००८ कमलालयापरिणयादिवर्णनम्

॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालङ्कारः ॥ ॥
॥ श्रीवराह उवाच ॥ ॥
ततो देवाधिदेवोऽपि लक्ष्मीमाहूय भामिनीम् ॥
किं कार्यं वद कल्याणि विवाहार्थं सुलोचने ॥ १ ॥
आज्ञापयस्व स्वसखी रमे कार्यं कुरु प्रियम् ॥
श्रीस्तु कृष्णवचः श्रुत्वा सखीराहूय चोदयत् ॥ २ ॥
श्रियाज्ञप्ता ततः प्रीतिः सुगन्धं तैलमाददौ ॥
श्रुतिः क्षौमं समादाय तस्थौ देवस्य सन्निधौ ॥ ३ ॥
भूषणानि समादाय स्मृतिरप्याययौ मुदा ॥
धृतिरादर्शमाधत्त शान्तिर्मृगमदं दधौ ॥ ४ ॥
यक्षकर्दममादाय ह्रीः स्थिता पुरतो हरेः ॥
कीर्तिः कनकपट्टं च सरत्नं मुकुटं दधौ ॥ ५ ॥
छत्रं दधौ तदेन्द्राणी चामरं तु सरस्वती ॥
द्वितीयं चामरं गौरी व्यजने विजयाजये ॥ ६ ॥
आगतास्ताः समालोक्य श्रीरुत्थायाथ सत्वरा ॥
सुगन्धं तैलमादाय देवमभ्यज्य शीर्षतः ॥ ७ ॥
उद्वर्तितं गन्धचूर्णैर्देवाङ्गं परिमृज्य च ॥
आनीतान्करिभिस्तोयकलशान्काञ्चनाञ्छतम् ॥ ८ ॥
वियद्गङ्गादितीर्थेभ्यः कर्पूरादिसुवासितान्॥
एकमेकं समादाय त्वभ्यषिञ्चद्रमा हरिम् ॥ ९ ॥
सन्धूप्य केशान्धूपेन तानाश्यामान्बबन्ध च ॥
सुगन्धेनानुलिप्याङ्गं स्वर्णवर्णेन तद्विभोः ॥ 2.1.8.१० ॥
पीतकौशेयकं बद्ध्वा कट्यां काञ्चीसमन्वितम् ॥
मुकुटादिविभूषाभिर्भूषयामास चेन्दिरा ॥ ११ ॥
अङ्गुलीयकरत्नानि सर्वास्वेवाङ्गुलीषु च ॥
आदर्शं दर्शयामास धृतिर्देवस्य सन्निधौ ॥ १२ ॥
दृष्ट्वादर्शं देवदेवो ह्यूर्ध्वपुण्ड्रं स्वयं दधौ ॥
आरुह्य गरुडं पश्चात्स्वयं लक्ष्मीसमन्वितः ॥ १३ ॥ ॥
अथ ब्रह्मादिभिस्साकं श्रीनिवासस्य वियद्राजपुरगमनम् ॥ ॥
ब्रह्मेशवज्रिवरुणयमयक्षेशसेवितः ॥
वसिष्ठाद्यैर्मुनीन्द्रैश्च सनकाद्यैश्च योगिभिः ॥ १४ ॥
भक्तैर्भागवतैर्युक्तो नारायणपुरीं ययौ ॥
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥१५॥
देवदुन्दुभयो नेदुस्तदा देवस्य सन्निधौ ॥
जपन्तः स्वस्तिसूक्तानि मुनयस्तं समन्वयुः ॥ १६ ॥
देवो देवगणैर्युक्तो विष्वक्सेनादिपार्षदैः ॥
सखीभिस्स्यन्दनस्थाभिर्बकुलाद्याभिरन्वितः ॥
आकाशराजस्य पुरमाससाद स्वलङ्कृतम् ॥ १७ ॥
॥ अथ पद्मावतीपरिणयघट्टः ॥ ॥
देवमागतमालोक्य कन्यामैरावतस्थिताम्॥
पुरीं प्रदक्षणीकृत्य गोपुरद्वारमागताम् ॥ १८ ॥
आलोक्याकाशराजोऽपि समानीय वधूवरौ ॥
बन्धुभिः सहितस्तस्थौ देवमालोक्य केशवम् ॥ १९ ॥
विष्णुर्मालां स्वकण्ठस्थां हस्तेनादाय सस्मितः ॥
कमलायाः स्कन्धदेशे मुमोच सुमनश्चिताम् ॥ 2.1.8.२० ॥
आदाय मल्लिकामाला साऽस्य कण्ठे समर्पयत् ॥
एवं त्रिवारं तौ कृत्वा वाहनादवरुह्य च ॥ २१ ॥
स्थित्वा पीठे क्षणं पश्चाद्गृहं विविशतुः शुभम् ॥
ब्रह्मादिदेवयूथैश्च सहितौ भूमिजाहरी ओ। २२ ॥
माङ्गल्यसूत्रबन्धादि साङ्कुरार्पणमब्जजः ॥
वैवाहिकं कारयित्वा लाजहोमान्तमेव च ॥ २३ ॥
व्रतादेशं समाज्ञाय शयितौ कमलाहरी ॥
चतुर्थे दिवसे सर्वं समापय्य चतुर्मुखः ॥ २४ ॥
अनुज्ञाप्य वियद्राजमारोप्य गरुडे हरिम् ॥
देवीभ्यां सहितं देवं देवैर्गन्तुं प्रचक्रमे ॥ २५ ॥
दिव्यदुन्दुभिर्निर्घोषैः सम्प्राप्य वृषभाचलम् ॥
तुष्टुवुर्देवदेवेशं ब्रह्माद्या देवतागणाः ॥ २६ ॥
शुकादयो मुनिगणास्तुष्टुवुः पुरुषोत्तमम् ॥
स्तूयमानोऽथ देवोऽपि विवेश मणिमण्डपम् ॥ २७ ॥
रमाधरणिजाभ्यां च तत्र सिंहासनं ययौ॥ २८ ॥
॥ अथ वधूवरयोर्वियद्राजवितीर्णप्राभृतादिकम् ॥ ॥
आकाशराजोऽपि तदा महेन्द्रादिसुरैः सह ॥
पुत्रीविष्ण्वोः प्रियार्थं तु प्राभृतं कतुमुद्यतः ॥२९॥
सौवर्णेषु कटाहेषु तण्डुलाञ्छालिसम्भवान्॥
मुद्गपात्राण्यनेकानि घृतकुम्भशतानि च ॥ 2.1.8.३० ॥
पयोघटसहस्राणि दधिभाण्डान्यनेकशः ॥
दिव्यानि चूतकदलीनारिकेलफलानि च ॥ ३१ ॥
धात्रीफलानि कूष्माडराजरम्भाफलानि च ॥
पनसान्मातुलुङ्गांश्च शर्करापूरितान्घटान् ॥ ३२ ॥
सुवर्णमणिमुक्ताश्च क्षौमकोट्यम्बराणि च ॥
दासीदाससहस्राणि कोटिशो गास्तथैव च॥ ३३ ॥
हंसेन्दुशुक्लवर्णानां हयानामयुतं ददौ ॥
तुङ्गानां नित्यमत्तानां गजानामधिकं शतात् ॥ ३४ ॥
अन्तःपुरचरा नारीर्नृत्तगीतविशारदाः ॥
ददौ चतुःसहस्राणि श्रीनिवासाय विष्णवे ॥
दत्त्वा चैतानि सर्वाणि तस्थौ देवपुरो विभुः ॥ ३५ ॥
॥ अथ श्रीनिवासकृपया वियद्राजस्य भक्तिरूपवरप्राप्तिः ॥ ॥
दृष्ट्वा देवोऽपि तत्सर्वं देवीभ्यां सहितो हरिः ॥ ३६ ॥
सुप्रीतः प्राह राजानं श्वशुरं वेङ्कटेश्वरः ॥
वरं वृणीष्व हे राजन्गुरो मत्तो यदीच्छसि ॥ ३७ ॥
इति श्रीशवचः श्रुत्वा वियद्राजोऽवदद्विभुम् ॥
त्वत्सेवैवेह देवैवं भूयादव्यभिचारिणी ॥ ३८ ॥
मनस्त्वत्पादकमले त्वयि भक्तिर्ममास्तु वै ॥ ३९ ॥
॥ श्रीभगवानुवाच ॥ ॥
त्वया यदुक्तं राजेन्द्र सर्वमेतद्भविष्यति ॥
इति दत्त्वा वरं तस्मै सम्मान्यैव यथोचितम् ॥ 2.1.8.४० ॥
॥ अथ विवाहार्थमागतानां ब्रह्मादीनां स्वावासगमनम् ॥ ॥
ब्रह्मेशादिसुरान्सर्वान्समभ्यर्च्य यथोचितम् ॥
स्वर्लोकगमनायैवमनुमेने मुदा हरिः ॥
गतेषु तेषु सर्वेषु श्रिया भूमिजया युतः ॥ ४१ ॥
विहरन्स यथापूर्वं स्वामिपुष्करिणीतटे ॥
आस्ते दिव्यालये देवोप्यर्च्यमानो गुहेन वै ॥ ४२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये धरणीवराहसंवादे ब्रह्मादिभिः साकं श्रीनिवासस्य वियद्राजपुरगमन कमलालयापरिणयादिवर्णनन्नामाष्टमोऽध्यायः ॥ ८ ॥