०२३ कलाधरकान्तिशालिवृत्तान्तवर्णनम्

॥ कलाधर उवाच ॥ ॥
काम्बोजेषु हयो भूत्वा कान्तिशाली सुहृन्मम ॥
अयासीदौपवाह्यत्वं भवतो राजपुङ्गव ॥ १ ॥
अहं च गन्धमृगतां गतः स्वाङ्गप्रसूतिना ॥
सुगन्धिना मदेनास्य सञ्चारं चाचरं गिरेः ॥ २ ॥
धर्मात्मन्मृगयाव्याजादागतेन त्वयाधुना ॥
आवां शोणाद्रिनाथस्य प्रापितौ हि प्रदक्षिणाम् ॥ ३ ॥
वाहारोहणदोषेण तवासीदीदृशी दशा ॥
पादप्रचारपुण्येन प्राप्तं नौ प्राक्तनं पदम्॥ ४ ॥
राजेन्द्र तव सम्बन्धादस्मात्तिर्यक्त्वबन्धनात् ॥
मुक्तावावां स्वकं धाम प्राप्तौ स्वस्त्यस्तु ते सदा॥ ५ ॥
इत्युदीर्य निजं धाम यियासन्तं कलाधरम् ॥
कान्तिशालिनं च राजा जगाद रचिताञ्जलिः ॥ ६ ॥
एवं युवां शोणशैलशङ्करस्य प्रभावतः ॥
शापार्णवं समुत्तीर्णौ कथं मे पुनरुच्छ्रयः ॥७॥
भ्राम्यतीव मम स्वान्तमाधाय तदवेक्षणम् ॥
निर्यान्तीव मम प्राणास्तत्र दैवं बलोत्तरम् ॥ ८॥ ॥
कलाधरकान्तिशालिनावूचतुः ॥ ॥
अवधारय निस्तारं कथयाव तवास्यदम् ॥
समाहितेन मनसा निर्धूतनिखिलाधिना ॥ ९ ॥
जगत्सर्गस्थितिध्वंसविधानानुग्रहेश्वरे ॥
अरुणाद्रीश्वरे चित्तं निधेहि करुणानिधौ ॥1.3.2.23.१०॥
प्रत्यक्षितं त्वयेदानीमस्य देवस्य वैभवम् ॥
तिरश्चोरावयोरेतदीदृशत्वं वितन्वतः ॥ ११ ॥
कुरु प्रदक्षिणां पादचारी मृगमदादृतैः ॥
कल्हारैः पूजयेशानं देवं मृगमदप्रियम् ॥ १२ ॥
यावती तव सम्पत्तिस्तावतीमखिलां विभो ॥
प्राकारगोपुरागारनवीकाराय कल्पय ॥ १३ ॥
अचिरादेव सिद्धिस्ते भविष्यति गरीयसी ॥
मनुमान्धातृनाभागभगीरथवदाधिका ॥ १४ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
इत्थं निशम्य च तयोर्निजमेव धाम विद्याभृतोः सपदि संश्रुतयोर्नरेन्द्रः ॥
निःसंशयेन मनसा निरतस्तदानीं भक्तिं बबन्ध भगवत्यरुणाद्रिनाथे ॥१५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे कलाधरकान्तिशालिवृत्तान्तवर्णनन्नाम त्रयोविंशतितमोऽध्यायः ॥२३॥ ॥