०२४ वज्राङ्गदसद्गतिवर्णनम्

॥ मार्कण्डेय उवाच ॥ ॥
भगवन्भवमाहात्म्यरत्नाकरसुधाकरम् ॥
नन्दीश चित्रं चारित्रं श्रुतं विद्याभृतोर्द्वयोः ॥ १ ॥
कदा वज्राङ्गदः सिद्धः कथं देवमपूजयत् ॥
कथं चान्वग्रहीत्प्रह्वं देवस्तमरुणेश्वरः ॥ २ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
निवर्त्तनेच्छां हित्वाथ नृपो निजपुरं प्रति ॥
तस्यैव पादपर्यन्ते स्वस्य वासमरोचयत् ॥ ३ ॥
अथास्य महती सेना वाहमार्गानुसारिणी ॥
प्राप्ता शताङ्गमातङ्गतुरङ्गभटसङ्कुला ॥ ४ ॥
समदृश्यत भूपालस्तादृशो धैर्यसागरः ॥
पुरोधोमन्त्रिसामन्तसेनापतिसुहृत्तमैः ॥ ५ ॥
ततस्तामागतां सेनामवनीपतिरादृतः ॥
अरुणाद्रेश्च सीमाया बहिरेव न्यवेशयत् ॥ ६ ॥
स्वकीयमखिलं कोशं देशानपि महाफलान् ॥
शोणाद्रिनाथपूजायै कल्पयामास भक्तिमान् ॥ ७ ॥
गौतमस्याश्रमाभ्याशे स्वयं कृततपोवनः ॥
पुरोधोक्तः ससचिवः शिवार्चनरतोऽभवत् ॥ ८ ॥
रत्नाङ्गदाख्यं तनयं स्थापयित्वा निजे पदे ॥
तत्प्रेषितैरपर्याप्तैः शोणेशं पर्यतर्पयत् ॥ ९ ॥
परितः शोणशैलस्य परिपूर्णजलाशयान् ॥
अग्रहारान्बहुफलान्ब्राह्मणेभ्योऽतिसृष्टवान् ॥ 1.3.2.24.१० ॥
तेजसारुणनाथस्य ज्वलनस्तम्भरूपिणः ॥
धन्वप्रायेऽपि देशेऽस्मिन्दीर्घिकाः शतशो व्यधात् ॥ ११ ॥
सौन्दर्यशालिनीरात्मपरिवारवराङ्गनाः ॥
सेवार्थं शोणनाथस्य दत्तवान्दीर्घदर्शनः ॥ १२ ॥
अथागतेनागस्त्येन लोपामुद्रासखेन सः ॥
अभ्यनन्द्यत शोणाद्रिनाथपूजापरायणः ॥ १३ ॥
प्रत्यहं नवतीर्थाख्ये सरसि स्नानमाचरन् ॥
पापनाशप्रवालेशौ प्रयतः पर्यपूजयत् ॥ १४ ॥
महिषासुरसंहारकारिणी मानवेश्वरः ॥
नित्यमाराधयामास दुर्गां दुर्ग्गार्तिहारिणीम् ॥ ॥ १५ ॥
प्रतिक्षणं ब्रह्मविष्णुपूज्यस्य लिङ्गरूपिणः ॥
आदिदेवस्य विविधाः सपर्याः पर्यकल्पयत् ॥ १६ ॥
प्रत्युषस्युत्थितः स्नातः पादाभ्यामेव पार्थिवः ॥
जपन्पञ्चाक्षरीमन्त्रमकार्षीत्त्रिः प्रदक्षिणाम् ॥ १७ ॥
पौर्णमास्यां स कार्त्तिक्यां पार्वतीवल्लभप्रियम् ॥
महादीपोत्सवं चक्रे महितं भुवनत्रये ॥ १८ ॥
सुगन्धसारकह्लारकर्पूरजलपूरितः ॥
सहस्रैः स्वर्णकुम्भानामभ्यषिञ्चत्त्रियन्त्रकम् ॥ १९ ॥
प्रतिमासध्वजारोहपूर्वं तीर्थोत्सवादिकम् ॥
त्रैलोक्याभ्यर्हितं चक्रे रथारोहं महोत्सवम्॥ 1.3.2.24.२०॥
अङ्गं प्रदक्षिणं चास्य विदधे विशदाशयः॥
योजनत्रितयायामव्यापिनः शोणभूभृतः॥२१॥
अरुणाचलनाथेति करुणामृतसागरः॥
अरुणांवासनाथेति तुष्टाव च मुहुर्मुहुः॥२२॥
संलिप्य विविधैर्द्रव्यैर्नित्यं पञ्चामृतादिभिः॥
आचर्च यद्गन्धसारपङ्कैः कर्पूरपाण्डुरैः ॥ २३ ॥
अपूजयत कल्हारैः स्रवन्मृगमदद्रवैः ॥ प्रा
तरारभ्य शोणाद्रिनायकं गणरूपिणम् ॥ २४ ॥
इति वर्षत्रयं तस्य वशिनो वरिवस्यया ॥
अरुणाद्रीश्वरस्तुष्टः प्रत्यक्षत्वमगाहत ॥२५॥
नीहाराचलसङ्काशमारूढो वृषपुङ्गवम्॥
अन्वगासीनया देव्या कृतगाढोपगूहनः॥ २६॥
ब्रह्मर्षिभिर्वसिष्ठाद्यैर्नारदाद्यैर्महर्षिभिः॥
गणैर्निकुम्भकुम्भाद्यैः क्रियमाणजयस्तुतिः ॥ २७॥
करुणासिन्धुकल्लोलैः कमलावासवेश्मभिः ॥
कटाक्षपातैर्जगतां कालुष्यमिव वारयन् ॥ २८ ॥
दृष्ट्वा च देवदेवं तमष्टाङ्गं न्यस्य भूतले ॥
प्रणनाम परं हृष्टो वज्राङ्गदमहीपतिः ॥ २९ ॥
व्यज्ञापयच्च भूपालो मौलीकृतशताञ्जलिः ॥
क्षालयन्निव दन्तांशुजालैस्तत्पादपङ्कजे ॥ 1.3.2.24.३० ॥ ॥
॥ वज्राङ्गद उवाच ॥ ॥
देवेश यदहं मोहाद्बहुपातकसञ्चयम् ॥
अचारिषं स एकोऽयं क्षम्यतां मे व्यतिक्रमः ॥ ३१ ॥
इतिवादिनमत्यन्तं दीनमेव दयानिधिः ॥
जगाद जगतीनाथो देवः शोणाचलेश्वरः ॥ ३२ ॥
॥ श्रीमहेश्वर उवाच ॥ ॥
मा भैषीर्वत्स भद्रं ते सन्त्यष्टौ मम मूर्त्तयः ॥
ताः सर्वाः सर्वजन्तूनामत्यर्थं परिकल्पिताः ॥ ३३ ॥
पुरा पुरन्दरस्त्वं हि कैलासशिखरे स्थितम् ॥
गर्वितो मामवामंस्थाः स्तम्भितश्च तदा मया ॥ ३४ ॥
क्षणं गलितगर्वस्त्वं स्तम्भना व्रीडितस्तदा ॥
अयाचिष्ठाः शिवज्ञानमखिलैश्वर्यकारणम् ॥ ३५ ॥
आदिष्टस्त्वं मया वज्रिन्नवतीर्यावनिं भवान्॥
राजा वज्राङ्गदो भूत्वा लप्स्यसे मत्कृपामिति॥ ३६॥
जातं ततः प्रभावेण क्षेत्रमेतन्मदास्पदम्॥
शिक्षितोतीव मुग्धस्त्वं भक्तोसि च परं मयि ॥ ३७ ॥
अधुनातिसपर्याभिस्त्वत्कृताभिरहर्निशम् ॥
परितुष्टोस्म्यहं राजन्नतस्त्वां बोधयाम्यहम् ॥ ३८ ॥
खं वायुरनलो वारि भूः सूर्य शशिनौ पुमान् ॥
इति मन्मूर्त्तिभिर्विश्वं भासते सचराचरम् ॥ ३९ ॥
कालो हि कालयाम्यर्थान्सत्त्वानध्वन एव च ॥
तत्त्वातीतः शिवश्चाहं न मत्तोस्तीह किञ्चन ॥ 1.3.2.24.४० ॥
अपर्यन्तचिदानन्दसिन्धोर्मे केचिदूर्मयः ॥
वेधोमुकुन्दरुद्रेन्द्रमुखानाहुरुदित्वराः ॥ ४१ ॥
वाणीलक्ष्मीक्षमाश्रद्धाप्रज्ञास्वाहास्वधादयः ॥
असङ्ख्येयमहाशक्तेर्मम विसृष्टिशक्तयः ॥ ४२ ॥
इयं मम महाशक्तिर्गौरी माया जगत्प्रसूः ॥
अनयाच्छाद्यते विश्वं शश्वद्विस्तार्यतेऽपि च ॥ ४३ ॥
शक्त्यानयान्वितः सर्गरक्षासंहृतिविभ्रमः ॥
विचित्रमेतत्पश्यामि जगच्चित्रं निजेच्छया ॥४४॥
अपवाहितमोहस्त्वं महिमा मे विचारय ॥
आत्मानमविभिन्नं मे तरङ्गमिव वारिधेः ॥ ४५ ॥
ततो मद्रूपशालिन्या आधिपत्यं क्षितेर्गतः ॥
मत्प्रसादेन राजेन्द्र भुङ्क्ष्व भोगान्यथासुखम् ॥ ४६ ॥
पुनः पुरन्दरत्वेन भुक्तदिव्यसुखश्चिरम्॥
मदेकरूपतां राजन्निश्चयात्त्वमवाप्स्यसि ॥ ४७ ॥ ॥
नन्दिकेश्वर उवाच ॥ ॥
इत्युक्त्वान्तर्हिते देवे राजा वज्राङ्गदः कृती ॥
शोणेशं पूजयन्नेव सर्वान्भोगानवाप्तवान् ॥४८॥
इत्थं ते कथितं साधो शिवभक्तविजृम्भणम् ॥
प्रदक्षिणाफलं चैव शोणशैलस्य शाश्वतम् ॥ ४९ ॥
किं वाचां विस्तरेणात्र शोणशैलप्रदक्षिणा ॥
महतामश्वमेधानां शतादपि विशिष्यते ॥ 1.3.2.24.५० ॥
विषुवायनसङ्क्राति व्यतीपातादिपर्वसु ॥
प्रदक्षिणाच्छोणगिरेरसङ्ख्येयं फलं लभेत् ॥ ५१ ॥
न क्षेत्रमरुणादस्ति नास्ति देवोऽरुणेश्वरात् ॥
नापि प्रदक्षिणादन्यद्विपद्यतेऽभ्यधिकं तपः ॥ ५२ ॥
इति कथयति नन्दिकेश्वरेस्मिन्पुलकितसर्ववपुर्मृकण्डुपुत्रः ॥
मुहुरधिगतहर्षवाष्पवृष्टिर्महति निमग्न इवाभवत्सुधाब्धौ ॥ ५३ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे वज्राङ्गदसद्गतिवर्णनन्नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥