०१३ केतकच्छदप्राथनावर्णनम्

॥नन्दिकेश्वर उवाच ॥ ॥
केतकीबर्हमप्येनं विहस्य पुनरब्रवीत् ॥
॥ केतक्युवाच ॥ ॥
अपि मूढ न किञ्चित्त्वं वेत्सि कस्त्वं कुतो न तत् ॥ १ ॥
ईदृश्यः परितो लग्ना यस्मिन्ब्रह्माण्डकोटयः ॥
तस्य प्रमाणमेतावदिति को वेदितुं क्षमः ॥२॥
चतुर्युगायुतैर्यातं ततो निपततो मम॥
इदानीमपि नाप्रोति तन्मध्यं किल भूतलम् ॥३॥
इति ब्रुवाणमेनं च नमस्कृत्य सरोजभूः॥
हित्वा निजमहङ्कारमभाषत कृताञ्जलिः॥४॥
ब्रह्मोवाच॥
महात्मन्सत्यमेवास्मि मूढोऽहं केतकच्छद॥
ब्रह्मणा हि मया स्पर्द्धा विष्णुना सह निर्मिता॥ ५॥
द्वाभ्यामपीदमावाभ्यां विस्मृतं शिववैभवम्॥
यन्नौ महानभूद्गर्वस्सर्गसन्त्राणमात्रतः॥ ६॥
ह्रेपणी सङ्कथा तावदास्तामद्याप्यहं यतः ॥
स्पर्द्धया न विमुक्तोऽस्मि बद्धया गरुडध्वजे ॥ ७ ॥
सख्यं साप्तपदीनं हि कथ्यते तद्भवान्मयि ॥ ८ ॥
असंस्तुतधियं हित्वा कर्तुमर्हस्यनुग्रहम् ॥
अहं विष्णुश्च मोहान्धौ तेजःस्तम्भस्य वीक्षणात् ॥ ९ ॥
हंसकोलाकृती दध्वो मिथः साम्यं व्यपोहितुम् ॥
मूलं दिदृक्षुः स दशां कीदृशीं यातवानिति ॥ 1.3.2.13.१० ॥
न जाने मम चास्याग्रं दिदृक्षोरीदृक्षी दशा ॥
गतमुड्डीयमानस्य मे सहस्रेण हायनेः ॥ ॥ ११ ॥
जातश्रमोऽस्मि नितरां वियुज्य इव चासुभिः ॥
दिष्ट्याद्य भद्र लब्धस्त्वं मयाऽऽलम्बोवसीदताम्॥ १२ ॥
तन्मे कुरुष्व मित्रस्य सफलां याचनामिमाम् ॥
सखाहं सहसञ्जल्पादस्मि दासोनुषञ्जनात् ॥ १३ ॥
तत्त्वया करणीयैवं प्रार्थनैषा कृताञ्जलिः ॥
यदि पश्यति मूलं स जितोऽहममुना तदा ॥ १४ ॥
यद्वा न पश्यति तदाप्यस्मि साम्यमुपेयिवान् ॥
इदं द्वयमपि प्रायो ममातिह्रेपणं सखे ॥ १५ ॥
त्वयैव परिहार्यत्वमिदानीं समुपागतम् ॥
अनृतामभिभाष त्वमुचितां च सुहृत्कृते ॥ १६ ॥
गिरमेकामिमामग्रे चक्रपाणेरुदीरय ॥
एष हंसाकृतिर्ब्रह्मा तेजःस्तम्भस्वरूपिणः ॥ १७ ॥
अत्युच्चं दृष्टवानग्रमत्र साक्ष्ये स्थितोऽस्म्यहम् ॥
तेनापि तेजःस्तम्भत्वमेयुषा चन्द्रमौलिना ॥ १८ ॥
सम्भावितोयं सुतरां पित्रेव हि पितामहः ॥
अतोऽयमेवाभ्यधिको भवतो विष्टरश्रवाः ॥ १९ ॥
इत्युक्त्वा मम साहाय्यं सुमहत्क्रियतां त्वया ॥ 1.3.2.13.२० ॥ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
एवं भूयः प्रार्थितोऽयं विधात्रा दाक्षिण्यार्द्रः केतकीबर्हकोपि ॥
तेजःस्तम्भाभ्यर्णभाजे तथैव प्राहाशेषं विष्णवे ब्रह्मवाक्यम् ॥ २१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मणाऽसत्यसाक्ष्यार्थं केतकच्छदप्राथनावर्णनन्नाम त्रयोदशोऽध्यायः ॥ १३ ॥ ॥ छ ॥