०१६ मन्दिरवर्णनम्

॥ ब्रह्मोवाच ॥ ॥
देवदेव तवैश्वर्यं केन शक्येत वेदितुम् ॥
विना भायैक्यसुलभं भवदीयमनुग्रहम् ॥ १ ॥
अकर्तृकाणि वाक्यानि ऐश्वर्यं ते निरत्ययम् ॥
न स्तोतुं शक्यते किं तु नमस्कुर्वन्ति दूरतः ॥ २ ॥
को विष्णुः कोऽहमेते वा दिक्पाला वासवादयः ॥
त्वमेव देव कर्त्तासि जगत्सृजनरक्षयोः ॥ ३ ॥
पतिस्त्वं पार्वतीनाथ पशवो वयमप्यमी ॥
बद्धं पाशेन मोक्तुं वा त्वमेवास्मान्प्रगल्भसे ॥ ४ ॥
षड्विंशत्तत्त्वरूपस्त्वमभितश्चाभिवर्त्तसे ॥
कोविदः को विनिर्णेतुं तव याथात्म्यमीश्वरः ॥५॥
किरातः किल देवस्त्वं सारमेयैः किलागमैः ॥
षड्वर्गहिंस्रान्संहर्तुं करोष्याखेटकौतुकम् ॥६॥
देव दक्षाध्वरे पूर्वं वरिभद्रस्त्वदाज्ञया ॥
काङ्कां शिक्षामकार्षीन्न इति कापि विडम्बना ॥ ७ ॥
तव कालाग्निरूपस्य सर्वब्रह्माण्डदाहिनः ॥
पोषणात्पुष्पचापस्य प्रायो जिह्वेति शेमुषी ॥ ८ ॥
कृतापराधः शूलेन त्वया दीर्णो जलन्धरः ॥
अन्तकोन्धकदैत्यश्च प्रतिवीरश्च कोऽस्ति ते ॥९॥
अधारयिष्यत्कण्ठेन कालकूटं न चेद्भवान् ॥
कथं च धारयिष्यामो वयं सर्वेऽपि जीवितम् ॥ 1.3.2.16.१० ॥
देवदारुवने पूर्वं मुनीन्केवलकर्मठान् ॥
प्रक्षोभ्य धूर्तवेषस्त्वं दययान्वग्रहीस्तथा ॥ ११ ॥
अङ्घ्रिणाक्रान्तवान्नो चेदत्युग्रां त्वमपस्मृतिम् ॥
तयाक्रान्तमिदं कृत्स्नमन्धकारायते जगत् ॥ १२ ॥
अर्धनारीश्वरं रूपं त्वया चेन्न प्रकाशितम् ॥
प्रभवामि कथं स्रष्टुं जगदेतच्चराचरम् ॥ १३ ॥
भवता स्तम्भितः शम्भो संरम्भाज्जम्भजिद्भुजः॥
कियन्तं हन्त कालं ते जयस्तम्भ इव स्थितः॥१४॥
भिक्षोः कपालमापूर्य रुधिरेणात्मनो हरिः॥
शूलेनोत्क्षिप्य मुमुहे ह्येतत्त्वमवधारय॥ १५॥
न चेदशिक्षयः सर्वशस्त्रास्त्राण्यनुकम्पया ॥
निर्वापयेत्कथं वैरं क्रुद्धोपि जमदग्निभूः ॥ १६ ॥
नृहरिं शरभाकारः समहार्षीन्न चेद्भवान् ॥
स एव संहरेद्विश्वं हिरण्यकशिपोरपि ॥ १७ ॥
त्वमाचकृक्षः कल्पाब्धौ कैवर्त्तो मत्स्यकच्छपौ ॥
हरिं बद्ध्वाहिराट्सूत्रैर्नृसिंहमथ सूकरम् ॥ १८ ॥
एकोने पद्मसाहस्रे स्वनेत्रेण कृतार्चनम् ॥
शूलिन्सुदर्शनं दत्त्वा दैत्यद्विषमतूतुपः ॥ १९ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
स्तुत्यैवमस्य विष्णोश्च प्रार्थनेन प्रसेदिवान् ॥
धूर्जटिः सृष्टिकर्तृत्वं पुनरस्याभ्यमन्यत ॥ 1.3.2.16.२० ॥
समँज्यासु द्विजानां च पूजनं चानुशिष्टवान् ॥
उभावप्यब्रवीदेतौ वात्सल्याच्चद्रशेखरः॥ २१ ॥
॥ श्रीशिव उवाच ॥ ॥
वत्सौ युवां न ज्ञात्वैवं भूयो भवतमुद्धतौ ॥
गुरुं स्मरतो मामेव जाग्रतं सृष्टिरक्षयोः ॥ २२ ॥
इह प्रदेशे युवयोर्यन्मयानुग्रहः कृतः ॥
पुण्यक्षेत्रमिदं पुंसां ततो मोक्षाय कल्पताम् ॥ २३ ॥
योजनत्रयमात्रेऽस्मिन्क्षेत्रे निवसतां नृणाम् ॥
दीक्षादिकं विनाप्यस्तु मत्सायुज्यं ममाज्ञया ॥ २४ ॥
यद्वा तिरश्चामप्यत्र स्थावराणां च देहिनाम् ॥
अबुद्धिपूर्विका बुद्धिरपवर्गस्य जायताम् ॥ २५ ॥
नृणां च दर्शनाद्दूरे कैवल्यं स्मरणेन वा ॥
अस्तु वेदान्तविज्ञानं न साध्यं निष्प्रयासतः ॥ २६ ॥
शुभाय तैजसी मूर्तिः स्थावरा मम शाश्वती ॥
अरुणाद्रिरिति ख्याता नित्यमेवात्र वर्त्तताम् ॥ २७ ॥
युगात्ययेपि नैनं तु मज्जयेयुर्महाब्धयः ॥
न चालयेयुर्मरुतो न दहेयुश्च वह्नयः ॥ २८ ॥
ज्योतिर्मयमिदं लिङ्गं ज्योतिःष्वपि न जातुचित्॥
क्रमन्ता निर्गमागत्या खेचराणि समन्ततः॥ २९॥
यस्यानुग्रहमिच्छामि जन्तो्तस्यात्र सम्भवः॥
देहान्ते कल्पतां मुक्त्यै विनौपनिषदीर्गिरः॥ 1.3.2.16.३०॥
एष दूरात्प्रणामेन निकर्षाच्च प्रदक्षिणात्॥
अपि पापात्मनां पुंसामस्तु निश्रेयसप्रदः ॥ ३१ ॥
अत्रैव नियतं वासाः सम्भवन्ति महात्मनाम् ॥
तस्मात्स्थलमिदं हित्वा न गन्तव्यं कदाचन ॥ ३२ ॥
शोणाचलमनादृत्य क्वचित्स्थित्वापि मुक्तये ॥
तस्माद्युवां विधिहरी वसतं चात्र नित्यशः ॥ ३३ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
इत्युक्तवन्तं कामारिं प्रणम्य विधिमाधवौ ॥
तौ व्यज्ञापयतां देवं दूरीभवदहङ्क्रियौ ॥ ३४ ॥
॥ विधिमाधवावूचतुः ॥ ॥
एवमेतज्जगदाधार जगदाधारतां गतः ॥
आस्तां गिरिरसौ किं तु तेजो ह्यस्य सुदुस्सहम् ॥ ३५ ॥
अतोयमुत्तमो रुद्र तेजः सामान्यशैलवत् ॥
तिष्ठत्वभेद्यमहिमा निश्रेयसमहाखनिः ॥ ३६ ॥
विवृणोति निजं ज्योतिर्विश्वस्यास्य समृद्धये ॥
प्रत्यब्दं कार्त्तिके मासि कृत्तिकासु दिनात्यये ॥ ३७ ॥
शर्मदोपि नृणां देव शोणाद्रिस्तव शासनात् ॥
महत्त्वादर्चितुं शक्यो न स्याद्भक्तस्य कस्यचित्॥३८॥
एतस्योपत्यकायां तदद्यारभ्यास्मदर्थनात्॥
देवेन सन्निधातव्यमवन्यां लिङ्गरूपिणा॥३९॥
तच्चारुणगिरीशानमावामाराधयावहे॥
अभिषेकानुलेपाद्यैरुपचारैर्यथाविधि ॥1.3.2.16.४०॥
सन्त्यत्र केशराश्चूता नागपुन्नागकेसराः॥
आरग्वधाः कुरबका मालूराः पाटला अपि ॥ ४१ ॥
अत्रैव सन्निधातव्यं देवदेव दयानिधे ॥
यतस्त्वद्भक्तिदार्ढ्यं नौ भवतात्त्वदुपासनात्॥४२॥
नान्यथा चित्तशुद्धिर्न्नौ देवेऽप्येवं प्रसेदुषि ॥
अनाद्यविद्यावृतये यो भविष्यति नित्यशः ॥ ४३ ॥
शोणाद्रेः पूर्वदिग्भागे स एष भृशमुन्नतः ॥
स एवालं निवासाय देवस्य हृदयङ्गमः ॥॥४४॥
साङ्गवेदा धर्मशास्त्रं पुराणानि शिवागमाः ॥
कृत्वा च सकलाः प्रोक्ता भवतैव भवावयोः ॥४५॥
निश्रेयसाय भक्तानां त्वयैव गुरुरूपिणा॥
अष्टाविंशतिराख्याता आगमाः शैवसञ्ज्ञिताः ॥ ४६ ॥
तेषु कस्य प्रकारेण कुर्वाणौ त्वदुपासनाम् ॥
कदाप्यज्ञानजामार्तिं नाधिगच्छाव शङ्कर ॥ ४७ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
इति तौ धातृगोविन्दौ पादपद्मावलम्बिनौ ॥
जगाद करुणामूर्त्तिर्जगतीभृत्सुतापतिः ॥ ४८ ॥
॥ श्रीमहादेव उवाच ॥ ॥
युक्तमुक्तमिदं भद्रौ मयाप्येवं मनीषितम् ॥
कामिकोक्तेन मार्गेण मामर्चयितुमर्हथः ॥ ४९ ॥
मोहतो विस्मृता मन्ये भवद्भ्यां शैवसंहिता ॥
अधुना मत्प्रसादेन पुनरुद्भासतां हृदि ॥ 1.3.2.16.५० ॥
॥ नन्दीश उवाच ॥ ॥
इत्युक्त्वा श्रीशवागीशौ गिरिशोऽन्तरधादथ ॥
तदा प्रादुरभूत्तत्र लिङ्गं किमपि मङ्गलम् ॥ ५१ ॥
तच्चावलोक्य साश्चर्य्यौ मुकुन्दकमलासनौ ॥
मुहुः प्रणम्य सानन्दं प्रार्च्य तुष्टुवतुश्चिरम् ॥ ५२ ॥
तावकारयतां शोणगिरिनाथस्य चालयम् ॥
नानाशिल्पाद्भुतं विश्वकर्मणा प्रचयेन च ॥ ५३ ॥
खानयामासतुस्तत्र सरः किमपि पावनम् ॥
अभिषेकाय देवस्य सर्वतीर्थमयं नवम् ॥ ५४ ॥
अरुणाख्यं पुरं चारात्कल्पयामासतुश्चिरम् ॥
सिद्ध्यै नोत्कण्ठते लब्ध्वा कैलासायापि धूर्जटिः ॥५५॥
तस्यां ब्रह्मर्षयो देवा गन्धर्वा दिव्ययोषितः ॥
सिद्धविद्याधरा यक्षाः पौरत्वं समुपाययुः ॥ ५६ ॥
तीर्थानि धार्य कूपत्वं गङ्गाद्याः सरितस्तथा ॥
नन्दनादीनि च वनान्यभवन्निष्कुटत्वतः ॥५७॥
गोलोको गोगोष्ठतया नैगमत्वं किलागमाः ॥
शैलाश्च गोपुरादित्वं स्मृतयो विधितां ययुः ॥५८॥
भूताः प्रेताः पिशाचाश्च वेतालाः कटपूतनाः ॥
प्रपन्ना मानुषं देहं तस्यां किल पृथग्जनाः ॥ ५९ ॥
देवोपि धूर्जटिस्तस्यां कौतुकी सिद्धरूपधृक् ॥
योगित्वं समुपास्थाय मात्राकौपीनमुण्डधृक् ॥1.3.2.16.६०॥
न केनचिदविज्ञातः सदा सर्वत्र दीप्यति ॥
तौ च केशवलोकेशौ जटिलौ भस्मगुण्ठितौ ॥६१॥
दान्तौ शोणाद्रिनाथं तमर्चयामासतुश्चिरम् ॥
तत्रत्यानां च सर्वेषां वर्णानामानुगुण्यतः ॥ ६२ ॥
दीक्षादिकानि चक्राते स्वयमाचार्यतां गतौ ॥
क्रमेण हृतनिर्माल्यौ सर्वागमरहोविदौ ॥ ६३ ॥
प्रातः स्नात्वा समाहृत्य पुष्पपत्रादिकं फलम् ॥
मन्त्रं चारुणनाथस्य तत एव रहः श्रुतम् ॥ ६४ ॥
जञ्जल्पाकौ जजपतुः सर्वमन्त्राधिकं सदा ॥
धूपप्रदीपनैवेद्यैर्गीतवादित्रनर्तनैः ॥ ६५ ॥
प्रदक्षिणानमस्कारैर्मुद्राबन्धैर्नवैर्नवैः ॥
आसनेन च मूर्त्त्या च मूलेन च यथाविधि ॥ ६६ ॥
पञ्चब्रह्मषडङ्गाद्यैरर्चयामासतुः शिवम् ॥
एवं वर्षसहस्राणि षोडशारुणशङ्करम् ॥ ६७ ॥
वेधोविष्णू समाराध्य शिवज्ञानमवापतुः ॥ ६८ ॥
इतीदमश्रावि मया रहस्यं पितुः शिलादस्य मुखात्पुरा यत् ॥
निवेदितं चाद्य तदेव तुभ्यं किमन्यदाकर्णयितुं मनीषा ॥ ६९ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मविष्णुकृतारुणाचलेश मन्दिरवर्णनन्नाम षोडशोऽध्यायः ॥ १६ ॥ ॥ छ ॥