॥ अथ बकुलमालिकां प्रति सखीविनिवेदितपद्मावत्युदन्तः ॥
॥ योषित ऊचुः ॥ ॥
वयमाकाशराजस्य शुद्धान्तनिलयाः स्त्रियः ॥
सख्यः पद्मालयाया वै दुहितुर्वसुधापतेः ॥ १ ॥
राजपुत्रीं पुरस्कृत्य गताः पूर्वं वनान्तरम् ॥
कुर्वन्त्यः पुष्पावचयं राजपुत्र्यर्थमाकुलाः ॥ २ ॥
वृक्षमूले समासीनास्तत्र पश्याम पूरुषम् ॥
इन्द्रनीलमणिश्याममिन्दिरामन्दिरोरसम्॥ ३ ॥
ईषत्स्मितमुखं चारुपीनदीर्घभुजद्वयम् ॥
मृष्टपीताम्बरं हेमबाणबाणासनोज्ज्वलम् ॥ ४ ॥
सुवर्णमुकुटं हारकेयूरादिविभूषितम् ॥
तं तु पद्मालया दृष्ट्वा सखी कमललोचना ॥ ५ ॥
द्रुतहेमनिभाकारा पश्य पश्येति साब्रवीत् ॥
पश्यन्तीनां तदास्माकं गतोऽन्तर्धानमाशु सः ॥ ६ ॥
सा सखी मूर्च्छितास्माभिनीता राजगृहं ततः॥ ७ ॥ ॥
अथ पद्मावतीमुद्दिश्य दैवज्ञं प्रति वियद्राजकृतप्रश्नादिः ॥ ॥
दृष्ट्वाऽस्वस्थां नृपः पुत्रीमपृच्छद्दैवचिन्तकम् ॥
वद विप्रेन्द्र पुत्र्या मे ग्रहचारफलं मुने ॥ ८ ॥
बृहस्पतिसमो विप्रो विचार्यात्मनि खेचरान् ॥
अनुकूला ग्रहाः सर्वे तव पुत्र्या नृपोत्तम ॥ ९ ॥
किन्तु नित्यं ग्रहफलं किञ्चिद्भ्रान्तिकरं नृप ॥
तमुवाच पुनर्धीमान्प्रश्नकालं विचार्य च ॥ 2.1.6.१० ॥
छायां गुणित्वा लग्नं च तत्फलानि विचार्य च ॥
लग्ने लग्नाधिपश्चन्द्रः केन्द्रे चैव बृहस्पतिः ॥ ११ ॥
निद्राति दिनपक्षी तु प्रश्नपक्षी तु राज्यगः ॥
शृणु राजन्फलं तस्य स्वास्थ्यमेव भविष्यति ॥ १२ ॥
उत्तमः पुरुषः कश्चिदागतः कन्यकां प्रति ॥
तं दृष्ट्वा मूर्च्छिता पुत्री तेन योगं समेष्यति ॥ १३ ॥
तेनैव प्रेषिता काचिदागमिष्यति कन्यका ॥
सा तु वक्ष्यति यद्वाक्यं तद्धितं ते भविष्यति ॥ १४ ॥
तत्कुरुष्व महाराज सत्यंसत्यं वदाम्यहम् ॥
किं च सर्वार्थदं यत्तु सर्वव्याधिविनाशनम् ॥ १५ ॥
वक्ष्यामि तत्कुरुष्वाद्य पुत्र्यास्तव सुखावहम् ॥
कारयागस्त्यलिङ्गस्य ब्राह्मणैरभिषेचनम् ॥ १६ ॥
इत्युक्ताथ गृहं यातो राजानं दैवचितकः ॥ ॥ १७ ॥
॥ अथ दैवज्ञोक्त्यागस्त्यलिङ्गार्चनाय विप्रादिप्रेषणम् ॥ ॥
आकाशराजोऽपि तदा विप्रानाहूय वैदिकान् ॥
अभ्यर्च्याज्ञापयामास गत्वा देवालयं द्विजाः ॥ १८ ॥
महाभिषेकं शम्भोश्च कुरुध्वं मन्त्रपूर्वकम् ॥
इत्यनुज्ञाप्य तानस्मानाहूयाभ्यवदच्छुभे ॥ १९ ॥
महाभिषेकसम्भारान्सम्पादयत कन्यकाः ॥
इत्याज्ञप्ता नृपेणैव वयं देवालयं गताः ॥ 2.1.6.२० ॥
ब्रूहि त्वं सुभगेऽस्माकं त्वदागमनमञ्जसा ॥
कुतोसि कस्य वार्थेन क्व वा जिगमिषा हि ते ॥ २१ ॥
दिव्याश्वमधिरुह्येमं देवलोकादिवागता ॥ २२ ॥
॥ श्रीवराह उवाच ॥ ॥
इति ताभिस्तदा पृष्टा हृष्टा बकुलमालिका ॥
प्रोवाच वाचं मधुरां हर्षयन्तीव बालिकाः ॥ २३ ॥
॥ बकुलमालिकोवाच ॥ ॥
श्रीवेङ्कटाद्रेः प्राप्ताहं नाम्ना बकुलमालिका ॥
धरणीं द्रष्टुकामाहमारुह्येमं तुरङ्गमम् ॥ २४ ॥
द्रष्टुं शक्या भवेद्देवी किमु तत्र नृपालये ॥
इति तस्या वचः श्रुत्वा ताः प्रोचुर्नृपकन्यकाः ॥ २५ ॥
अस्माभिः सहिता त्वं वै द्रक्ष्यसे धरणीं शुभे ॥
इत्युक्ता सा ततस्ताभिरागता नृपमन्दिरम् ॥२६॥
आगच्छन्तीषु तास्वेवं धरणी तु पुलिन्दिनीम् ॥ २७ ॥
॥ अथ धरणीकृत प्रश्नस्य पुलिन्दिनीप्रतिवचनम् ॥ ॥
आयान्तीं वीथिकायां सा सगुञ्जाशङ्खभूषिताम् ॥
शिशुं स्तनं धयं पृष्ठे बद्ध्वा वस्त्राञ्चलेन वै ॥ २८ ॥
वदामि सत्यं शृणुत भूतं भव्यं भविष्यकम् ॥
वदन्ती वीथिवीथीषु तामाहूय शुचिस्मिता ॥ २९ ॥
स्वर्णशूर्पं समादाय तस्मिन्मुक्ता निधाय च ॥
त्रिप्रस्थमात्रांस्त्रीन्राशीन्कृत्वा तस्यै निधाय च ॥ 2.1.6.३० ॥
वद सत्यं त्वमेष्यद्वा भूतमेव वा ॥
इत्येवं धरणी देवी पृच्छन्ती तां स्थिताऽभवत् ॥ ३१ ॥
पृष्टा सावददस्यास्तु मनसा यद्विचिन्तितम्॥
मध्यराशौ चिन्तितं ते वद कल्याणि मे ऋजु ॥ ३२ ॥
ओमित्याहाथ धरणी पुलिन्दां राजवल्लभा ॥
॥ धरण्युवाच ॥ ॥
राशिरुक्तः फलं ब्रूहि धनराशिं ददामि ते ॥ ३३ ॥
॥ पुलिन्दोवाच ॥ ॥
सत्यं वदामि ते सुभ्रु शिशोरन्नं प्रयच्छ मे ॥
इत्युक्ता सा तु धरणी स्वर्णपात्रेऽन्नमाददे ॥ ३४ ॥
दत्त्वा तस्यै पुलिन्दिन्यै सत्यं ब्रूहीति सावदत्॥
सक्षीरमन्नमादाय दत्त्वा पुत्राय भामिनी ॥ ३५ ॥
सा सत्यमवदत्सुभ्रूर्दुहितुर्देहशोषणम्॥
पुरुषादागतं भीरु तद्रूपाऽदर्शनादियम् ॥ ३६ ॥
अङ्गतापं समापन्ना ह्यनङ्गशरपीडिता ॥
स तु देवादिदेवो वै वैकुण्ठादागतः स्वयम् ॥ ३७ ॥
श्रीवेङ्कटाद्रिशिखरे स्वामिपुष्करिणीतटे ॥
मायावी परमानन्दः श्रिया सह रमापतिः ॥ ३८ ॥
कामरूपी विहरते भक्ताभीष्टप्रदो हरिः ॥
स तुरङ्गं समारुह्य विहरन्काननान्तरे ॥ ३९ ॥
आगत्योपवनं राज्ञि तव कन्यां स दृष्टवान् ॥
रमासमामिमां दृष्ट्वा स्वयं कामवशं गतः ॥ 2.1.6.४० ॥
स्वसखीं ललितां देवः प्रेषयिष्यति तेन्तिकम् ॥
रमेव तं समेत्यैषा रमिष्यति सुखं चिरम् ॥ ४१ ॥
एतत्सत्यं मम वचः पश्याद्यैव नृपात्मजे ॥
पुत्रस्यान्नं प्रयच्छेति तूष्णीमास पुलिन्दिनी ॥ ४२ ॥
अन्नं दत्त्वा पुनर्भूरि तस्यै तां विससर्ज ह ॥
तस्यां विनिर्गतायां तु पुलिन्दिन्यामनिन्दिता ॥ ४३ ॥
उत्थाय चाङ्गणात्तस्माद्विवेशान्तःपुरं शुभम् ॥
यत्र पद्मालया कन्या समास्ते स्वसखीवृता ॥ ४४ ॥
गत्वा पुत्रीसमीपस्था कन्यां कामातुरां सुताम्॥
पुत्रि किं ते करिष्यामि वस्तु किं वा प्रियं शुभे ॥ ४५ ॥
इति मात्राभिपृष्टा सा मन्दमाह मनस्विनी ॥ ४६ ॥
॥ अथ पद्मावती निवेदित भगवद्भागवतयोर्लक्षणानि ॥ ॥
नेत्राभिरामं यल्लोके सतामपि मनःप्रियम् ॥
यद्द्रष्टुकामा ब्रह्माद्या यत्तु सर्वगतं महत् ॥ ४७ ॥
तेजसामपि तेजस्वि देवानामपि दैवतम् ॥
भक्तैस्सद्भिरिह प्राप्यमभक्तैर्न कदाचन ॥ ४८ ॥
तस्मिन्नेव मनो मेऽम्ब वस्तुनीह प्रवर्तते॥
तदेवान्विष्यतां मातर्भक्तानां सर्वकामदम् ॥ ४९ ॥
॥ श्रीवराह उवाच ॥ ॥
एतच्छ्रुत्वाथ धरणी तामपृच्छत्पुनः सुताम् ॥
तद्भक्तलक्षणं ब्रूहि यैः प्राप्यं तत्सुलोचने ॥ 2.1.6.५० ॥
॥ पद्मालयोवाच ॥ ॥
भक्तानां लक्षणं मातः शृणु गुह्यं समाहिता ॥
शङ्खचक्राङ्किता नित्यं भुजयुग्मे वसुन्धरे॥ ॥ ५१ ॥
ऊर्ध्वपुण्ड्रं सान्तरालं तेषामेव विशेषतः ॥
पुण्ड्रानि द्वादश पुनर्धारयन्ति तथापरे ॥ ५२ ॥
ललाटोदरहृत्कण्ठे जठरे पार्श्वयोरपि ॥
कूर्परयोर्भुजद्वन्द्वे पृष्ठे च गलपृष्ठके ॥ ५३ ॥
केशवादीनि नामानि द्वादशाङ्गेषु द्वादश ॥
वासुदेवेति तन्मूर्ध्नि धारयन्ति नमोऽस्त्विति ॥ ५४ ॥
तेषां तु नियमान्वक्ष्ये मातः शृणु मनोरमान् ॥
वेदपारायणरताः कर्म कुर्वन्ति वैदिकम् ॥ ५५ ॥
सत्यं वदन्ति ये देवि नासूयन्ति परान्क्वचित् ॥
परनिन्दां न कुर्वन्ति परस्वं न हरन्ति च ॥ ५६ ॥
न स्मरन्ति न पश्यन्ति न स्पृशन्ति कदाचन ॥
परदारान्सुरूपांश्च ये च तान्विद्धि वैष्णवान् ॥५७॥
सर्वभूतदयावन्तः सर्वभूतहिते रताः ॥
सदा गायन्ति देवेशमेतान्भक्तानवेहि वै ॥ ५८ ॥
येन केन च सन्तुष्टाः स्वदारनिरताश्च ये ॥
वीतरागभयक्रोधास्तान्भक्तान्विद्धि वैष्णवान् ॥ ५९ ॥
एवंविधैर्गुणैर्युक्ताः पञ्चायुधधरा अपि ॥
पित्रा चाचार्यरूपेण शिष्टेनान्येन वा पुनः ॥ 2.1.6.६० ॥
स्वगृह्योक्तविधानेन वह्निमादाय वै बुधः ॥
चक्राद्यायुधमन्त्रेण जुहुयात्षोडशाहुतीः ॥ ६१ ॥
मूलमन्त्रेण सूक्तेन पौरुषेण ततः परम् ॥
जातवेदः सुमन्त्रेण पश्चादष्टोत्तरं शतम् ॥ ६२ ॥
हुत्वा महाव्याहृतिभिश्चक्रादींस्तत्र तापयेत् ॥
सह्यान्सुतप्तान्गुरुणा मन्त्रवद्धारयेद्बुधः ॥ ६३ ॥
भुजद्वये शङ्खचक्रे मूर्ध्नि शार्ङ्गशरौ तथा ॥
ललाटे तु गदा धार्या हृदये खड्गमेव च ॥ ६४ ॥
एवं धार्याणि पञ्चैव विष्णुभक्तैर्मुमुक्षुभिः ॥
अथवा भुजयोश्चक्र शङ्खौ चैव सुलक्षणौ ॥ ६५ ॥
एवं लाञ्छनयुक्ता ये भक्तास्ते वैष्णवाः स्मृताः ॥
तैरेव लभ्यं तद्ब्रह्म सदाचारसमन्वितैः ॥ ६६ ॥
तस्मिन्नेव मम प्रीतिस्तत्प्राप्तिं काङ्क्षते मनः ॥
मातर्विष्णुविनान्येषु वाञ्छा काचिन्न जायते ॥ ६७ ॥
स्मरामि श्यामलं विष्णुं वदामि हरिमच्युतम् ॥
तेनैव मातर्जीवामि तद्योगे चिन्त्यतां विधिः ॥ ६८ ॥
॥ श्रीवराह उवाच ॥ ॥
इत्युक्त्वा मातरं दीना विररामाम्बुजानना ॥
तच्छ्रुत्वा चिन्तयामास विष्णुः प्रीतः कथं भवेत्॥६९॥
अथ बकुलमालिकया सार्द्धं सखीनां धरणीसमीप आगमनम्॥
एतस्मिन्नन्तरे कन्या अगस्त्येशं समर्च्य च ॥
आगता धरणीं द्रष्टुं सहैव बकुलस्रजा ॥ 2.1.6.७० ॥
आगतान्ब्राह्मणान्साथ पूजयित्वा सुभोजनैः ॥
दत्त्वाथ दक्षिणाः पूर्णा वस्त्रालङ्कारसंयुताः ॥ ७१ ॥
आशिषौ वाचयित्वाथ वाञ्छितार्थस्य सिद्धये ॥
विसृज्य व्राह्मणान्सर्वानथापृच्छत्स्वयोषितः ॥ ७२ ॥
पूजयित्वा ह्यगस्त्येशमागतास्ता मनस्विनीः ॥ ७३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये धरणीवराहसंवादे बकुलमालिकां प्रति सखीविनिवेदितपद्मावत्युदन्तविष्णुभक्तलक्षणादिवर्णनन्नाम षष्ठोऽध्यायः ॥ ६ ॥ ॥