००७ श्रीनिवासोदन्तकमलालयाकल्याणविध्यादिवृत्तान्तवर्णनम्

अथ धरणीदेव्यै बकुलमालिकानिवेदितश्रीनिवासोदन्तः ॥
॥ धरण्युवाच ॥ ॥
कैषा बत वरा कन्या युष्माभिः सङ्गता कुतः ॥
किमर्थमागता चेह पूज्यैषा प्रतिभाति मे ॥ १ ॥
॥ कन्यका ऊचुः ॥ ॥
एषा दिव्याङ्गना देवी त्वयि कार्यार्थमागता ॥
देवालये सङ्गतेयमस्माभिः शिवसन्निधौ ॥ २ ॥
पृष्टावदच्च भवतीं द्रष्टुमेवागतेति वै ॥
शक्या द्रष्टुं राजगृहे मया राज्ञी सुखेन वा ॥ ३ ॥
एवं पृष्टास्ततो ब्रूमः सहास्माभिश्च गम्यताम्॥
वयं तु धरणीदास्यो गमिष्यामो नृपालयम् ॥ ४ ॥
इत्युक्तास्माभिरायाता त्वत्समीपं वसुन्धरे॥
भवत्या पृच्छयतामेषा किमित्यागमनं तव ॥ ५ ॥
श्रीवराह उवाच ॥ ॥
इति तासां वचः श्रुत्वा तामपृच्छद्वसुन्धरा ॥ ६ ॥
॥ धरण्युवाच ॥ ॥
कुतस्त्वमागता देवि किं वा कार्यं मया तव ॥
ब्रूहि सत्यं करिष्यामि त्वदागमनकारणम् ॥ ७ ॥ ॥
बकुलमालिकोवाच ॥ ॥
वेङ्कटाद्रेः समायाता नाम्ना बकुलमालिका ॥ ८ ॥
स्वामी नारायणोऽस्माकमास्ते श्रीवेङ्कटाचले ॥
कदाचिद्धयमारुह्य हंसशुक्लं मनोजवम् ॥ ९ ॥
मृगयार्थं गतो राज्ञो वेङ्कटाद्रेः समीपतः ॥
वनानि विचरन्काले शोभने कुसुमाकरे ॥ 2.1.7.१० ॥
पश्यन्मृगान्गजान्सिंहान्गवयाञ्छरभान्रुरून् ॥
शुकान्पारावतान्हंसान्पत्रिणोऽन्यान्वनान्तरे ॥ ११ ॥
गजराजं तत्र कञ्चिद्यूथपं मदवर्षिणम् ॥
करेणुसहितं तुङ्गमन्वगच्छत्सुरोत्तमः ॥ १२ ॥ ॥
अथ श्रीनिवासोक्त्या शङ्खनृपस्य स्वामितीर्थे तपःकरणम् ॥ ॥
वनाद्वनान्तरं गत्वा नृपं शङ्खमुपागमत् ॥
तपस्यन्तं बृहच्छैले प्रतिष्ठाप्य जनार्दनम् ॥ १३ ॥
श्रीभूमिसहितं नित्यमर्चयन्तं च भक्तितः ॥
शङ्खनागबिलन्नाम सरः पावनमुत्तमम् ॥ १४ ॥
तत्सरस्तीरमासाद्य तुरङ्गादवरुह्य च ॥
राजवेषं समासाद्य तमपृच्छन्नृपोत्तमम्॥ १५ ॥
क्रियते किं नृपश्रेष्ठ पादेऽस्मिच्छेषभूभृतः ॥ १६ ॥
॥ शङ्ख उवाच ॥ ॥
अहं हैहयदेशीयः पुत्रः श्वेतस्य भूभृतः ॥
महाविष्णोः प्रीतयेऽत्र कृतवानखिलान्क्रतून् ॥ १७ ॥
अदर्शनान्महाविष्णोर्निर्विण्णोहं नृपात्मज ॥
तदानीमवदद्दिव्या वाणी सर्वार्त्तिनाशिनी ॥ १८ ॥
राजन्नात्र भविष्यामि प्रत्यक्षस्ते वचः शृणु ॥
गच्छ नारायणाद्रिं त्वं तपः कुर्विति मां स्फुटम् ॥ १९ ॥
ततो देशमहं त्यक्त्वा तपसाऽऽराधयाम्यहम्॥
अत्र देवं नृपाचिन्त्यं प्रतिष्ठाप्य श्रियः पतिम् ॥ 2.1.7.२० ॥
अगस्त्यानुग्रहान्नित्यमर्चयामि विधानतः ॥
इति तस्य वचः श्रुत्वा सोत्प्रासं प्राह तं विभुः॥ ॥ २१ ॥
गच्छ नारायणाद्रिं त्वमस्य पादे किमास्यते ॥
आरुह्यानेन मार्गेण पश्चिमे शिखरे स्थितम् ॥ २२ ॥
प्रणम्य विष्वक्सेनं त्वं बालं न्यग्रोधमूलतः ॥
स्वामिपुष्करिणीं गत्वा स्नात्वा तीरेऽथ पश्चिमे ॥ २३ ॥
अश्वत्थं तत्र वल्मीकं द्रक्ष्यसे नृपनन्दन ॥
तयोर्मध्यं समासाद्य तपः कुर्वित्यचोदयत् ॥ २४ ॥
कश्चिच्छ्वेतो वराहोऽस्मिन्वल्मीके चरति धुवम् ॥
स तु पुण्यवतामेव दर्शनं याति भूपते ॥२५ ॥
॥ ॥ श्रीवराह उवाच ॥ ॥
इत्यादिश्य हयारूढो जगाम मृगयां विभुः ॥
चरन्वनाद्वनं सुभ्रूः समासाद्यारणीं नदीम् ॥ २६ ॥
अवरुह्य हयात्तत्र विचचार तटे शुभे ॥
वनान्तादागतो वायुः पद्मकह्लारशीतलः ॥
श्रमापनयनो मन्दं सिषेवे पुरुषोत्तमम् ॥ २७ ॥
तरवः पुष्पवर्षाणि विकिरन्तः सिषेविरे ॥
एवं स विचरन्देवः पुष्पभारानतांस्तरून् ॥ २८ ॥
विचिन्वन्गजराजं तं पुष्पलावीर्ददर्श ह ॥
कन्याः सुवेषा रुचिरा मेघेष्विव शतह्रदाः ॥ २९ ॥।
तासां मध्यगतां तन्वीं ददर्शातिमनोहराम् ॥
लक्ष्मीसमां हेमवर्णां तस्यां सक्तमना अभूत् ॥ 2.1.7.३० ॥
तां गृध्नुराह ताः कन्याः केयमित्येव पूरुषः ॥
उक्तस्ताभिरियं कन्या वियद्राज्ञो महाबल ॥ ३१ ॥
इदं श्रुत्वा वचस्तासां हयमारुह्य वेगवान् ॥
आजगामाशु भगवान्स्वालयं रुचिरं गिरिम्॥ ३२ ॥
तत्र स्वालयमासाद्य स्वामिपुष्करिणीतटे ॥
मामाहूयावदद्देवो हला बकुलमालिके ॥ ३३ ॥
वियद्राजपुरं गत्वा प्रविश्यान्तःपुरं सखि ॥
तत्पत्नीं धरणीं प्राप्य पृष्ट्वा कुशलमेव च ॥ ३४ ॥
याचस्व तनयां तस्या रुचिरां कमलालयाम् ॥
राज्ञोभिमतमाज्ञाय शीघ्रमागच्छ भामिनि ॥ ३५ ॥
इत्थं दैवेन चाज्ञप्ता देवि त्वद्गृहमागता ॥
यथोचितं कुरुष्वेह राज्ञा मन्त्रियुतेन च ॥ ३६ ॥ ॥
अथ बकुलमालिकोक्त्या धरण्यादिकृतविवाहनिश्चयः ॥ ॥
कन्यया च विचार्यैव प्रोच्यतामुत्तरं वचः ॥ ३७ ॥
॥ श्रीवराह उवाच ॥ ॥
अथ तस्या वचः श्रुत्वा प्रीता राज्ञी बभूव ह ॥
आहूयाकाशराजं तमुपेत्य कमलालयाम् ॥ ३८ ॥
मन्त्रिमध्येऽवदद्देवी वचनं बकुलस्रजः ॥ श्रु
त्वा प्रीतोऽवदद्राजा मन्त्रिणः सपुरोहितान् ॥ ३९ ॥
॥ आकाशराज उवाच ॥ ॥
कन्या त्वयोनिजा दिव्या सुभगा कमलालया ॥
अर्थिता देवदेवेन वेङ्कटाद्रिनिवासिना ॥ 2.1.7.४० ॥
पूर्णो मनोरथो मेऽद्य ब्रूत किं सम्मतं तु वः ॥
श्रुत्वा मन्त्रिगणाः सर्वे राज्ञो वचनमुत्तमम् ॥ ४१ ॥
प्रोचुः सुप्रीतमनसो वियद्राजं महीपतिम् ॥
वयं कृतार्था राजेन्द्र कुलं सर्वोन्नतं भवेत् ॥ ४२ ॥
भवत्कन्येयमतुला श्रिया सह रमिष्यति ॥
दीयतां देवदेवाय शार्ङ्गिणे परमात्मने ॥ ४३ ॥
अयं वसन्तः श्रीमांश्च शुभं शीघ्रं विधीयताम् ॥ ४४ ॥ ॥
अथ बृहस्पत्युक्त्या विवाहलग्नस्थिरीकरणम् ॥ ॥
आहूय धिषणं लग्नं विवाहार्थं विधीयताम् ॥ ४५ ॥
तथास्त्वित्याह्वयामास सुरलोकाद्बृहस्पतिम् ॥
पप्रच्छ कन्यावरयोर्विवाहार्थं नरेश्वरः ॥ ४६ ॥
॥ राजोवाच ॥ ॥
कन्याया जन्मनक्षत्रं मृगशीर्षमिति स्मृतम् ॥
देवस्य श्रवणर्क्षन्तु तयोर्योगो विचार्यताम् ॥ ४७ ॥
श्रुत्वाऽब्रवीत्स धिषणस्तयोरुत्तरफल्गुनी ॥
सम्मता सुखवृद्ध्यर्थं प्रोच्यते दैवचिन्तकैः ॥ ४८ ॥
तयोरुत्तरफल्गुन्यां विवाहः क्रियतामिति ॥
वैशाखमासे विधिवत्क्रियतामिति सोऽब्रवीत् ॥ ४९ ॥
॥ श्रीवराह उवाच ॥ ॥
राजा तु धिषणं तत्र सम्पूज्याथ विसृज्य च ॥
देवस्य दूतिकामाह गच्छ देवालयं शुभे ॥ ॥ 2.1.7.५० ॥
वैशाखे देवदेवाय कल्याणं वद सुव्रते ॥
वैवाहिकविधानं तु कृत्वा चागम्यतामिति ॥ ५१ ॥
ततो देव्याः प्रियकरं शुकं दूतं तया सह ॥
विसृज्य वायुं स्वसुतमिन्द्राद्यानयनेऽसृजत् ॥ ५२ ॥
॥ अथ विश्वकर्मादिकृतपुरालङ्कारादिक्रमः ॥ ॥
आहूय विश्वकर्माणं पुरालङ्कारकर्मणि ॥
नियोजयामास सोऽपि निर्ममे निमिषान्तरात् ॥ ५३ ॥
इन्द्रोऽसृजत्पुष्पवृष्टिं ननृतुश्चाप्सरोगणाः ॥
धनदो धनधान्याद्यैः पूरयामास वेश्म तत् ॥ ॥ ५४ ॥
यमस्तु रोगरहितांश्चकार मनुजान्भुवि ॥
वरुणो रत्नजालानि मौक्तिकादीन्यपूरयत् ॥ ५५ ॥
एवं सम्पाद्य सर्वाणि ययुर्देवा वृषाचलम् ॥ ॥ ५६ ॥
॥ अथ शुकेन सह बकुलायाः श्रीनिवाससमीपे गमनम् ॥
॥ श्रीवराह उवाच ॥ ॥
ततः सा हयमारुह्य शुकेन सहिता ययौ ॥
श्रीवेङ्कटाद्रिमासाद्य देवालयसमीपतः ॥ ५७ ॥
अवरुह्य तुरङ्गात्सा सशुकाऽभ्यन्तरं ययौ ॥
दृष्ट्वा देवं रत्नपीठे श्रिया सह सुलोचनम् ॥ ॥ ५८ ॥
प्रणम्य ह्यवदत्प्रीता कृत्यं तत्र कृतं विभो ॥
माङ्गल्यवार्तां वक्तुं वै शुक एष समागतः ॥ ५९ ॥
॥ अथ श्रीनिवासाय शुकावेदित पद्मावतीपरिणयवृत्तान्तः ॥ ॥
वदेति देवेनाज्ञप्तः शुको नत्वा तमब्रवीत् ॥
॥ शुक उवाच ॥ ॥
त्वां प्रत्याह सुता भूमेर्मामङ्गीकुरु माधव ॥ 2.1.7.६० ॥
वदामि तव नामानि स्मरामि त्वद्वपुस्सदा ॥
ध्रियन्ते तव चिह्नानि भुजाद्यङ्गै रमापते ॥ ६१ ॥
त्वद्भक्तानर्चयामीह पञ्चसंस्कारसंयुतान् ॥
त्वत्प्रीतये हि कर्माणि करोमि मधुसूदन ॥ ६२ ॥
एवं सदैवाचरन्त्याः पित्रोरनुमते मम ॥
कुरु प्रसादं देवेश मामङ्गीकुरु माधव ॥ ६३ ॥
इति विज्ञापयामास कमलस्था धरासुता ॥
शुकस्य वचनं श्रुत्वा सुप्रियं त्वात्मनो हरिः ॥ ६४ ॥
॥ अथ पद्मावत्याः शुकदत्तश्रीनिवासमालाधारणम्॥
॥ श्रीभगवानुवाच ॥ ॥
कर्तुं कल्याणमुद्वाहमागमिष्यामि चाऽमरैः ॥
शुक गच्छ वदैवं तामित्थं देवोऽब्रवीदिति ॥ ६५ ॥
शुकः श्रुत्वा देववाक्यमादाय वनमालिकाम्॥
देवदत्तां ययौ शीघ्रं वियद्राजसुतां प्रति ॥ ६६ ॥
तुलसीमालिकां दत्त्वा मृगनाभिसुगन्धिनीम् ॥
प्रणम्य देवीमवदच्छुको देववचः शुभम् ॥ ६७ ॥
श्रुत्वा तन्मालिकां गृह्य भूमिजा शिरसा दधौ ॥
चक्रेऽलङ्कारमुचितं देवागमनकाङ्क्षिणी ॥ ॥ ६८ ॥
वियद्राजोऽपि सानन्दमिन्दुमाहूय सादरम्॥
अन्नं विधीयतां राजन्विविधं रससंयुतम् ॥ ६९ ॥
विष्णोर्नैवेद्ययोग्यं यत्परमान्नं विधीयताम् ॥
देवानां च ऋषीणां च नराणामपि सम्मतम् ॥ 2.1.7.७० ॥
चतुर्विधं सुगन्धाढ्यममृतांशैः सुधाकर ॥
एवं कृत्वा संविधानं प्रतीक्ष्यागमनं विभोः ॥ ७१ ॥
सभायां मन्त्रिसहितः समास्त प्रीतमानसः ॥
पुत्रीमलङ्कृतां कृत्वा धरणीसहितो नृपः ॥ ७२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये धरणीवराहसंवादे धरणीदेव्यै बकुलमालिकानिवेदित श्रीनिवासोदन्तकमलालयाकल्याणविध्यादिवृत्तान्तवर्णनन्नाम सप्तमोऽध्यायः ॥ ७ ॥