०१७ शिवपार्वतीविहारवर्णनम्

॥ सूत उवाच ॥ ॥
इति श्रुत्वास्य वचनं मार्कण्डेयोऽभ्यभाषत ॥
॥ मार्कण्डेय उवाच ॥ ॥
श्रुतमेव मया देव श्रोतव्यं भवतो मुखात् ॥ १ ॥
तथापि कौतुकेनाहमाक्रान्तो मुनयोऽप्यमी ॥
गौर्या कथं तपस्तप्तं महादेव्यात्र कथ्यताम् ॥ २ ॥ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
कथयामि तदप्येतद्यथाऽधिगतमात्मना ॥
शृणु त्वमवधानेन मार्कण्डेय महामते ॥ ३ ॥
ननु जानासि तत्पूर्वं यथा दाक्षायणी शिवः ॥
उपयेमे सतीं नाम सतीनामधिदेवताम् ॥ ४ ॥
यथा च सा क्रुधा भर्तुर्द्रुहि दक्षप्रजापतौ ॥
योगादहासीदात्मीयं वपुरित्यपि ते श्रुतम् ॥ ५ ॥
तदा हराज्ञानिघ्नेन वीरभद्रेण यत्कृतम् ॥
अध्वरध्वंसनं दक्षस्यापि ते विदितं महत् ॥ ६ ॥
अश्रौषीस्तस्य दक्षस्य गणैः शीर्षासखण्डनम् ॥
ब्रह्माच्युतेन्द्रमुख्यानां देवानामपि शिक्षणम् ॥ ७ ॥
दन्तघातं रवेः पाणिपाटनं जातवेदसः ॥
अदितिप्रभृतीनां च दिव्यस्त्रीणां पराभवम्॥ ॥ ८ ॥
सा च देवी पुनर्जन्म लेभे हिमवतो गृहे ॥
उमेति पार्वतीत्याख्यां द्वितीयां विभ्रती पुनः ॥ ९ ॥
देवः स्थाणुवने तां च परिचर्यापरं रहः ॥
अरुरोचयिषुः काममधाक्षीत्कालवह्निना ॥ 1.3.2.17.१० ॥
जितेन्द्रियं च तं देवं क्वापि यातं गणैः सह ॥
तपोभिस्तोषयामास गौरी शिखरवासिनी ॥ ११ ॥
उपयम्याथ तां देवो वृत्तान्तैश्चित्तखण्डिभिः ॥
रमयामास चैकान्ते मोदस्वेति विलासिनीम् ॥ १२ ॥
वैधव्यखिन्नया रत्या प्रार्थिता शैलनन्दिनी ॥
कामपीठे तपस्यन्ती कामं प्रत्युददीपयत् ॥ १३ ॥
पुनश्च मेनया मात्रा पित्रा च हिमभूभृता ॥
आनीता भवनं भर्त्रा साकं चिरमरंस्त सा ॥ १४ ॥
तदा शुम्भनिशुम्भाख्यौ लेभाते वेधसो वरम् ॥
देवदानवमर्त्येषु मास्तु नौ पुरुषान्मृतिः ॥ १५ ॥
इति तद्वचनं श्रुत्वा जातत्रासैः सुपर्वभिः ॥
अभ्यर्थितोऽवदद्देवो रहश्चक्रधरादिभिः ॥ १६ ॥
माभैष्ट भद्र कालेन तथा प्रतिविधीयते ॥
यथा निषूदितौ स्यातां तादृशौ दानवाविति ॥ १७ ॥
दत्ताभयान्मुकुन्दादीन्विसृज्यान्धकसूदनः ॥
अन्तःपुरगतो रेमे देव्या सह यथा पुरा ॥ १८ ॥
कदाचिन्मर्मलक्ष्येण प्रीत्या कालीति निन्दिता ॥
तस्य प्रीत्यै कालिका च त्वचमेवाजहान्निजाम् ॥ १९ ॥
यत्रोत्क्षिप्तवती चर्म स्वेच्छया परमेश्वरी ॥
महाकाशीप्रपाताख्यं तदभूत्क्षेत्रमुत्तमम् ॥ 1.3.2.17.२० ॥
सा च त्वक्कौशिकी नाम्ना काली विन्ध्याद्रिवासिनी ॥
तपस्यन्ती वृषस्यन्तौ तो जघान महासुरौ ॥ २१ ॥
देवी च गौरी शिखरे तस्मिन्नेव मनोहरे ॥
तपोभिर्लब्धगौरीत्वाद्भर्त्तारं समतोषयत् ॥ २२ ॥
क्रमेण दौर्हृदवती भूत्वा प्रासूत पार्वती ॥
गजाननं च हेरम्बं सेनान्यं च षडाननम् ॥ २३ ॥
तौ चागमविदः प्राहुर्नारायणचतुर्मुखौ ॥
पूर्वापराधशुद्ध्यर्थं देवीगर्भसमुद्भवौ ॥ २४ ॥
वर्धमानौ च तौ बालौ पित्रोरालोकमानयोः ॥
मग्नयोरिव वर्षाब्धौ प्रेमग्रन्थिरभूद्दृढा ॥ २५ ॥
जातु वीणानिनादेन कदाचिच्चित्रलेखनैः ॥
विजह्रतुश्शिवौ स्वैरमेकदा मण्डनैर्मिथः ॥ २६ ॥
जातु विद्यागमालापैः कदाचिच्चित्रवस्तुभिः ॥
एकदा लोकवृत्तान्तैर्दम्पतिभ्यां विनोदितम् ॥ २७ ॥
पुष्पावचयनैर्जातु कदाचिद्वारिखेलनैः ॥
अदीव्यतां च रागार्द्रौ दोलाकेलिभिरेकदा ॥ २८ ॥
मैनाकेनार्चितौ जातु मेनया जातु पूजितौ ॥
जात्वर्हितौ हिमवता दम्पती तौ विनोदितौ ॥२९॥
जातु द्यूतविनोदेन गतिगोष्ठ्या कदाचन ॥
एकदा दानलीलाभिः शिवौ चिक्रीडतुश्चिरम् ॥ 1.3.2.17.३० ॥
द्यूतनिर्जितमाच्छिद्य पत्युरुत्सङ्गतां गतम् ॥
वलयीकृतमेणाङ्कं ताटङ्कीकृतवत्युमा ॥ ३१ ॥
इति तौ पितरौ चराचराणां निवसन्तौ कनकाचलादिकेषु ॥
रुचिरेषु पदेषु कामभोगानतिहृद्यान्सुचिरं किलान्वभूताम् ॥ ३२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवपार्वतीविहारवर्णनन्नाम सप्तदशोऽध्यायः ॥ १७ ॥