॥ अथ श्रीवराहमन्त्राराधनविधिः ॥
॥ श्रीसूत उवाच ॥ ॥
शृणुध्वं मुनयः सर्वे कथां पुण्यां पुरातनीम् ॥
वैवस्वतेंऽतरे पूर्वं कृते पुण्यतमे युगे ॥ १ ॥
नारायणाद्रौ देवेशं निवसन्तं क्षमापतिम् ॥
वराहरूपिणं देवं धरणी सखिभिर्वृता ॥ २ ॥
प्रणम्य परिपप्रच्छ रक्तपद्मायतेक्षणम् ॥ ३ ॥
॥ धरण्युवाच ॥ ॥
आराध्यः केन मन्त्रेण भवान्प्रीतो भविष्यति ॥
तं मे वद त्वं देवेश यः प्रियो भवतः सदा ॥ ४ ॥
जपतां सर्वसम्पत्तिकारकं पुत्रपौत्रदम् ॥
सार्वभौमत्वदं चैव कामिनां कामदं सदा ॥ ॥ ५ ॥
अन्ते यस्त्वत्पदप्राप्तिं ददाति नियमात्मनाम् ॥
एवम्भूतं वद प्रीत्या मयि वाराह मानद ॥ ६ ॥
॥ श्रीसूत उवाच ॥ ॥
इति पृष्टस्तया भूम्या प्राह प्रीतिस्मिताननः ॥ ७ ॥
॥ श्रीवराह उवाच ॥ ॥
शृणु देवि परं गुह्यं सद्यः सम्पत्तिकारकम् ॥
भूमिदं पुत्रदं गोप्यमप्रकाश्यं कदाचन ॥ ८ ॥
किं च शुश्रूषवे वाच्यं भक्ताय नियतात्मने ॥ ९ ॥
ॐ नमः श्रीवराहाय धरण्युद्धरणाय च ॥
वह्निजायासमायुक्तः सदा जप्यो मुमुक्षुभिः ॥ 2.1.2.१० ॥
अयं मन्त्रो धरादेवि सर्वसिद्धिप्रदायकः ॥
ऋषिः सङ्कर्षणः प्रोक्तो देवता त्वहमेव हि ॥ ११ ॥
छन्दः पङ्क्तिः समाख्याता श्रीबीजं समुदाहृतम् ॥
चतुर्लक्षं जपेन्मन्त्रं सद्गुरोर्लब्धतन्मनुः ॥ १२ ॥
जुहुयात्पायसान्नं वै क्षौद्रसर्पिःसमन्वितम् ॥
अथ ध्यानं प्रवक्ष्यामि मनःशुद्धिप्रदायकम् ॥ १३ ॥
शुद्धिस्फटिकशैलाभं रक्तपद्मदलेक्षणम् ॥
वराहवदनं सौम्यं चतुर्बाहुं किरीटिनम् ॥ १४ ॥
श्रीवत्सवक्षसं चक्रशङ्खाभयकराम्बुजम् ॥
वामोरुस्थितया युक्तं त्वया मां सागराम्बरे ॥ १५ ॥
रक्तपीताम्बरधरं रक्ताभरणभूषितम् ॥
श्री कूर्मपृष्ठमध्यस्थशेषमूर्त्यब्जसंस्थितम् ॥ १६ ॥
एवं ध्यात्वा जपेन्मन्त्रं सदा चाष्टोत्तरं शतम् ॥
सर्वान्कामानवाप्नोति मोक्षं चान्ते व्रजेद्ध्रुवम् ॥ १७ ॥
प्रोक्तं मया ते धरणि यत्पृष्टोऽहं त्वयाऽमले ॥
अतः किं ते व्यवसितं ब्रूहि तद्विमलानने ॥ १८ ॥
॥ ॥अथ श्रीवराहमन्त्रेण धर्मादीनां स्वाभीष्टसिद्धिवर्णनम् ॥
॥ श्रीसूत उवाच ॥ ॥
एतच्छ्रुत्वा ततो भूमिः पप्रच्छ पुनरेव तम् ॥
केनैवानुष्ठितं देव पुरा प्राप्तं फलं च किम् ॥ १९ ॥
इति पृष्टः पुनर्देवः श्रीवराहोऽब्रवीदिदम् ॥
पुरा कृतयुगे देवि धर्मो नाम मनुर्महान् ॥ 2.1.2.२० ॥
ब्रह्मणोऽमुं मनुं लब्ध्वा जप्त्वास्मिन्धरणीधरे ॥
मां च दृष्ट्वा वरं लब्ध्वा प्राप्तोऽभून्मामकं पदम् ॥ २१ ॥
इन्द्रो दुर्वाससः शापात्पुरा भ्रष्टस्त्रिविष्टपात् ॥
अनेनेष्ट्वाऽत्र मां देवि पुनः प्राप्तस्त्रिविष्टपम् ॥ २२ ॥
अन्येऽपि मुनयो भूमे जप्त्वा प्राप्ताः परां गतिम् ॥
अनन्तः पन्नगाधीशो ह्यमुं लब्ध्वाथ कश्यपात् ॥ २३ ॥
श्वेतद्वीपे जपित्वैव बभूव धरणीधरः ॥
तस्माज्जप्यः सदा चेह मनुष्यैश्च धरार्थिभिः ॥ २४ ॥
॥ श्रीसूत उवाच ॥ ॥
एतच्छ्रुत्वाथ सुप्रीता पुनः प्राह धराधरम् ॥ २५ ॥
॥ धरण्युवाच ॥ ॥
वेङ्कटाख्ये महाशैले श्रीनिवासो जगत्पतिः ॥
कदा ह्यायाति देवेशः श्रीभूमिसहितोऽमलः ॥ २६ ॥
कथं कल्पान्तरस्थायी भविष्यति जनार्दनः ॥
एतद्ब्रूहि वराहात्मन्महत्कौतहलं मम ॥ २७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये धरणीवराहसंवादे श्रीवराहमन्त्राराधनविध्यादिवर्णनन्नाम द्वितीयोऽध्यायः ॥ २ ॥