०१५ ब्रह्मकृतशिवस्तुत्युद्यमवर्णनम्

॥ नन्दिकेश्वर उवाच ॥ ॥
तेजःस्तम्भं विनिर्भिद्य सन्ध्याभ्रमिव चन्द्रमाः ॥
कैलासकूटधवलं वृषेन्द्रमधितस्थिवान् ॥ १ ॥
जटाजूटवता बालचन्द्रचूडेन मौलिना ॥
कपालमालिकां वैधीं स्रजं चारग्वधी दधत् ॥ २ ॥
नागकुण्डलिभिः फालफलकोद्भासिलोचनैः ॥
पञ्चभिर्वदनैर्दीप्तैः क्ष्वेडकल्माषकन्धरैः ॥ ३ ॥
शूलं कपालं डमरुं सारङ्गं परशुं धनुः ॥
खट्वाङ्गममलं खड्गं दोर्भिर्नागं च धारयन् ॥ ४ ॥
श्वसितोद्धूलिताकारो गजचर्मोत्तरीयवान् ॥
सर्वालङ्कारसम्पन्नः सर्वदेवैरभिष्टुतः ॥ ५ ॥
परिधानीकृतव्याघ्रचर्मा ताभ्यामदर्शि सः ॥
रूपं दृष्ट्वा स आनन्दं ननर्त्त नलिनेक्षणः ॥ ६ ॥
न किञ्चिदपि जानानो मुमोह च सरोजभूः ॥ ७ ॥
दृशाभिनन्द्य माधवं प्रसन्नया महेश्वरः ॥
अथोदतिष्ठिपच्च तं सहुङ्क्रियश्चतुर्मुखम् ॥ ८ ॥
जगाद चाधिकारितामदाद्युवां समुद्धतौ ॥
न लज्जितव्यमत्र वामयं क्रमोऽधिकारिणाम् ॥ ९ ॥
परीक्ष्य वैभवं मम प्रबोधवानभूद्धरिः ॥
अयं न जातुपद्मभूश्छलन्मनो दुरात्मवान्॥ 1.3.2.15.१० ॥
अशासि पञ्चवक्त्रता यदोपहासितो ह्यहम् ॥
पुनःस्वपुत्रिकारतिर्मयैष शिक्षितोऽभवत् ॥ ११ ॥
तृतीय एष मन्तुरप्यहो कथं नु सह्यते ॥
तदस्य तु प्रतिष्ठया क्वचिन्न भूयतां विधेः ॥ १२ ॥
अयं च केतकच्छदो यदाप कूटसाक्षिताम् ॥
अतः परं न जातु तन्ममैतु मूर्ध्नि संस्थितिम् ॥ १३ ॥
शप्त्वैवमेतौ गिरिशः प्रीत्या विष्णुमभाषत ॥ ॥ १४ ॥
॥ श्रीमहेश्वर उवाच ॥ ॥
वत्स मा भैः प्रसन्नोऽस्मि भवते भक्तिशालिने ॥
ननु त्वमङ्गान्मे जातस्सात्त्विकोऽसि विशेषतः ॥
माहेश्वराग्रगण्योऽसि जगत्यां हि यथा पुरा ॥ १५ ॥
न तवातः परं जातु भक्तिहानिर्भवेन्मयि ॥
प्रतिक्षणं वर्द्धमाना कल्पते च विमुक्तये ॥ ॥ १६ ॥
इत्यनुग्रहकृतं त्रिलोचनं भक्तिभाजि निरहङ्क्रिये हरौ ॥
भीतिमानवनतः स्वयं विधिः स्तोतुमारभत क्लृप्तवन्दनः ॥ १७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये उत्तरार्धे ब्रह्मकृतशिवस्तुत्युद्यमवर्णनन्नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ॥ छ ॥