॥ मार्कण्डेय उवाच ॥ ॥
अहो महिषदैत्यस्य दुराचारत्वमीदृशम् ॥
अहो दुरितहारिण्या दुर्गायाश्च पराक्रमः ॥ १ ॥
एवं तया भद्रकाल्या निहते महिषासुरे ॥
किं चकार गिरीन्द्रस्य नन्दिनी तपसि स्थिता॥ २ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
अनन्तरं सा हस्तेन दधती दैत्यमस्तकम् ॥
ननाम गौरीमन्येन पाणिना खङ्गधारिणा ॥ ३ ॥
अथ हर्षेण नृत्यन्तीं तामालोक्य दयार्द्रया ॥
दृष्ट्या देवी जगादैनां दन्तांशुद्योतिताम्बरा ॥ ४ ॥
त्वयातिदुष्करं कर्म निर्मितं विन्ध्यवासिनि ॥
जातं तव प्रभावेन निष्प्रत्यूहं च मे तपः ॥ ५ ॥
अथैतन्माहिषं शीर्षमपवित्र भयङ्करम् ॥
जगत्पवित्रचारित्रे त्यक्तुमर्हसि हस्ततः ॥ ६ ॥
इति गौर्योदिता दुर्गा जुगुप्साकुलमानसा ॥
मूर्ध्नस्तस्य निपाताय व्यधुनोद्बहुशः करम् ॥ ७ ॥
तीर्थमुत्पाद्यतां देवि नवं पापविनाशनम् ॥
तस्मिन्निमज्जनाद्दुर्गे प्रायश्चित्तं भविष्यति ॥ ८ ॥
इतीरिता गौतमेन दुर्गा दुरितशङ्किनी ॥
पाटयामास खङ्गेन शिलापट्टं पटीयसा ॥ ९ ॥
पातालावधि निर्भिन्नात्पाषाणतलतस्ततः ॥
उदजृम्भत्तरङ्गाम्भः सच्चित्तमिव निर्मलम् ॥ 1.3.2.20.१० ॥
ममज्ज सापि गम्भीरे तस्मिन्नम्भसि पावने ॥
नमः शोणाद्रिनाथायेत्युक्त्वा मन्त्रमनुत्तमम् ॥ ११ ॥
तावन्महिषकण्ठस्थं लिङ्गं तद्गलितं तले ॥
तटे प्रतिष्ठितं जातं पापनाशनसञ्ज्ञया ॥ १२ ॥
उन्ममज्ज ततो दुर्गा तीर्थाम्भोधूतकल्मषा ॥
निपपाताथ तत्पाणेर्महिषासुरमस्तकम् ॥ १३ ॥
कृतप्रदक्षिणा नत्वा पापनाशनमीश्वरम् ॥
पुरस्तादस्ति सा गौर्या गौतमेनाभिनन्दिता॥१४॥
एवं प्रत्यक्षनिरतपापां तां वीक्ष्य पार्वती॥
जगाद दीर्घतपसं जगतीधरनन्दिनी॥१५॥
महिषासुरसंहारेंऽजसा स्वनुमतिः कृता ॥
विन्ध्यवासिनीयमहो दुष्टमाहिषविग्रहम् ॥ १६ ॥
गृहीत्वा भक्षयामास तस्य लिङ्गमिदं शिवम् ॥
प्रायश्चित्तं ततो ब्रूहि ममापि मुनिसत्तम ॥१७ ॥
॥ गौतम उवाच ॥ ॥
देवि सर्वजगत्सर्गस्थितिसंहारकारिणि ॥
त्वद्ध्यानमेव जगतां सर्वपातकनाशनम् ॥ ॥ १८ ॥
अथापि लौकिकं वृत्तमवलम्ब्य त्वयेरितम् ॥
स्वकृतापि हि मर्यादा न महद्भिर्विलङ्घ्यते ॥ १९ ॥
अन्तःकरणकालुष्यक्षालिनी काचन क्रिया ॥
कथ्यतेऽद्य मया मातरवधानं विधीयताम् ॥ 1.3.2.20.२० ॥
अरुणाद्रिरयं साक्षादनलाद्रिस्तिरोहितः ॥
ज्वलतिज्योतिषा स्वेन कृत्तिकापूर्णिमा निशि ॥ २१ ॥
तत्सपर्यातपश्चर्या कार्या कात्यायनि त्वया ॥
तज्ज्योतिर्दर्शनात्सर्वमभीष्टं तव सिध्यति ॥ २२ ॥
इत्युक्ता गौतमेनाम्बा तदाप्रभृति दारुणा ॥
इयं च शिवभक्ता हि शिवपूजारता तदा ॥ २३ ॥
तपश्चचार पञ्चानामग्नीनां मध्यमाश्रिता ॥
चतुर्णां शिखिनां मध्ये स्थिता सूर्यनिविष्टदृक् ॥ २४ ॥
रेजे हैमी शलाकेव द्योतमाना गिरीन्द्रजा ॥
अथाकृष्टेवपार्वत्याः प्रेमपाशैर्निरायतैः ॥ २५ ॥
सा कार्त्तिकी पौर्णमासी समापेदे शुभा तिथिः ॥
ततस्तस्य दिनस्यान्ते शृङ्गे शोणमहीभृतः ॥ २६ ॥
अदर्शि किमपि ज्योतिरनुपाधिकवैभवम् ॥
तदर्थोपगतैर्ब्रह्ममधुभिद्वासवादिभिः ॥ २७ ॥
उपास्यमानमभितो देवैर्दिव्यर्षिसङ्गतैः ॥
तदनिन्धनमस्नेहमदशावर्तिसम्भवम् ॥ २८ ॥
महाप्रदीपमालोक्य विस्मयं प्राप पार्वती ॥
कृतप्रदक्षिणा साथ प्रणमन्ती पदेपदे ॥
अरुणाद्रीश्वरं नाथं तुष्टा तुष्टाव शैलजा ॥ २९ ॥
नमस्ते मेरुचापाय कैलासाचलवासिने ॥
नीहारशैलजामात्रे शोणक्ष्माधररूपिणे ॥ 1.3.2.20.३० ॥
वरुणादिसुरार्च्याय तरुणादित्यवर्चसे ॥
अरुणाचलनाथाय करुणामूर्त्तये नमः ॥ ॥ ३१ ॥
जय जह्नुसुताचन्द्र लेखालङ्कृतशेखर ॥
सौन्दर्यमोहिताशेषमुनिपत्नीजनाशय ॥ ३२ ॥
जय शैलसुतासङ्गसम्भृतानङ्गवैभव ॥
माया नारायणाभोगक्रीडाम्रेडनपण्डित ॥ ३३ ॥
जय सन्ध्यासमोपेतसम्भृतानन्दताण्डव ॥
जय गीर्वाणगन्धर्वसिद्धविद्याधरार्चित ॥ ३४ ॥
जय हेरम्बजनक जय षण्मुखवत्सल ॥
जय हैमवतीप्रार्थ्य जय पार्थिवदुर्लभ ॥ ३५ ॥
इति स्तुत्वा मुहुस्तस्मिञ्ज्योतिषि न्यस्तलोचनाम् ॥
दृष्ट्वा देवीं दयाव्याजाद्विलिल्ये वृषभध्वजः ॥ ३६ ॥
लयित्वा निजमास्थाय रूपमुत्कटसुन्दरम् ॥
आस्थाय वृषभं दिव्यममूं दृष्ट्वा शिवां शुभाम् ॥ ३७ ॥
मानातिरेकादपहाय सर्वमैश्वर्यमेवं तपसि प्रवृत्ताम् ॥
मुग्धां पुनः सान्त्वयितुं गिरीशः प्रचक्रमे पर्वतराजपुत्रीम् ॥ ३८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पार्वतीकृतारुणाचलेश्वरस्तुतिवर्णनन्नाम विंशतितमोऽध्यायः ॥२०॥छ॥ ॥