॥ मार्कण्डेय उवाच ॥ ॥
स्वामिन्नित्यशिवानन्द भगवन्नन्दिकेश्वर ॥
आह्लादितोऽस्मि शोणेशमाहात्म्यसुधया त्वया ॥ १ ॥
कथं वज्राङ्गदः पाण्ड्यराजः शोणव्यतिक्रमम् ॥
चक्रे कथं तद्भक्त्यैव प्राप्तवान्सम्पदं पुनः ॥ २ ॥
कथं विद्याधराधीशौ कान्तिशालिकलाधरौ ॥
दुर्वासःशापनिर्विद्धाववितौ शोणशम्भुना ॥ ३ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
दीर्घायुष्यत्वसाफल्यं लब्धवांस्त्वं मृकण्डुज ॥
यदियं स्थेयसी भक्तिर्भवतो भूतनायके ॥ ४ ॥
वक्ष्ये वज्राङ्गदोदन्तं वृत्तं विद्याभृतोरपि ॥
यतोऽभून्महितो लोके शोणाद्रीश्वरवैभवः ॥ ५ ॥
आसीद्वज्राङ्गदोनाम पुरा पाण्ड्येषु पार्थिवः ॥
आस्ते यस्य भुजस्तम्भे वसुधा सालभञ्जिका ॥ ६ ॥
धार्मिको न्यायविज्ज्ञाता गम्भीरो दक्षिणम् क्षमः ॥
शान्तो विनयवान्धीमानेकदारव्रतः कृती ॥ ७ ॥
शिवपूजार्चनरतः श्रीमाञ्छीलवतां वरः ॥
पृथ्वीमासेतुकेदाराच्छशास जितशात्रवः ॥ ८ ॥
कदाचिन्मृगयाव्याजात्स चरन्सुतुरङ्गमः ॥
अरुणाचलपर्यन्तं कान्तारं समगाहत ॥ ९ ॥
स तत्र बहलामोदं कञ्चित्कस्तूरिकामृगम् ॥
दृष्ट्वा तमन्वक्तुरगं प्रावर्तयत कौतुकात् ॥ 1.3.2.22.१० ।
स मृगोऽनुद्रुतस्तेन अभितः शोणपर्वतम् ॥
प्रादक्षिण्यात्परीयाय पपात च मनोजवः ॥ ११ ॥
ततः स भग्नसारोपि राजा जातश्रमश्चरन् ॥
पपात वाहाद्विच्छायः क्षीणपुण्य इव द्युतः ॥ १२ ॥
अज्ञातकारणेनैवं मातङ्गेनेव पीडितः ॥
नाज्ञासीत्क्षणमात्मानं राजा ग्रहगृहीतवत् ॥ १३ ॥
अचिन्तयच्च कोयं मे निर्हेतुः सत्त्वविप्लवः ॥
क्व गतः स ह्यकस्मान्मे उपवाह्यस्तुरङ्गमः ॥ १४ ॥
इति चिन्ताकुले तस्मिंस्तज्ज्ञानेप्यपटीयसि ॥
तडित्तटजटालेव सहसा द्यौरदृश्यत ॥ १५ ॥
निरीक्षमाण एवास्मिन्हित्वा तिर्यक्कलेवरम् ॥
तूर्णं तुरङ्गसारङ्गौ खेचरत्वमुपागतौ ॥ १६ ॥
किरीटिनौ कुण्डलिनौ हारकेयूरधारिणौ ॥
क्षौमान्तरीयोत्तरीयौ स्रग्विणौ च विरेजतुः ॥ १७ ॥
अवोचतां च नृपतिमाश्चर्याकृष्टमानसम् ॥
हरन्ताविव दन्तांशुजालैस्त्वस्यार्त्तिजं तमः ॥ १८ ॥
राजन्नलं विषादेन शोणाद्रीशप्रभावतः ॥
एतां जानीहि सञ्जातां नवां नौ चेदृशी दशाम्॥ १९ ॥
तदोवाच तयोः किञ्चिदाश्वस्तइव पार्थिवः ॥
कृताञ्जलिरभाषिष्ट तावुभौ विनयान्वितः ॥1.3.2.22.२०॥
कौ युवां निर्मितो याभ्यामभिषङ्गो ममेदृशः ॥
भद्रौ भणतमार्त्तानां त्राणं हि महतां गुणः ॥ २१ ॥
इति तेन कृते प्रश्ने तमुवाच कलाधरः ॥
राजानं जनिताश्चर्यं निर्दिष्टः कान्तिशालिना ॥ २२ ॥
अवेहि राजन्नावां हि पुराविद्याधरेश्वरौ ॥
परस्परातिसौहार्दौ वसन्तमदनाविव ॥ २३ ॥
एकदा तु सुवर्णाद्रेः पार्श्वे दुर्वाससो मुनेः ॥
तपोवनमगच्छाव मनसोऽपि दुरासदम् ॥२४॥
क्रोशेद्धां तपसस्तस्य शिवाराधनसाधनीम् ॥
पुष्पोज्ज्वलामपश्याव पुण्यामारामवाटिकाम् ॥२५॥
विनीतावप्यसञ्जातौ तत्त्वोचितसुधीगणौ ॥
प्राविशाव तदुद्यानं प्रसूनावचयोत्सुकौ ॥ २६ ॥
स्थलस्य तस्य सौहार्दात्कान्तिशाल्यतिगर्वितः ॥
सञ्चचार मुहुः पादन्यासैराघट्टयन्महीम् ॥ २७ ॥
अहं तु तत्र पुष्पाणां गन्धातिशयमोहितः ॥
विकस्वरेषु पुष्पेषु न्यस्तहस्तो दुराशयः ॥ २८ ॥
ततः शाण्डिल्यमूलस्थो व्याघ्रचर्मासने स्थितः ॥
दुर्वासास्तपसां राशिर्ज्वलन्निव हुताशनः ॥२९ ॥
अमर्षोत्कर्षनीरन्ध्रस्पन्दमानाधरच्छदः ॥
कराल भृकुटीबन्धसारालितविशालभूः ॥ 1.3.2.22.३० ॥
सरोषोऽभूत्तेजसाढ्यो घर्मदन्तुरविग्रहः ॥
दहन्निव दृशा पश्यन्नभर्त्सयत नौ मुनिः ॥ ३१ ॥
आः पापौ प्रच्युताचारौ कौ युवामतिगर्वितौ ॥
ज्वलतः कोपवह्नेर्मे शलभत्वमुपागतौ ॥ ३२ ॥
तपोवनमिदं मत्कं पावनं भूतभावनम् ॥
पादैर्न स्पृशतः क्वापि सूर्याचन्द्रमसावपि ॥३३॥
पुरवैरिसपर्यायाः पर्यायकमिदं वनम् ॥
न स्पन्दतेऽत्र वातोपि न लिप्यन्तेऽत्र षटपदाः ॥ ३४ ॥
तदेतत्पादसञ्चारैर्दूषयन्नेष पातकी॥
हयो भवतु भूलोके परवाह्यत्वपीडितः ॥ ३५ ॥
अपरोप्ययमत्युग्रे पतत्वचलकन्दरे।
प्रसूनगन्धलोभाद्यो गन्धसारङ्गतां गतः ॥३६॥
इति तेनोग्ररोषेण शापवज्रे निपातिते ॥
तत्क्षणाद्विगलद्गर्वावावां तं शरणं गतौ ॥ ३७ ॥
अभिधाय च तं देवमाहिताङ्घ्रिपरिग्रहैः ॥
अमोघ एष त्वच्छापस्तदस्यान्तो निवेद्यताम् ॥ ३८ ॥
अथातिदीनमनसावावामालोक्य पार्थिव ॥
सानुग्रहोऽभून्मुनिराट् कारुण्यादतिशीतलः ॥ ३९ ॥
अभाषत च मैवं भो भवतोः क्वापि दुर्धियोः ॥
शापस्य भविता शान्तिररुणाद्रेः प्रदक्षिणात् ॥ 1.3.2.22.४० ॥
पुरा खलु पुरारातिरध्यतिष्ठच्छुभां सभाम् ॥
पर्युपास्यत दिक्पालैरिन्द्रोपेन्द्रयमादिभिः ॥ ४१ ॥
तदा च देवदेवाय नन्दनारण्यदेवता ॥
उपायनीकृतवती फलं किमपि पाटलम् ॥ ४२ ॥
बाल्यात्कुतूहलाक्रान्तौ गजाननषडाननौ ॥
पितरं तदयाचेतां लोभनीयतरं फलम् ॥ ४३ ॥
अथ ताववदद्देवस्तनयौ फलतर्षितौ ॥
गोपयित्वा फलं पाणिसम्पुटेन कुमारकौ ॥ ४४ ॥
इमां समस्तां पृथिवीं लोकालोकेन वेष्टिताम् ॥
यो वां प्रदक्षिणीकर्तुमीष्टे तस्मै ददाम्यहम् ॥ ४५ ॥
इत्युक्ते पार्वतीशेन स्मयमानमुखेन्दुना ॥
स्कन्दः प्रदक्षिणीकर्तुं मेदिनीमुपचक्रमे ॥ ४६ ॥
लम्बोदरस्तु देवस्य शोणशैलाकृतेः पितुः ॥
प्रदक्षिणं ततः कृत्वा पुरस्तादेव तत्क्षणात् ॥ ४७ ॥
तद्दृष्ट्वा तस्य चातुर्यं हेरम्बाय त्रियंवकः ॥
फलं वितीर्णवानस्मै प्रणयाघ्रातमस्तकः ॥ ४८ ॥
अद्यप्रभृति सर्वेषां फलानामधिनायकः ॥
भवेत्यस्मै वरं दत्त्वा ह्येकदन्ताय शङ्करः ॥ ४९ ॥
बभाषे च सभास्तारान्सर्वानपि सुरासुरान् ॥
प्रसरद्दशनज्योत्स्नाकर्बुरीकृतमन्दिरः ॥1.3.2.22.५० ॥
स्थावरोयं ममाकारः शोणाद्रिर्योऽस्य भक्तितः ॥
प्रदक्षिणां वितनुते स मे सारूप्यभाग्भवेत् ॥ ५१ ॥
गिरेः प्रदक्षिणेनास्य यस्य धत्तः पदे रुजम् ॥
स सम्राट्सकलोत्कृष्टं लभते शाश्वतं पदम् ॥ ५२ ॥
इति शासनतः शम्भोः शोणशैलप्रदक्षिणम् ॥
विधाय सर्वगीर्वाणा लेभिरे स्वं स्वमीप्सितम् ॥ ५३ ॥
युवामपि मदोद्भूतमालिन्यौ शिक्षितौ मया ॥
प्रदक्षिणेन शोणाद्रेः शापान्तो वां भविष्यति ॥ ५४ ॥
तिरश्चोरपि वां सिध्येदरुणाद्रेः प्रदक्षिणा ॥
वज्राङ्गदस्य पाण्ड्यस्य नृपतेरनुबन्धतः ॥ ५५ ॥
इत्यमर्षणमहर्षिमहाब्धेः शापहालहल शोषितगात्रौ ॥
पातितौ बहुलपातकभारात्क्षिप्रमश्वमृगजातिषु जातौ ॥ ५६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ऽरुणाचलप्रदक्षिणामाहात्म्ये वज्राङ्गद वृत्तान्तवर्णनं नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥ ॥ ॥