०२१ शिवकृतपार्वतीप्रशंसावर्णनम्

॥ नन्दिकेश्वर उवाच ॥ ॥
तदा ब्रह्मा सरस्वत्या महाविष्णुश्च पद्मया ॥
शक्रः पुलोमसुतया परे दिक्पालका अपि ॥ १ ॥
गन्धर्वाप्सरसां सङ्घा वसवोऽपि सुरा अपि ॥
त्रयस्त्रिंशत्कोटिगणाः परे मुनि गणा अपि ॥ २ ॥
एकादशमहारुद्रा आदित्या द्वादशापि च ॥
भैरवाश्च पिशाचाश्च वेतालाः कटपूतनाः ॥ ३ ॥
यक्षरक्षोरगा भूता ये चान्ये शिवकिङ्कराः ॥
सन्तोषभाजः सर्वेऽपि विकटाकारवेष्टिताः ॥ ४ ॥
परिवार्य महेशानं समाजग्मुः सहस्रशः ॥
तद्वीराशंसनं दृष्ट्वा योगिनीदानवैः कृतम् ॥ ५ ॥
अतीव विस्मयं भेजुः सर्वे कल्पान्तभीषणम् ॥
कृतसान्निध्यमालोक्य देवमानन्दयन्त्युमा ॥ ६ ॥
चिररात्रप्ररूढां च तद्वियोगव्यथां जहौ ॥
रोमाञ्चिता स्विन्नमुखी वेपमाना घनस्तनी ॥ ७ ॥
पादाङ्गुलीषु नयने विनिवेशयति स्म सा ॥
वृषभादवरुह्याथ गृहीत्वैनां करे शिवः ॥
स्मितशरीरकण्ठश्रीप्रणयेनैवमब्रवीत् ॥ ८ ॥
॥ शिव उवाच ॥ ॥
व्याकुलीक्रियते देवि किमेवं कारणं विना ॥ ९ ॥
सर्वैराराधनीयेति मयापि घटितोञ्जलिः ॥
किं न वेत्स्यावयोरैक्यं ज्योत्स्नाचन्द्रमसोरिव ॥ 1.3.2.21.१० ॥
अनादिसिद्धं देवेशि तवेदं मौग्ध्यमीदृशम् ॥
क्वेदं शिरीषमृद्वङ्गि शरीरं ते गिरीन्द्रजे ॥ ११ ॥
तपः समाधयश्चेति क्व कर्कशजनोचिताः ।
नारायणोहं लक्ष्मीस्त्वं ब्रह्मास्मि त्वं सरस्वती ॥ १२ ॥
वारुणी त्वं फणीन्द्रोहं रोहिणी त्वमहं शशी ॥
स्वाहा त्वं हव्यवाहोऽहं सूर्योऽहं त्वं सुवर्चला ॥१३॥
जाह्नवी त्वं समुद्रोऽहं मेरुरस्मि त्वमुर्वरा ॥
पुलोमजा त्वं शक्रोहं त्वं रतिश्चित्तभूरहम् ॥ १४ ॥
बुद्धिस्त्वं राजराजोहं त्वं शमाऽहं समीरण ॥
पाथोधिपोऽहं वीचिस्त्वं प्रकृतिस्त्वं पुमानहम् ॥ १५ ॥
विद्या त्वं वेदितव्योऽहं वाक्त्वमर्थोपि पार्वती ॥
ईश्वरोऽहं मदंशासि त्वयैवाज्ञास्वरूपया ॥ १६॥
सृष्टि स्थित्युपसंहारविधानानुग्रहेश्वरे ॥
न भेदोऽतस्त्वया कार्यः पृथग्जनवदावयोः ॥ १७ ॥
चित्प्रकाशात्मनोर्देवि स्वेच्छाधृतशरीरया ॥
व्याकुलीकुरुषे शश्वद्वृथैवेर्ष्यायसे हि माम् ॥ १८ ॥
दृष्टाप्रतिक्रिया तस्य क्रियते याधुना मया॥
इत्युक्त्वेशो निषण्णस्तां पार्श्वदेशे न्यवेशयत् ॥ १९ ॥
गौरीं स्वकीय एवाङ्गे गूहमानामिव ह्रिया ॥
अङ्गद्वयं तयोरैक्यमगात्प्रेम्णा च लीनयोः ॥ 1.3.2.21.२० ॥
अर्थद्वयमिवाह्नाय सन्निकर्षोपलम्भतः ॥
अर्धे कर्पूरधवलमर्धे सिन्धूरपाटलम् ॥ २१ ॥
तद्विचित्रमभूदङ्गं शिवयोरेकतां गतम् ॥
अर्धे कुन्तलदामार्धहारमध्ये तु कुञ्चिका ॥२२ ॥
अङ्गादर्धेन्दुचूडस्य वपुरर्धेन्दुकूलितम् ॥
एकनूपुरताटङ्कपरिहार्यमनोहरम् ॥ २३ ॥
एकपिङ्गलसध्रीचो गात्रमेकस्तनं बभौ ॥
देव्यै दत्त्वा च धामार्थं वामदेवो जगाद ताम् ॥ २४ ॥
अवकाशो रुषो देवि मा भूरतः परं तव ॥
स्तन्यार्थिनं गुहं हित्वा यातासि तपसे यतः ॥ २५ ॥
तदपीतस्तनीनाम्ना निवसात्र ममान्तिके ॥
त्वामपीतस्तनीं देवीं शोणाद्रीशं च मामपि ॥ २६ ॥
जनाः सर्वे समाराध्य रमन्तां भोगमोक्षयोः ॥
इयं त्वदंशजा देवी दुर्गा महिषसूदिनी ॥ २७ ॥
अत्रैव सन्निधत्तां तु मन्त्रसिद्धिप्रदा नृणाम् ॥
खड्गतीर्थमिदं पुण्यं सकृदेव निमज्जनात् ॥ २८ ॥
सर्वरोगहरं पुंसामस्तु सर्वाघनाशनम्॥
प्रवालगिरिनाथश्च देवोऽयं पापनाशनः॥२९॥
भक्तिश्रद्धावतां नॄणां भूयास्तां भूतये भृशम्॥
अयं च गौतमो देवि त्वदनुग्रहभाजनम्॥ ॥1.3.2.21.३०॥
तपोनुरूपं भजतां लोकेष्वाचन्द्रतारकम् ॥
इमाश्च मातरः सप्त सप्तलोकैकमातरः ॥३१॥
अद्यप्रभृति कुर्वन्तु सान्निध्यं जगतां श्रियै ॥
शास्तारो भैरवाः क्षेत्रपालका बटुका अपि ॥ ३२ ॥
अरुणक्षेत्र एवात्र नित्यं कुर्वन्तु सन्निधिम् ॥
अत्राहमरुणक्षेत्रे निवसाम्यरुणाह्वयः ॥ ३३ ॥
त्वयाप्यरुणया देव्या स्थातव्यं करुणार्द्रया ॥
ईप्सिनामरुणादेवौ सान्निध्यं कुरुतो यतः ॥ ३४ ॥
तदस्मिन्नरुणक्षेत्रे सुलभाः सर्वसिद्धयः॥ ३५ ॥
इदं कृतं पर्वतराजपुत्र्या प्रसादनं शोणगिरीश्वरस्य ॥
शृणोति यः स द्विषतो विधूय स्वर्गापवर्गौ सुलभावुपेयात् ॥ ३६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवकृतपार्वतीप्रशंसावर्णनन्नामैकविंशतितमोऽध्यायः ॥ २१ ॥