०१८ पार्वतीकृतारुणाचलेश्वरपरिचरणवर्णनम्

॥ नन्दिकेश्वर उवाच ॥ ॥
गार्हस्थ्यं बिभ्रती भर्तुरेकाम्रतलवासिनः ॥
पक्वान्नपानैस्सा तत्र पर्य्यतर्पयत प्रजाः ॥ १ ॥
जातु सन्ध्यानुसन्धानमुकुलीकृतलोचनम् ॥
बद्धाञ्जलिपुटं देवमद्राक्षीदद्रिनन्दिनी ॥ २ ॥
ध्यायते नूनमधुना कापि सौभाग्यशालिनी ॥
क्रियते यन्मयि प्रेम तन्मन्ये वचनं महत् ॥ ३ ॥
कथं विज्ञायते पुंसां कुटिला मानसी स्थितिः ॥
मिथ्योपचाराद्दक्षेण वञ्चितास्म्यमुना भृशम् ॥ ४ ॥
मयि दाक्षिण्यमेवास्य मन्ये मनसि चेद्रहः ॥
जनः सौभाग्यवान्यस्माद्भवति स्नेहभाजनम् ॥ ५ ॥
अद्यप्रभृति ते दासस्तपोभिः क्रीत इत्यपि ॥
मुग्धेन्दुशेखरेणास्मि विप्रलब्धा स्मरारिणा ॥ ६ ॥
असमानानुरागेषु नारीणां मूढचेतसाम् ॥
सौभाग्यगर्वो लोकेषु परिहासाय केवलम् ॥ ७ ॥
इति प्रणयरोषेण देव्याः कलुषचेतसः ॥
हव्यवाहातपालीढमिवाननमलक्ष्यत ॥ ८ ॥
वाष्पवारिप्लवे तस्या आताम्रे च विलोचने ॥
नीलोत्पले जलापूर्णे इव भूम्ना विरेजतुः ॥ ९ ॥
यत्तस्याधीनतिलकं भ्रुवोर्युगमभज्यत ॥
द्वेधाकृतमिवादर्शि मन्मथस्य शरासनम्॥ 1.3.2.18.१० ॥
अन्तर्मन्युभरेणास्याः कम्पते स्माधरच्छदः ॥
मुहुः प्रवालस्थायीव रक्ताशोकस्य पल्लवः ॥११॥
अतीव रज्यमाने तत्पार्वत्या गण्डमण्डलम् ॥
शाणावघर्षमाणिक्यदर्पणप्रतिमं बभौ ॥ १२ ॥
अन्तर्वेपधुतौ तस्याश्चकम्पाते पयोधरौ ॥
पद्मकोशाविवान्तःस्थ चञ्चरीकप्रचालितौ ॥ १३ ॥
अचिन्तयच्च सम्भूय सौभाग्याभावतो ननु ॥
ममायमन्यस्त्रीचिन्तां कुरुते चन्द्रभूषणः ॥ १४ ॥
तदैषा क्वापि यास्यामि किमत्रास्त्येकया मम ॥
तपस्यते च सौभाग्यमर्जनीयं मयाधुना ॥ १५ ॥
निमीलिताक्षिण्येवास्य गन्तव्यं निभृतं मया ॥
न चेन्मां वारयत्येष कण्ठादुपरि भाषितैः ॥ १६ ॥
वत्सौ तु वर्धयत्येव गङ्गेयमतिवत्सला ॥
देवस्तु न स्मरत्येव मामन्यस्त्रीपरायणः ॥ १७ ॥
इति निश्चित्य देवस्य पार्श्वादाशु निवृत्त्य सा ॥
अनिर्दिश्य दिशं काञ्चिद्यातुं व्यग्रा प्रचक्रमे ॥ १८ ॥
चलावती माल्यवती मालिनी विजया जया ॥
वारिता अपि संरम्भात्स्वामिनीमन्वयुः स्वयम् ॥ १९ ॥
तत्र सापि गिरीन्पुण्यान्वनानि नगराणि च ॥
सरांसि सरितश्चैषा विचचार समन्ततः ॥ 1.3.2.18.२० ॥
भ्रमन्ती सह्यपादेषु द्राविडाख्ये सुनीवृति ॥
तीर्त्वा शक्त्यापगां देवी विजयां समभाषत ॥ २१ ॥
दृश्योऽयं नातिदूरेण पुरस्तात्सकलारुणः ॥
शृङ्गैस्संलक्ष्यतेऽष्टाभिर्नूनं माहात्म्यवान्गिरिः ॥ २२ ॥
उपत्यकासु चैतस्य दृश्यन्ते तापसाश्रमाः ॥
अतीव पावनाः शान्ताः पुण्यारण्यमनोहराः ॥ २३ ॥
गत्वा निरूपयामस्तानिमान्पुण्याश्रमान्वयम् ॥
प्रसीदतितरां चेत एषां सन्दर्शनेन मे ॥ २४ ॥
एवमाह्रादयत्यालि क्रमेण गिरिनन्दिनी ॥
तस्याद्रेर्जग्मुषी पार्श्वमपश्यत्कञ्चिदाश्रमम् ॥ २५ ॥
लूतास्तन्तून्नयन्त्यत्र कुम्भीराः शैवलान्यपि ॥
शिशून्पुष्णन्ति नीवारैः सफरान्भूरिमायवः ॥ २६ ॥
हरन्त्यवकरान्वालैश्चमराः स्फीतरोमभिः ॥
समीकुर्वन्ति चोद्भूतैर्विषाणैर्यत्र सैरिभाः ॥ २७ ॥
वानराः फलपुष्पाणि मधुपत्राणि भल्लुकाः ॥
क्रोडाः स्नानीयमृत्स्नां च यत्रर्षिभ्यो नयन्त्यहो ॥ २८ ॥
काकोलूकैः शुकश्येनैर्मृगव्याघ्रैर्हरिद्विपैः ॥
कलापिसर्पैर्यत्रासुमार्जारैः सौहृदं श्रितम् ॥ २९ ॥
हूयमानपुराडाशद्रव्यसौरभ्यहारिणी ॥
यत्र द्रुमान्तरालेभ्यो धूम्या निर्याति पावनी ॥ 1.3.2.18.३० ॥
पठन्ति शतरुद्रीयं यत्र वायसवैरिणः ॥
गृणन्ति काकाः स्तोत्राणि साम गायन्ति सारिकाः ॥ ३१ ॥
शाकशालिषु शार्दूलाश्चरन्ति च तथैव गाः ॥
सिञ्चन्ति पुष्कराम्भोभिः कुम्भिनी यत्र पादपान् ॥ ॥ ३२ ॥
क्वचिच्च शोभने देशे पुण्ये पुण्यमनोहरे ॥
ददर्श सा तपस्यन्तं यं कञ्चिद्दृषिसत्तमम् ॥ ३३ ॥
अधस्तात्सप्तपर्णस्य चित्रव्याघ्रत्वगासने ॥
बद्धवीरासनं सम्यक्पावने कुशविष्टरे ॥ ३४ ॥
शालिशूकारुणाभाभिर्जटाभिर्भस्मपाण्डुरम् ॥
अचञ्चलाभिर्विद्युद्भिरिव शारदवारिदम् ॥ ३५ ॥
नासाग्रनिश्चलदृशं समप्रस्फुरिताधरम् ॥
आवर्त्तयन्तं रुद्राक्षमालिकामग्रपाणिना ॥ ३६ ॥
प्रत्यग्रनिर्णेजनतो ह्यन्त्यश्यानदशाञ्चले ॥
वसानं वल्कलयुगे सन्ध्याभ्रे भूभृतां यथा ॥ ३७ ॥
षड्वर्गहिंस्रबन्धाय स्थापितां वागुरामिव ॥
उपवीतत्रयीमारादुरोगर्तस्य बिभ्रतम् ॥
कृतोचितोपचारा सा तमप्राक्षीत्तपोधनम् ॥ ३८ ॥
॥ पार्वत्युवाच ॥ ॥
कस्त्वं कोऽयं गिरिवरो यत्र त्वं कुरुषे तपः ॥ ३९ ॥
स चाहारुणशैलोऽयं पुण्यक्षेत्रेषु पूजितः॥
गौतमोऽहं मुनिर्मुक्त्यै तपसाराधये शिवम् ॥ 1.3.2.18.४० ॥
इत्युक्त्वा विजयादीनां मुखेनैनामुमां विदन् ॥
प्रणम्य भक्त्या बहुशो नीतवानुटजं निजम् ॥ ४१ ॥
कन्दमूलफलाद्यैश्च कृतातिथ्यामिमां मुनिः ॥
जगन्मङ्गलमूलाय तपसे चान्वमन्यत ॥ ४२ ॥
ज्योतिःस्तम्भस्य सम्भूतिमारभ्यानुक्रमेण सः ॥
जगाद चास्यै शोणाद्रेर्महिमानमशेषतः ॥ ४३ ॥
शोणाद्रेः पूर्वदिग्भागे स्थलीश्वरमिति स्थलम् ॥
यत्र सन्निहितः शम्भुर्ज्योतिर्लिङ्गात्मतां गतः ॥ ४४ ॥
वैकुण्ठपरमेष्ठ्यादि गीर्वाण निबिडीकृते ॥
न तत्र मे तपः कर्तुमव्याक्षेपेण शक्यते ॥ ४५ ॥
अयं शोणगिरेः पादः प्रवालाचलनामवान्॥
पुण्यारण्योपरुद्धत्वाद्रहस्यत्वं विगाहते ॥ ४६ ॥
तत एवाहमत्रैव प्रतिष्ठाप्य त्रिलोचनम् ॥
आराधये यथाशक्ति तपोभिः कल्पितात्मभिः ॥ ४७ ॥
ममाश्रमसमीपेऽस्मिन्पुण्यक्षेत्रमिदं महत् ॥
क्रियतामाश्रमो देव्या कर्त्तव्यं हि तपश्चिरम् ॥ ४८ ॥
मुनेरेवमनुज्ञानात्कृताश्रमपरिग्रहा ॥
उदयुङ्क्त तपः कर्त्तुं सुमहत्पर्वतात्मजा ॥ ४९ ॥
आश्रमं रक्षितुं सत्यवतीं काननवासिनीम् ॥
शुभगां धुन्धुमारिं च प्रागाद्याशास्वतिष्ठिपत् ॥ 1.3.2.18.५० ॥
तपोवनस्य सर्वस्य रक्षार्थं सा समादिशत् ॥
दुर्गामनर्गलस्फूर्तिमाज्ञानिर्वाहणक्षमाम् ॥ ॥ ५१ ॥
अनन्तरं सा धम्मिल्लं मन्दारप्रसवोचितम् ॥
जटाभरत्वं तपसे गमयामास पार्वती ॥ ५२ ॥
हंसचिह्नदशं हित्वा दुकूलं मिहकालघु ॥
परुषं सुकुमाराङ्गी परिधत्तेस्म वल्कलम् ॥ ५३ ॥
अपि प्रसूनावचयनिस्सहाङ्गुलिपल्लवा ॥
अलावीदतितीक्ष्णाग्राण्यविकारं कुशानि सा ॥ ५४ ॥
वज्रसूचिनिर्भराङ्गैरवच्छिन्नानि कण्टकैः ॥
शिरीषमृद्वी शाण्डिल्यपल्लवान्युच्चिकाय या ॥ ५५ ॥
पावन्यां कमलानद्यां प्रातर्विहितमज्जना ॥
अर्चयामास रक्ताब्जैर्यथाविधि विभाकरम् ॥ ५६ ॥
दर्भाक्षततिलोन्मिश्रैर्गौरी श्रीनदिवारिभिः ॥
देवी निर्वर्तयामास देवर्षिपितृतर्पणम् ॥ ५७ ॥
वालुकामण्डले सूर्यमावाह्याभ्यर्च्य पङ्कजैः ॥
कृतप्रदक्षिणा गौरी प्रणनाम सहस्रशः ॥ ५८ ॥
स्वयमेव प्रतिष्ठाप्य लिङ्गं किमपि शङ्करम् ॥
आगमोक्तेन विधिना पूजयामास पार्वती ॥ ५९ ॥
आसनेन च मूर्त्या च मूलेनाङ्गैश्च सा रविम् ॥
दण्डिपिङ्गलमुख्यांश्च शक्तीर्दीप्तादिका अपि ॥ 1.3.2.18.६० ॥
तत्तद्दिक्षु च सोमादीन्ग्रहान्धेन्वादिमुद्रया ॥
तेजश्चण्डे चार्चयित्वा निर्माल्यं च न्यवेदयत् ॥ ६१ ॥
अर्घेणातीव शुद्धेन सम्प्रोक्ष्य च समन्ततः ॥
द्वारवास्तु समभ्यर्च्य न्यासानपि चकार सा ॥ ६२ ॥
भूतशुद्धिं विधायान्वगन्तर्यागं चकार सा ॥
हृदि पद्मासने चार्च्य ज्ञानधर्मादिकान्क्रमात् ॥ ॥ ६३ ॥
शक्तीर्दलेषु वामादीर्दलाग्रे सूर्यवेधसौ ॥
केसराग्रे सोमविष्णू कर्णिकाग्रेऽग्निधूर्जटी ॥ ६४ ॥
तदूर्ध्वे शक्तिचक्रं च विन्यस्तब्रह्मपञ्चका ॥
अङ्गैर्दत्त्वा च पाद्यादीनुपचर्याभिषिच्य सा ॥ ६५ ॥
प्रादाच्चन्दनपुष्पादि धूपदीपप्रदायिनी ॥
भूयोपि पञ्चब्रह्माणि षडङ्गान्यप्यपूजयत् ॥ ६६ ॥
तत्तद्दिक्षु च शक्रादीन्वज्रादींश्च विधानतः ॥
कृत्वा सर्वोपचारांश्च वितताराष्टपुष्पिकाम् ॥ ६७ ॥
पञ्चवक्त्राणि चाभ्यर्च्य कृतचण्डेश्वरार्चना ॥
प्रदक्षिणा प्रणामाद्यैर्नित्यं शिवमपूजयत् ॥ ६८ ॥
शिवागमोक्तविधिना द्रव्यैः सौभाग्यदायिभिः ॥
सा जुहाव च पूजान्ते प्रणीते जातवेदसि ॥ ६९ ॥
परिकल्पितोपचारा च कन्दमूलफलादिकैः ॥
स्वयं कृतोपचारेयमतिथीनभ्यपूजयत् ॥ 1.3.2.18.७० ॥
अङ्गुष्ठाग्रेण तिष्ठन्ती ग्रीष्ये पञ्चाग्निमध्यतः ॥
ह्रदे च शिशिरे चन्द्रपीयूषाप्यायिताऽभवत् ॥ ७१ ॥
वर्षरात्रीषु धाराभिः सह वारिधरा पुनः ॥
सौदामिनीव ददृशे तमसि स्तिमिता कृतिः ॥ ७२ ॥
पाणिपादेन पद्मानि मुखेन च कलानिधिम् ॥
प्रदर्शयत्यनायासान्निन्ये सा हैमनीर्निशाः ॥ ७३ ॥
नीवारबीजदानेन सा मृगानप्यपोषयत् ॥
अज्ञातहिंसाभिभवानाश्रमोपान्तवर्तिनः ॥ ७४ ॥
कृतालवालसलिलैः सुवालाकलशाहृतैः ॥
वात्सल्याद्वर्द्धयामास पूर्णानाश्रमपादपान्॥ ७५ ॥
प्रदक्षिणां कृतवती शोणशैलं गिरीन्द्रजा ॥
सा मनोरथसंसिद्ध्यै नित्यं सह सखीजनैः ॥ ७६ ॥
पञ्चाक्षरी जजापैषा शिवस्तोत्राण्युदैरयत्॥
दध्यौ च देवं मनसा शोणपर्वतरूपिणम् ॥ ७७ ॥
अनुदिनमरुणाचलेश्वरं सा प्रणतवती विहितप्रदक्षिणाद्यैः ॥
शिवनिगमविधानवेदिनी सा व्यरचयदद्रिसुता चिरं तपस्याम् ॥ ७८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पार्वतीकृतारुणाचलेश्वरपरिचरणवर्णनन्नामाऽष्टादशोऽध्यायः ॥ १८ ॥ ॥ छ ॥