॥ नन्दिकेश्वर उवाच ॥ ॥
तावत्कुतश्चिदाकर्ण्य तत्रस्थां महिषासुरः ॥
अवज्ञातसुरारातिर्विध्वंसितपुरन्दरः ॥ १ ॥
सर्वलोकजयी सिद्धविद्याधरभयावहः ॥
दुर्निग्रहो वरादासीच्छस्त्रास्त्रैरखिलैरपि ॥ २ ॥
तीक्ष्णानामपि शापानामप्यगोचरतां गतः ॥
दर्पद्भिर्दानवैदैत्यैः कौणपैश्च निषेवितः ॥ ३ ॥
दूषको मुनिपत्नीनां धर्ममार्गोपघातकः ॥
बलात्पुलोम्नो नमुचेर्वृत्रादपि बलाधिकः ॥ ४ ॥
हिरण्यकशिपोर्वश्यो हिरण्याक्ष इवापरः ॥
तां विलोभयितुं काञ्चित्प्राहिणोत्किल दूतिकाम्॥ ५ ॥
ततः सा तापसीवेषधारिणी गिरिजां प्रति ॥
सखीसमक्ष एवेदमुवाचानुचितं वचः ॥ ६ ॥
अरारु भीषणे भीरो निवसस्यत्र किं वने ॥
विहर्तुमुचिता रम्येष्ववरोधनवेश्मसु ॥ ७ ॥
किमर्थं वाद्य चित्तं ते यौवने भोगनिःस्पृहम् ॥
निवेशितं तपसि च दैवतैरपि दुष्करे ॥ ८ ॥
हंसतूलमयीं शय्यां मुक्तामयवितानिकाम् ॥
हित्वा किमिति मृद्वङ्गि सुप्यते परुषाश्मसु ॥ ९ ॥
तपोजडो मृडो दिष्ट्या प्रागेवास्ति त्वयोज्झितः ॥
तवानुरूपो नैवान्यो विद्यते दिविषत्सु च ॥ 1.3.2.19.१० ॥
किं तु त्रैलोक्यनाथोऽस्ति महिषो दानवेश्वरः ॥
यदि द्रक्ष्यसि तं सुभ्र त्यक्ष्यस्येव क्षणात्तपः ॥ ११ ॥
किं निह्नवेन नन्वेष श्रुत्वा सर्वं चिरात्प्रभुः ॥
स प्राहिणोदुपानेतुं दूतिकां मां स्मरातुरः ॥ १२ ॥
इत्यत्यन्तविरुद्धं तां ब्रुवाणामसमञ्जसम् ॥
देव्याश्चित्तस्थितिं ज्ञात्वा विजया निरकासयत् ॥ १३ ॥
सा चातिरोषेण कृतप्रतिज्ञा दैत्यरूपिका ॥
गत्वा विदितवृत्तान्तमकरोन्महिषासुरम् ॥ १४ ॥
सोऽपि तत्सर्वमाकर्ण्य रुषातीवारुणेक्षणः ॥
देवीं जिघृक्षुरभ्यागाद्वृतो दैतेयकोटिभिः ॥ ॥ १५ ॥
स्यन्दनैर्द्विरदैरश्वैः पत्तिभिश्च समन्ततः ॥
भुवमाच्छादयामास ध्वजैश्च गगनान्तरम् ॥ १६ ॥
क्ष्वेलितैर्वाद्यघोषैश्च नभः स्फुटदिवाभवत् ॥
पादाघातैश्च दैत्यानां विदद्रे वसुधातलम् ॥ १७ ॥
करालो दुर्द्धरस्तस्य विचष्णुर्विकरालकः ॥
बाष्कलो दुर्मुखश्चण्डः प्रचण्डश्चामरासुरः ॥ १८ ॥
महाहनुर्महामौलिरुग्रास्यो विकटेक्षणः ॥
ज्वालास्यो दहनश्चेमे सेनान्योपि प्रतस्थिरे ॥ १९ ॥
कोलाहलमिमं श्रुत्वा देवी नियमविघ्नतः ॥
शङ्किता दैत्यसंहृत्यै दुर्गामादिशति स्म सा ॥ 1.3.2.19.२० ॥
सारुणाद्रिरहोद्रोण्यामधिरूढा मृगाधिपम् ॥
दीप्तायुधधरैर्दोर्भिः कालिकेव महीं गता ॥ २१ ॥
घनाघनरवोदग्रं सिंहनादमचीकरत् ॥
स्फुरद्दन्तच्छदोपान्तं वल्गदङ्गुलिपल्लवा ॥ २२ ॥
स्वाङ्गेभ्यो योगिनीचक्रं मातरोऽप्यसृजन्रुषा ॥
देव्याः प्रियाय दैतेयसंहारार्हाः सहस्रशः ॥ २३ ॥
काश्चित्तत्रारुणच्छाया दण्डिन्यो हंसवाहनाः ॥
मुखैश्चतुर्भिराजग्मुः कोपप्रस्फुरिताधरैः ॥ ॥ २४ ॥
निर्ययुः काश्चन क्रुद्धा ज्वलत्त्रिशिखपाणयः ॥
निस्वनद्भूषणाः पंसल्ललाटा वृषवाहनाः ॥ २५ ॥
निर्जग्मुरपराः सेनासहिताः शिखिवाहनैः ॥
शक्तिदण्डाभयकराः शतशः षड्भिराननैः ॥ २६ ॥
निश्चक्रमुः परास्तार्क्ष्यमधिरुह्याधिकक्रुधा ॥
शङ्खचक्रधराः सूर्यचन्द्रमोभ्यां दिवो यथा ॥ ॥ २७ ॥
प्रतिष्ठन्ते तथा व्याघ्रवाहाः कुवलयत्विषः ॥
पोत्रैः सद्घर्घरारावैर्बिभ्रत्यो मुसलं हलम् ॥ २८ ॥
रोषारुणसहस्राक्ष्यो वलक्षद्विपवाहनाः ॥
प्रतस्थिरे शातकोटिशतकोटिधराः पराः ॥ २९ ॥
अश्वारूढा समापेतुरेकाः सौदामिनीनिभाः ॥
खड्गखेटकधारिण्यः कोपेन कपिलाननाः ॥ ॥ 1.3.2.19.३० ॥
ताश्च कोटिचतुःषष्टिमसुरानाश्रमाद्बहिः ॥
अरुन्धन्प्रसभं ध्वान्तराशीनिव रवेस्त्विषः ॥ ३१ ॥
ततश्च योगिनीचक्रदानवानीकयोर्मिथः ॥
प्रावर्त्तत रणं घोरं मुष्टामुष्टि कचाकचि ॥ ३२ ॥
सायकैर्योगिनीमुक्तैर्दलिता दैत्यमौलयः ॥
आच्छादयन्महीपृष्ठं स्थलजानीव सर्वतः ॥ ३३ ॥
प्रसस्रू रक्तसरितो लगत्कैशिकशैवलाः ॥
लुठद्विपाठपाठीनाः स्मरैर्देवीमुखाम्बुजैः ॥ ३४ ॥
वेतण्डतुण्डान्यारुह्य सौधानिव पिशाचिकाः ॥
प्रचण्ड ताण्डवाः पीतरक्तमद्याश्चकाशिरे ॥ ३५ ॥
कपालैर्दैत्यवीराणामघासुरसृगासवान् ॥
क्रीडड्डमरुकाकारैर्डामरैर्योगिनीगणाः ॥ ३६ ॥
परिजह्रुस्तथान्त्राणि कङ्कौघाः पाशशङ्कया ॥
क्षुधिता अपि मांसानि सशल्यान्यजहुः शिवाः ॥ ३७ ॥
सिद्धविद्याधरोन्मुक्तमन्दारप्रसवासवैः ॥
इयाय शान्तिं भूरेणुः सङ्ग्रामे क्षोभसम्भवः ॥ ३८ ॥
विरेजुर्योगिनीमुक्तैर्देहलग्नैर्द्विषां हयाः ॥
अमर्षातिशयोत्क्षिप्तैः शल्यैः शल्यमृगा इव ॥ ३९ ॥
दण्डैः केचित्परे शूलैर्निशितैः केऽपि शक्तिभिः ॥
चक्रैरन्ये हलैरेके कतिचिच्छतकोटिभिः ॥ 1.3.2.19.४० ॥
योगिनीनां परे खड्गैर्दलिता दानवेश्वराः ॥
निःशेषतामुपाजग्मुर्विना सेनाधिपान्निजान्॥ ४१ ॥
ब्राह्मी स्वयमुपागम्य विहितायोधनावधीत् ॥
करालं विकरालेन दण्डेन ज्वलिता चिरात् ॥ ४२ ॥
माहेश्वरी त्रिशूलेन सुचिरं कृतसङ्गरा ॥
चकर्त दुर्द्धरस्याशु मूर्द्धानमतिरोषणा ॥ ४३ ॥
शक्त्या लुलाव कौमारी चिक्षुरासुरमस्तकम् ॥
चक्रेण चालुनान्मौलिं विकरालस्य वैष्णवी ॥ ४४ ॥
बाष्कलस्याशु वाराही मुसलेनालुनाच्छिरः ॥
दुर्मुखं चाशु वज्रेण व्यधादैन्द्री गतायुषम् ॥ ४५ ॥
ख्यातं यस्याश्च नामेदं तयोरेव निदूषनात् ॥
चामुण्डा चण्डमुण्डौ च मण्डलाग्रेण चिच्छिदे ॥ ४६ ॥
प्रचण्डचामरौ वीरौ महामौलिं महाहनुम् ॥
उग्रास्यविकटाक्षौ च ज्वालास्यदहनावपि ॥ ४७ ॥
अनुजग्मुः क्रुधा यान्तं युद्धाय महिषासुरम् ॥
कालनेमिप्रभृतयो विप्रचित्तिमिवासुराः ॥ ४८ ॥
शिरस्त्रवन्तो रथिनः सुनिषङ्गा धनुर्धराः ॥
उद्भूतकटकाः प्रापुर्युद्धभूमिं चलद्ध्वजाः ॥ ४९ ॥
समन्तात्पूरितदिशः सिंहनादैर्भयङ्करैः ॥
पृषत्कवर्षिणो मातृमण्डलान्यभिदुद्रुवुः ॥ 1.3.2.19.५० ॥
ताश्च तैर्बलिभिः कृत्वा सङ्ग्रामं निस्सहत्वतः ॥
दुर्गां प्रपेदिरे देवीं शरणं सिंहवाहनाम् ॥ ५१ ॥
उक्त्वा मायालुलायस्य दुर्जयत्वं दुरात्मनः ॥
देवी तां तुष्टुवुर्दुर्गामेवं सप्तापि मातरः ॥ ५२ ॥
योगनिद्रेति रूपेण विष्णोर्नयनपद्मयोः ॥
त्वया निलीयते देवि मधुकार्येव लीलया ॥ ५३ ॥
अमूमुहस्तं न तथा मातश्च मधुकैटभौ ॥
कथं जघान तौ विष्णुस्तयोरेवाभ्यनुज्ञया ॥ ५४ ॥
त्वं कौशिकी न चेज्जाता मृत्युः शुम्भनिशम्भयोः ॥
कथं तु लोकपालानामैश्वर्यं देवि एष्यति ॥ ५५ ॥
विन्ध्यवासिनि विन्ध्येन किमवन्ध्यं कृतं तपः ॥
यत्र मैत्री किरातीभिरपि लभ्या त्वया समम् ॥ ५६ ॥
कापिशायनमापीतं धनदोपायनीकृतम् ॥
त्वयाम्ब नीतं दैत्यानां रसैर्नियतमानवैः ॥ ५७ ॥
ब्रह्मणः सृष्टिशक्तिस्त्वं स्थितिशक्तिर्मधुद्विषः ॥
अम्ब संहारशक्तिश्च रुद्रस्यापि प्रगल्भसे ॥ ५८ ॥
यशोदानन्दजाता त्वमेकानंशेति नामतः ॥
कंसाद्यसुरसंहारे हरेः साह्यं करिष्यसि ॥ ५९ ॥
त्वं विद्या त्वं महामाया त्वं लक्ष्मीस्त्वं सरस्वती ॥
त्वं देवी पार्वतीशापि दुर्गे किं वा न जायसे ॥ 1.3.2.19.६० ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
स्तोत्रेणानेन मातृभ्यो दुर्गा दत्ताभया स्वयम् ॥
महिषासुरयुद्धाय सन्तुष्टा निर्ययौ तदा ॥ ६१ ॥
प्रचण्डमण्डलाग्रेण भिण्डिपालेन चामरम् ॥
महामौलिं क्षुरिकया कर्परेण महाहनुम् ॥ ६२ ॥
उग्रवक्त्रं कुठारेण शक्त्या विकटचक्षुषम् ॥
ज्वालामुखं मुद्गरेण दहनं मुसलेन च ॥ ६३ ॥
निहत्य महिषस्याग्रे सरोषं युध्यती स्वयम् ॥
सिंहनादं महाघोरं चक्रेण मुदिताशया ॥ ६४ ॥
अथात्यमर्षितो दुर्गां विशिखैर्महिषासुरः ॥
विव्याध फालफलके स्तनयोर्गडयोरपि ॥ ६५ ॥
ततो दुर्गाथ संरम्भात्प्रजहारासुरेश्वरम् ॥
बाह्वोर्वक्षसि वक्त्रे च क्षुरप्रैः प्रज्वलत्फलैः ॥६६॥
ततो दैत्यस्त्रिभिर्दुर्गां जघान विशिखैर्मुखे ॥
पञ्चभिः पञ्चभिर्बाह्वोर्द्वाभ्यां द्वाभ्यां च नेत्रयोः ॥ ६७ ॥
एकेन सारथिं रथ्यानष्टभिः कार्मुकं त्रिभिः॥
चतुर्भिश्च ध्वजं तस्य दुर्गा चिच्छेद सायकैः ॥ ६८ ॥
पदातिरथ दैत्येन्द्रः शतघ्नीं ज्वलदाकृतिम् ॥
कालदण्डप्रतीकाशां दुर्गां प्रति विमुक्तवान् ॥ ६९॥
हाहाकुर्वस्तु देवेषु विद्राणे मातृमण्डले ॥
तामापतन्तीमादाय दुर्गा जग्राह लीलया ॥1.3.2.19.७० ॥
कृपाणमङ्कुशं पाशं भुशुण्डीं करवालिकाम् ॥
शङ्कुं शक्तिं गदां चक्रं तोमरं फलकं सृणिम् ॥ ७१ ॥
परश्वधं भिण्डिपालं पट्टिशं लगुडं च सः ॥
दुर्गां प्रति विचिक्षेप क्षयाम्भोद इवाशनिम् ॥ ७२ ॥
आपतन्त्येव शस्त्राणि क्षिप्तान्यादाय वैरिणाम्॥
बभञ्ज पाणिभिः स्वैरं करिणीवेक्षुकाण्डकम्॥७३॥
दुर्गोपवाह्यः सिंहोऽपि लाङ्गूलाग्रेण मुद्रितम् ॥
दंष्ट्रया दारयामास प्रहरन्नखपङ्कजैः ॥ ७४ ॥
क्षणं सिंहः क्षणं क्रोडः क्षणं व्याघ्रः क्षणं गजः ॥
क्षणं च महिषो भूत्वा दैत्यो दुर्गामयोधयत् ॥ ७५ ॥
महिषोऽथ विषाणाभ्यां तीक्ष्णाभ्यामत्यमर्षितः ॥
ताडयामास सिंहं च देवीमपि मुहुर्मुहुः ॥ ७६ ॥
क्षणं गगनमध्यस्थः क्षणं प्राप्तो महीतले ॥
क्षणं दिक्षु भ्रमन्प्राप्तः क्षणं चादृश्यतां गतः ॥७७॥
प्रार्थिता मातृचक्रेण दुर्गा महिषदानवम् ॥
अमोघेन त्रिशूलेन दारयामास सस्मिता ॥ ७८ ॥
मुक्तघर्घरनिर्घोषो यावत्पतति दानवः ॥
तावदस्य हठेनाङ्घ्रिं स्कन्धपीठे न्यवेशयत् ॥ ७९ ॥
कण्ठपीडनतो यातजीवितस्यामरद्रुहः ॥
छिन्नमूर्द्धानमादाय पाणिनाथ ननर्त्त सा ॥ 1.3.2.19.८० ॥
इति दुर्गया समिति कासरासुरे दलिते समस्तभुवनैककण्टके ॥
ननृतुः सुराः प्रजहृषुर्महर्षयो ववृषुश्च दिव्यकुमुमानि वारिदाः ॥ ८१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्यउत्तरार्धे देव्यास्तपश्चर्यायां दुर्गाकृतमहिषासुरवधवर्णननामैकोनविंशोऽध्यायः ॥ १९ ॥ ॥ छ ॥