला ॥
प्राप्ता च ब्राह्मणं प्रीता भर्तारं पुनरागतम् ॥ ७७ ॥
राजा हरिं पूजयित्वा ब्राह्मणाय धनं ददौ ॥
सहस्रनिष्कपर्यन्तं वस्त्राणि विविधानि च ॥ ७८ ॥
स्वदेशगमनायैव सादरं विससर्ज ह ॥
विप्रः श्रुत्वा स्त्रियो वृत्तं प्रभावं वेङ्कटेशितुः ॥ ७९ ॥
आशीः प्रयुज्य राज्ञेऽथ स्वदेशं प्रययौ द्विजः ॥
विप्रे गते श्रीनिवासो राजानं पुनरब्रवीत् ॥ 2.1.10.८० ॥
दिनेदिने च मध्याह्ने नैवेद्यानेतरं नृप ॥
आगत्य मामर्चयित्वा यथेष्टं स्वर्णपङ्कजैः ॥ ८१ ॥
गत्वा पुरीं स्वधर्मेण राज्यं कुरु नराधिप ॥
यद्यदिष्टं तव नृप भविष्यति न संशयः ॥ ८२ ॥
नागन्तव्यमकाले तु त्वया नृप कदाचन ॥
एवं कालार्चनं कृत्वा गत्वा त्वं स्वपुरं वस ॥ ८३ ॥
॥ राजोवाच ॥ ॥
तथा करिष्ये देवेश मध्याह्ने चार्चयाम्यहम् ॥
इति देवाज्ञया नित्यमर्चयन्स्वर्णपङ्कजैः ॥ ८४ ॥
तदूर्ध्वं तुलसीपुष्पं जात्त्वपश्यत्स मृण्मयम् ॥ ८५ ॥
॥ अथ कुर्वग्रामस्थकुलालवंशजभीमाख्यभक्तोदन्तः ॥ ॥
विस्मितो देवदेवेशमपृच्छन्नृपसत्तमः ॥
॥ राजोवाच ॥ ॥
केनार्च्यसे मृन्मयैश्च कमलैस्तुलसीसमैः ॥ ८६ ॥
राज्ञा पृष्टो देवदेवः स्मृत्वा राजानमब्रवीत् ॥
कश्चित्कुलालो मद्भक्तः कुर्वग्रामे वसत्यसौ ॥ ८७ ॥
स्वगृहेऽर्चयते राजंस्तदङ्गीक्रियते मया ॥
इति देववचः श्रुत्वा तं द्रष्टुं प्रययौ नृपः ॥ ८८ ॥
गत्वा कुर्वपुरं तस्य कुलालस्य गृहं ययौ ॥
राजानमागतं दृष्ट्वा प्रणम्यैवाग्रतः स्थितः ॥ ८९ ॥
स्थितं तं भीमनामानं पप्रच्छ नृपसत्तमः ॥ ॥
॥ तोण्डमानुवाच ॥ ॥
भीम पूजयसे देवं कथं वद कुलोत्तम ॥ 2.1.10.९० ॥
॥ श्रीवराह उवाच ॥ ॥
पृष्टः प्राह कुलालोऽपि जातु जाने न चार्चनम् ॥
केनोक्तं नृपतिश्रेष्ठ कुलालोऽर्चयतीति हि ॥ ९१ ॥
॥ तोण्डमानुवाच ॥ ॥
देवेन श्रीनिवासेन ममोक्तं हि त्वदर्चनम् ॥
स तु श्रुत्वा नृपवचः स्मृत्वा देववरं पुरा ॥ ९२ ॥
॥ भीम उवाच ॥ ॥
यदा प्रकाशिता पूजा यदा राजा समागतः ॥
तोण्डमांस्तेन संवादस्तदा मोक्षं गमिष्यसि ॥ ९३ ॥
इति पूर्वं वरं देवो दत्तवान्वेकटेश्वरः ॥ ९४ ॥
॥ अथ कुर्वग्रामस्थभीमाख्यभक्तस्य पत्न्या सह वैकुण्ठप्राप्तिः ॥ ॥
इत्युक्त्वाथ कुलालोऽपि पत्न्या सार्धं तथैव च ॥
विमानमागतं दृष्ट्वा देवं दृष्ट्वा जनार्दनम्॥९५॥
प्रणमन्प्रजहौ प्राणान्सदारो भक्तसत्तमः ॥
पश्यतो राजराजस्य विमानमधिरुह्य च ॥९६॥
दिव्यरूपधरो देव्या सार्धं विष्णुपदं ययौ ॥
दृष्ट्वा राजाद्भुतं तत्र स्वपुरं प्राप्य हर्षितः ॥ ९७ ॥
स्वपुत्रं श्रीनिवासाख्यमभिषिच्य विधानतः ॥
परिपालय धर्मेण मानवांश्च वसुन्धराम् ॥ ९८ ॥
इत्याज्ञाप्य सुतं धीमांस्तताप परमं तपः ॥
तप्यतस्तस्य देवोऽपि प्रत्यक्षमभवद्धरिः ॥ ९९ ॥
॥ अथ श्रीनिवासकृपया तोण्डमन्नृपस्य सारूप्यप्राप्तिः ॥ ॥
आरुह्य गरुडं देवो रमाभूमिसमन्वितः ॥ 2.1.10.१०० ॥
॥ श्रीभगवानुवाच ॥ ॥
किं करोमि नृपश्रेष्ठ तपसा तोषितस्तव ॥
इत्युक्तो देवदेवेन तोण्डमानपि राजराट् ॥ १०१ ॥
प्रीतिमान्प्राञ्जलिर्भूत्वा सगद्गदमुवाच ह ॥
त्वल्लोके वस्तुमिच्छामि जरामरणवर्जिते ॥ १०२ ॥
इदमेव वरं देहि माधवैतन्ममेप्सितम् ॥ १०३ ॥
॥ श्रीवराह उवाच ॥ ॥
इत्युक्त्वा निपपातोर्व्यां साष्टाङ्गं देवसन्निधौ ॥
तदा कलेवरं मुक्त्वा विमानं त्वारुरोह च ॥ ॥ १०४ ॥
गन्धर्वैः स्तूयमानोऽसौ सारूप्यं प्राप्य शार्ङ्गिणः ॥
यच्छोकमोहहतं जरामरणवर्जितम् ॥ १०५ ॥
पुनरावृत्तिरहितं तद्विष्णोः पदमाययौ ॥ १०६ ॥
॥ अथैतन्माहात्म्यश्रवणपठनफलश्रुतिः ॥ ॥
एतद्भविष्यं देवेशि मयोक्तं वरवर्णिनि ॥
यः श्रावयेद्यः शृणुयाद्विष्णुलोकं स गच्छति ॥ १०७ ॥
॥ श्रीसूत उवाच ॥ ॥
इत्युक्तं देवदेवेन सभविष्यं सहोत्तरम् ॥
शृणुयाद्यः पठेद्भक्त्या कथां पुण्यां पुरातनीम् ॥ १०८ ॥
स तु भुक्त्वाखिलान्कामानन्ते विष्णुपदं व्रजेत् ॥ १०९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये धरणीवराहसंवादे भविष्यद्वर्णने तोण्डमांश्चक्रवर्तिवृत्तवर्णनन्नाम दशमोऽध्यायः ॥ १० ॥