॥ अथ वसुनामकनिषादवृत्तान्तः ॥
॥ धरण्युवाच ॥ ॥
कलौ युगे भूमिधर केन त्वं द्रक्ष्यसे प्रिय ॥
विमानं केन ते देव कार्यतेऽस्मिन्महीधरे ॥ १ ॥
श्रीनिवासोऽपि केनैव द्रक्ष्यते सुभगाकृतिः ॥
एतद्ब्रूहि मम प्रीत्या श्रोतुं कौतूहलं विभो ॥ २ ॥
॥ श्रीवराह उवाच ॥ ॥
वक्ष्यामि शृणु हे देवि भविष्यद्यद्वदामि ते ॥
अस्मिन्महीधरे पुण्ये निषादो वसुनामकः ॥ ३ ॥
श्यामाकवनपालोऽभूद्भक्तिमान्पुरुषोत्तमे ॥
श्यामाकतण्डुलान्पक्त्वा मधुना परिषिच्य च ॥ ४ ॥
निवेद्य देवदेवाय श्रीभूमि सहिताय च ॥
एवं भक्तिमतस्तस्य भार्या चित्रवती शुभा ॥ ५ ॥
असूत तनयं बाला वीरनामानमुत्तमम् ॥
वसुः पुत्रेण सहितो भार्यया पतिभक्तया ॥ ६ ॥
कस्मिंश्चिद्दिवसे पुत्रं श्यामाकं पालयेति च ॥
विसृज्य पत्न्या सहितो मध्वन्वेषणतत्परः ॥ ७ ॥
गतो वनान्तरं शीघ्रं मधुच्छत्रदिदृक्षया ॥
बालः श्यामाकपक्वानि गृहीत्वाग्नौ निधाय च ॥ ८ ॥
पिष्ट्वा निवेदयामास वृक्षमूले श्रियः पतेः ॥
नैवेद्यं भक्षयित्वैव वीरस्त्वास सुखेन वै॥ ९ ॥
तदन्तरे वसुश्चापि मध्वादाय समागतः ॥
श्यामाकान्भक्षितान्दृष्ट्वा सन्तर्ज्य सुतमात्मनः ॥ 2.1.9.१० ॥
खड्गमादाय तं हन्तुं त्वरया हस्तमुद्दधौ ॥ ११ ॥
॥ अथ सुतहननोद्युक्तं वसुं प्रति भगवदुक्तिः ॥ ॥
तद्वृक्षस्थस्तदा विष्णुः खड्गं जग्राह पाणिना ॥
खड्गो गृहीतः केनेति पश्यन्वृक्षं ददर्श सः ॥ १२ ॥
शङ्खचक्रगदापाणिं वृक्षारूढार्धविग्रहम् ॥
मुक्त्वा वसुश्च तं खड्गं प्रणम्योवाच केशवम् ॥ १३ ॥
किमिदं देवदेवेश चेष्टितं क्रियते त्वया ॥ १४ ॥
॥ श्रीभगवानुवाच ॥ ॥
वसो शृणु वचो मे त्वं पुत्रस्ते भक्तिमान्मयि ॥
त्वत्तोऽपि मे प्रियतमस्तस्मात्प्रत्यक्षमागतः ॥१५॥
अस्य सर्वत्र तिष्ठामि तव स्वामिसरस्तटे ॥
इति देववचः श्रुत्वा प्रीतिमानभवद्वसुः ॥ १६ ॥
एतस्मिन्नेव काले तु पाण्ड्यदेशात्समागतः ॥
बाल्यात्प्रभृति शूद्रोऽपि विष्णुभक्तिसमन्वितः ॥ १७ ॥
॥ अथ रङ्गदासस्य श्रीनिवाससेवार्थं श्रीशेषाचलागमनम् ॥ ॥
नारायणपुरीं प्राप्य श्रीवराहं प्रणम्य च ॥
तत्र श्रुत्वा श्रीनिवासं वेङ्कटाद्रिनिवासिनम् ॥ १८ ॥
स्वयम्भुवं देवदेवसेवितं प्रययौ ततः ॥
सुवर्णमुखरीं प्राप्य स्नात्वा चोत्तीर्य तत्तटे ॥ १९॥
कमलाख्ये सरसि च स्नात्वा पुण्यप्रदायिनि ॥
तत्तीरवासिनं देवं कृष्णं रामेण संवृतम् ॥ 2.1.9.२० ॥
नमस्कृत्य ततः प्रायाद्वनं गजघटायुतम् ॥
शनैः सम्प्राप्य शेषाद्रिं निर्झरं सन्ददर्श ह ॥ २१ ॥
तत्समीपं समासाद्य कपिलापूजितं शिवम् ॥
तत्पुरश्चक्रतीर्थं तदगाधं पापनाशनम् ॥ २२ ॥
तत्र स्नात्वा ततोऽगच्छद्वेङ्कटाद्रिं शनैःशनैः ॥
आराद्धुं गच्छता मार्गे युक्तो वैखानसेन च ॥ २३ ॥
रङ्गदासस्त्वारुरोह बालो द्वादशवार्षिकः ॥
स्वामिपुष्करिणीं प्राय स्नात्वा भक्तिसमन्वितः ॥२४॥
वैखानसेन मुनिना गोपीनाथेन पूजितम् ॥
वनमध्ये तरोर्मूले स्वामिपुष्करिणीतटे ॥२५॥
तिष्ठन्तं पुण्डरीकाक्षं श्रीभूमिसहितं हरिम् ॥
आकाशस्थं सन्ददर्श पीतनीलाकृतिं शुभम् ॥ २६ ॥
पार्श्वस्थशङ्खचक्राभ्यां गदासिभ्यां निषेवितम्॥
पक्षौ विस्तार्य चाकाशे देवमूर्ध्नि वितानवत् ॥२७॥
स्थितं च गरुडेशानं पश्चाच्छार्ङ्गं शरं तथा ॥२८॥ ॥
अथ श्रीनिवासार्थं रङ्गदासकृतदिव्योद्यानमण्डपादिनिर्माणानि ॥ ॥
एवं दृष्ट्वा श्रीनिवासं विस्मितो रङ्गदासकः ॥
अस्य देवस्य चारामं करिष्यामीत्यचिन्तयत् ॥ २९ ॥
निश्चित्य मनसा सर्वं तरुमूलेऽवसत्सुधीः ॥
कृत्वा वैखानसाद्विष्णोर्नैवेद्यं च दिनेदिने ॥ 2.1.9.३० ॥
शनैश्छित्त्वा वनं घोरं वृक्षांश्चिच्छेद पार्श्वगान् ॥
आस्थानचिञ्चां देवस्य रमायाश्चम्पकं तरुम् ॥३१॥
देवाज्ञप्तो वर्जयित्वा तावुभौ देवसेवितौ ॥
देवस्यपरितो भूमौ शिलाकुड्यं तदाकरोत् ॥३२॥
तत्कुड्यस्यैव परितः पुष्पारामांश्चकार ह ॥
मल्लिकाकरवीराब्जकुन्दमन्दारमालतीः ॥३३॥
तुलसीचम्पकानां तु वनान्येव चकार ह ॥
खनित्वा तत्र कूपं तु वर्धयंस्तज्जलैर्वनम् ॥ ३४ ॥
आरामपुष्पाण्यादाय स्वयं दामान्यथाकरोत् ॥
विचित्राणि तदा बद्ध्वा पूजकस्य करे ददौ ॥ ३५ ॥
आदाय पूजकस्तानि स्कन्धे मूर्ध्नि बबन्ध च ॥
श्रीनिवासस्य देवस्य श्रीभूमिसहितस्य च ॥ ३६ ॥
एवं देवस्य कैङ्कर्यं कुर्वंस्तस्थावुदारधीः ॥
तस्यैवं वर्तमानस्य समास्त्वा सप्ततेर्गताः ॥ ३७ ॥
कुर्वाणे पुष्पावचयं रङ्गदासे महात्मनि ॥ ३८ ॥
॥ अथ रङ्गदासस्य गन्धर्वक्रीडादर्शनेन भगवत्कैङ्कर्यविस्मृतिः ॥ ॥
आरामे सरसि स्नातुं गन्धर्वः कश्चिदाययौ ॥
गन्धर्वराजकन्याभिस्तरुणीभिः समन्वितः ॥ ३९ ॥
जलक्रीडां करोति स्म दिवि स्थाप्य विमानकम्॥
सुरूपाभिश्च सहितं क्रीडन्तं कमलाकरे ॥ 2.1.9.४० ॥
पश्यञ्छ्रीरङ्गदासोऽयं व्यस्मरन्माल्यसञ्चयम् ॥
जितेन्द्रियोऽपि तत्कक्रीडां पश्यन्रेतः ससर्ज ह ॥ ४१ ॥
पश्यतस्तस्य सरसः समुत्तीर्य मनोहरम् ॥
दिव्यवस्त्राणि चाच्छाद्य कान्ताभिः सह सस्मितम् ॥ ॥ ४२ ॥
अधिरुह्य विमानं तु ययौ स धनदालयम् ॥
गते गन्धर्वराजे तु रङ्गदासो विमोहितः ॥ ४३ ॥
त्यक्त्वा च तानि माल्यानि स्नात्वा सरसि लज्जितः ॥
पुनराहृत्य पुष्पाणि शनैर्देवालयं ययौ ॥ ४४ ॥
वैखानसस्तु तं दृष्ट्वा पूजाकालमतीत्य च ॥
आगतं किमिति प्राह सखेऽतिक्रम्य चागतः ॥ ४५ ॥
न बद्धा मालिकाश्चापि त्वयाऽऽरामे च किं कृतम् ॥ ४६ ॥
॥ श्रीवराहउवाच ॥ ॥
इत्थं पृष्टो रङ्गदासो नावदल्लज्जया ततः ॥
लज्जितं रङ्गदासं तं प्रोवाच मधुसूदनः ॥ ४७ ॥
॥ अथ स्वरूपानुसन्धानेन लज्जितं रङ्गदासं प्रति श्रीनिवासवचनम्॥
॥ श्रीभगवानुवाच ॥ ॥
लज्जया किं रङ्गदास मया त्वं मोहितो ह्यसि ॥
त्वं तावज्जितकामोऽसि धीरो भव महामते ॥ ४८ ॥
गन्धर्वराजवद्राजा भवितासि महीतले ॥
तत्र भुक्त्वा महाभोगान्भक्तिमान्मयि सर्वदा ॥ ४९ ॥
प्राकारं च विमानं च कारयिष्यसि मे तदा ॥
तत्र मुक्तिं प्रदास्यामि प्रीत्या परमया युतः ॥ 2.1.9.५० ॥
अत्रैव कुरु सेवां त्वमाशरीरविमोक्षणात् ॥
मद्भक्तानां सकामानामेवं मुक्तिर्भविष्यति ॥ ५१ ॥
इत्युक्त्वा भगवान्विष्णुः पुनर्नोवाच किञ्चन ॥
श्रुत्वा तद्रङ्गदासोऽपि चकाराराममुत्तमम् ॥ ॥ ५२ ॥
॥ अथ तोण्डमान्नामकनृपवृत्तान्तः ॥ ॥
साग्रं शताब्दं सेवित्वा गतः स्वर्गममन्दधीः ॥
जातः सोमकुले तुङ्गे तोण्डमानिति विश्रुतः ॥ ५३ ॥
सुवीरतनयो वीरो नन्दिनीगर्भसम्भवः ॥
स पञ्चवर्षादुद्भूतविष्णुभक्तिः स्वयं सुधीः ॥
सौशील्यशौर्यवीर्यादिगुणानामाकरो महान्॥ ५४ ॥
पाण्ड्यस्य तनयां पद्मामुपयेमे मनोहराम् ॥
ततो राजा शतं कन्या नानादेश्याः स्वयंवराः ॥ ५५ ॥
रेमे देवेन्द्रवद्भूमौ नारायणपुरे वसन्॥
अनुज्ञां प्राप्य पितृतः पुत्रः पञ्चास्यविक्रमः॥ ५६ ॥
उद्दिश्य मृगयां वीरो वेङ्कटाद्रेः समीपतः ॥ ५७ ॥
॥ अथ तोण्डमान्नृपस्य मृगयार्थं श्रीशेषाचलगमनम् ॥ ॥
पादचारेण विचरन्परिवारैः समन्वितः ॥
मदधारां विमुञ्चन्तं ददर्श गजयूथपम् ॥ ५८ ॥
तं दृष्ट्वा विस्मितो भूत्वा ग्रहीतुं तमनुद्रुतः ॥
सुवर्णमुखरीं तीर्त्वा ब्रह्माष शुकमुत्तमम् ॥ ५९ ॥
नमस्कृत्याभ्यनुज्ञातस्ततोऽगच्छद्वनाद्वनम् ॥
ददर्श रेणुकां देवीं वल्मीकाकारसंस्थिताम् ॥ 2.1.9.६० ॥
इष्टदामिष्टभक्तानां दिव्यारामनिवासिनीम्॥
परिवारैः सदोपेतां पूजितां त्रिदशैरपि ॥६१ ॥
तोण्डमानपि तां नत्वा ततः पश्चान्मुखो ययौ ॥ ६२ ॥
॥ अथ श्रीनिवाससमीपस्थपञ्चवर्णशुकवृत्तान्तः ॥ ॥
पञ्चवर्णं शुकं दृष्ट्वा तं जिघृक्षुरनुद्रुतः ॥
स वदञ्छ्रीनिवासेति गिरिं शीघ्रतरं ययौ ॥ ६३ ॥
अनुद्रवन्स राजापि गिरिराजं समारुहत् ॥
दरीश्च विविधाः पश्यञ्छिखराणि समन्ततः॥ ॥ ६४ ॥
शुकमन्वेषमाणोऽसौ श्यामाकवनमेयिवान् ॥
तमदृष्ट्वा शुकवरं वनपालं ददर्श ह ॥ ६५ ॥
तं तु राजानमायान्तं प्रत्युद्गच्छन्स सत्वरः ॥
प्रणम्य विनयोपेतः कृताञ्जलिपुटः स्थितः ॥६६॥
तोण्डमानपि सम्पूज्य तं पप्रच्छ वनेचरम्॥
पञ्चवर्णः शुकः कश्चिद्दृष्टश्चात्रागतस्त्वया ॥ ६७ ॥
श्रीनिवासेति च वदन्क्व गतोऽसौ वनेचर ॥ ६८ ॥
॥ वनेचर उवाच ॥ ॥
स पञ्चवर्णो राजेन्द्र श्रीनिवासप्रियः सदा ॥
पार्श्ववर्ती सदा तस्य श्रीभूमिभ्यां विवर्धितः ॥ ६९ ॥
स्वामिपुष्करिणीतीरे सदास्ते देवसन्निधौ ॥
ग्रहीतुं स शुकः श्रीमान्न तु केनापि शक्यते ॥ 2.1.9.७० ॥
विहृत्य स्वेच्छया नित्यमस्मिन्गिरिवरे शुभे ॥
दिनान्ते देवमासाद्य तत्समीपे वसत्ययम् ॥ ७१ ॥
तं देवमाराधयितुं गमिष्यामि नृपात्मज ॥
विश्रम्यतां वृक्षमूले यावदागमनं मम ॥ ७२ ॥
पुत्रेणानेन सहितो विहर त्वं यथासुखम् ॥ ७३ ॥
॥ राजोवाच ॥ ॥
त्वया सहागमिष्यामि द्रष्टुं देवं जनार्दनम् ॥
त्वं मे दर्शय देवेशं वेङ्कटाद्रिनिवासिनम् ॥ ७४ ॥
तस्य राज्ञो वचः श्रुत्वा श्यामाकं मधुमिश्रितम् ॥
चूतपत्रपुटे क्षिप्त्वा राज्ञा सह ययौ हरिम् ॥ ७५ ॥
॥ अथ तोण्डमान्नृपस्य निषादेन सह श्रीनिवाससमीपागमनम् ॥ ॥
गत्वा सुदूरमध्वानं पश्यन्तौ तौ शिलातलम् ॥
मुहूर्तादेव सम्प्राप्तौ स्वामिपुष्करिणीं शुभाम् ॥ ७६ ॥
स्नात्वा तत्र विधानेन राज्ञा सह निषादपः ॥
दर्शयामास देवशं राज्ञस्तस्य महात्मनः ॥ ७७ ॥
स्वामिपुष्करिणीतीरे स्थितं श्रीवृक्षमूलके ॥
अतसीपुष्पसङ्काशमम्बुजायतलोचनम् ॥ ७८ ॥
चतुर्भुजमुदाराङ्गमीषत्स्मितमुखाम्बुजम् ॥
दिव्यपीताम्बरधरं किरीटकटकोज्ज्वलम् ॥ ७९ ॥
पार्श्वस्थाभ्यां सुरूपाभ्यां श्रीभूमिभ्यां समन्वितम् ॥
परितः शङ्खचक्रासिगदाशार्ङ्गेषुसेवितम् ॥॥ 2.1.9.८० ॥
अन्यैर्दिव्यायुधैश्चापि दिव्यमाल्यैर्निषेवितम् ॥
स्कन्देनाराध्यमानं तं त्रिसन्ध्यं पुरुषोत्तमम् ॥ ८१ ॥
वल्मीकगूढपादाब्जमाजानुपुरुषोत्तमम् ॥
ततो दृष्ट्वा मुदा देवं प्रणेमतुरुभौ तदा ॥ ८२ ॥
राजा तु प्राञ्जलिर्भूत्वा विस्मयोत्फुल्ललोचनः ॥
आनन्दलहरीं प्राप्य न प्राज्ञायत किञ्चन ॥ ८३ ॥
निषादोऽपि निवेद्यैव श्यामाकं मधुमिश्रितम् ॥
राज्ञे तदर्धं दत्त्वैव शिष्टार्धं भुक्तवान्स्वयम् ॥ ८४ ॥
पीत्वा पुष्करिणीतोयं तेन राज्ञा समन्वितः ॥
स पुनः श्यामकवने पुण्यां पर्णकुटीं ययौ ॥ ८५ ॥
उषित्वा चैकरात्रं तु प्रातरुत्थाय भूमिपः ॥
स्वसैन्येन समायुक्तो निवृत्तः स्वपुरं ययौ ॥ ८६ ॥
॥ अथ तोण्डमान्नृपं प्रति रेणुकोक्तिः ॥ ॥
पुनर्देवीवनं गत्वा हयादवततार ह ॥
चैत्रशुद्धनवम्यां तु पूजयामास रेणुकाम् ॥ ८७॥
हविष्यं परमान्नं च सोपस्करमनेकशः ॥
पशूपहारसहितं धूपदीपसमन्वितम् ॥ ८८ ॥
सुराघटीशतं दत्त्वा जातीकेसरवासितम् ॥
एवं सम्पूजिता देवी प्रीता राज्ञे वरं ददौ ॥ ८९ ॥
आविष्टः पुरुषः कश्चिदवदन्नृपसत्तमम् ॥
शृणु राजन्भविष्यं ते राज्यं निहतकण्टकम् ॥ 2.1.9.९० ॥
राजंस्तवैव नाम्नात्र राजधानी भविष्यति ॥
मत्समीपे महाराज चिरं राज्यं करिष्यसि ॥ ९१ ॥
देवदेवप्रसादश्च भविष्यति तवानघ ॥
इति दत्त्वा वरं तस्मा आविष्टः प्रकृतिं ययौ ॥ ९२ ॥
ततो लब्धवरो राजा ययौ शुकमुनिं पुनः ॥ ९३ ॥
॥ अथ शुकवर्णितपद्मसरोवरमाहात्म्यम् ॥ ॥
अभिवाद्य मुनिं तेन पूजितो मुदितोऽभवत् ॥
माहात्म्यं सरसो ब्रूहि कमलाख्यस्य मे मुने ॥ ९४ ॥
॥ श्रीशुक उवाच ॥ ॥
पुरा दुर्वाससः शापादवतीर्णा सुरालयात् ॥
पद्मा पद्माक्षदयिता विष्णुना सहिता नृप ॥ ९५ ॥
सरः काञ्चनपद्माढ्यमिदं प्राप्य महेश्वरी ॥
तपश्चकार वर्षाणां दिव्यानामयुतं रमा ॥ ९६ ॥
ततो देवा विचिन्वन्तः श्रियं विष्णुसमन्विताम् ॥
पुरन्दरेण संयुक्ता राजन्नस्मिन्सरोवरे ॥ ९७ ॥
स्थिता सुवर्णकमले पुण्डरीकाक्षसंयुताम् ॥
दृष्ट्वा प्रीतिसमायुक्ताः प्रणम्याम्बुजधारिणीम् ॥
कृताञ्जलिपुटाः सेन्द्रास्तुष्टुवुर्लोकमातरम् ॥ ॥ ९६ ॥
॥ अथ देवादिकृतश्रीलक्ष्मीस्तुतिः ॥
॥ देवा ऊचुः ॥ ॥
नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमोनमः ॥
नमस्ते पद्मनेत्रायै पद्ममुख्यै नमोनमः ॥ ९९ ॥
प्रसन्नमुखपद्मायै पद्मकान्त्यै नमोनमः ॥
नमो बिल्ववनस्थायै विष्णुपत्न्यै नमोनमः ॥ 2.1.9.१०० ॥
विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमोनमः ॥
पक्वबिल्वफलापीनतुङ्गस्तन्यै नमोनमः ॥ १०१ ॥
सुरक्तपद्मपत्राभकरपादतले शुभे ॥
सुरत्नाङ्गदकेयूरकाञ्चीनूपुरशोभिते ॥
यक्षकर्दमसंलिप्तसर्वाङ्गे कटकोज्ज्वले ॥ १०२ ॥
माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते ॥
ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजे ॥ १०३ ॥
पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे ॥
ऋग्यजुःसामरूपायै विद्यायै ते नमोनमः ॥ १०४ ॥
प्रसीदास्मान्कृपादृष्टिपातैरालोकयाब्धिजे ॥
ये दृष्टास्ते त्वया ब्रह्मरुद्रेन्द्रत्वं समाप्नुयुः ॥ १०५ ॥
॥ अथ इन्द्रादीन्प्रति स्तुतिप्रसन्नलक्ष्मीवचनम् ॥
॥ श्रीशुक उवाच ॥ ॥
इति स्तुता तदा दैवैर्विष्णुवक्षःस्थलालया ॥
विष्णुना सह सन्दृश्या रमा प्रीतावदत्सुरान् ॥ १०६ ॥
॥ श्रीरुवाच ॥ ॥
सुरारीन्सहसा हत्वा स्वपदानि गमिष्यथ ॥
ये स्थानहीनाः स्वस्थानाद्भ्रंशिता ये नरा भुवि ॥ १०७ ॥
ते मामनेन स्तोत्रेण स्तुत्वा स्थानमवाप्नुयुः ॥
अखण्डैर्बिल्वपत्रैर्मामर्चयन्ति नरा भुवि ॥ १०८ ॥
स्तोत्रेणानेन ये देवा नरा युष्मत्कृतेन वै ॥
धर्मार्थकाममोक्षाणामाकरास्ते भवन्ति वै ॥ १०९ ॥
इदं पद्मसरो देवा ये केचन नरा भुवि ॥
प्राप्य स्नानं करिष्यन्ति मां स्तुत्वा विष्णुवल्लभाम् ॥ 2.1.9.११० ॥
तेऽपि श्रियं दीर्घमायुर्विद्यां पुत्रान्सुवर्चसः ॥
लब्ध्वा भोगांश्च भुक्त्वाऽन्ते नरा मोक्षमवाप्नुयुः ॥ १११ ॥
इति दत्त्वा वरं देवी देवेन सह विष्णुना ॥
आरुह्य गरुडेशानं वैकुण्ठस्थानमाययौ ॥ ॥ ११२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये धरणीवराहसंवादे वसु नामक निषादवृत्तान्तपद्मसरोमाहात्म्यादिवर्णनन्नाम नवमोऽध्यायः ॥ ९ ॥