॥ नन्दिकेश्वर उवाच ॥ ॥
ततस्तेजोमयं स्तम्भमनुसृत्य पितामहः ॥
उत्पपातोन्मुखो वेगान्निरालम्बे नभस्तले ॥१॥
द्रुतमुत्पततस्तस्य पक्षावेगेन वारिताः ॥
व्यशीर्यत समुद्वर्ताः प्रणुन्ना इव वायुभिः॥२॥
स वेगादुत्पतन्दूरं नाक्ष्णोर्विषयतामगात् ॥
केवलं दीर्घदीर्घैव रेखा व्योम्नि व्यभाव्यत॥३॥
मायामरालो ददृशे तेजःस्तम्भस्यपार्श्वतः॥
सन्ध्यापयोधराभ्यर्णचारीव रजनीकरः॥४॥
प्रागत्यगादुत्पततां ततोऽध्वानं पयोमुचाम्॥
विमानपदवीं पश्चात्तारावर्तं ततः परम् ॥५॥
तेजसां यानि धामानि ह्यत्युच्चान्यूर्ध्वचारिणाम् ॥
अतिचक्राम वेगेन तान्यसौ कुहनाखगः ॥ ॥ ६ ॥
मरुतो मनसो वापि जवः सूक्ष्मतराकृतेः ॥
सोऽभूदधःकृतस्तेन हंसेन गमनादिना ॥ ७ ॥
यथायथा चोत्पपात सुदूरं श्रमितच्छदः ॥
तथातथा च ददृशे तेजःस्तम्भः समुन्नतः ॥ ८ ॥
अतीत्य मरुतां स्कन्धान्सप्त सम्प्राप्तविस्मयः ॥
बिभेदाण्डकटाहं च ज्वलन्तं तमुदैक्षत ॥ ९ ॥
कथं वाऽदृष्टमूलस्य स्थातव्यं पुरतो हरेः ॥
अविमोचयतः शौरेरसमासमशीर्षताम् ॥ 1.3.2.12.१० ॥
अनिर्व्यूढप्रतिज्ञस्य दीर्घैः किं वा ममासुभिः ॥
तदत्रौपयिकं किं स्यात्कार्यं का मा गतिर्मम ॥११॥
अतिसन्धित्सतो विष्णुं कस्सहायो भविष्यति ॥
आर्जवं नैव निर्जेतुं प्रतिवादिनमक्षमः ॥ १२ ॥
छद्मना वा तिरस्कुर्यान्माना हि महतां धनम् ॥
इति सञ्चितयत्येव विरिञ्चौ व्याकुलात्मनि ॥ १३ ॥
आकाशे ददृशे नातिदूरे किमपि निर्मलम् ॥
ऐन्दवी किमियं रेखा तस्याः कथमिहागमः ॥ १४ ॥
यद्वा मृणालं तत्सिन्धौ वियत्यस्यां कुतस्तु सः ॥
इति तस्मिन्ससन्देहे नेदीयस्तं तदागतम् ॥ १५ ॥
अबोधि केतकीबर्हमिति राजीवजन्मना ॥
तत्पर्युषितमप्युद्यत्सौरभं वस्तुशक्तितः ॥ १६ ॥
हिरण्यगर्भो विमलमगृह्णात्केतकच्छदम् ॥
गृहीतमात्रं तेनैतत्सचैतन्यं किलाब्रवीत् ॥ १७ ॥
॥ केतक उवाच ॥ ॥
भो गृह्णासि किमर्थं त्वं मुञ्च मां विश्रमोद्यतम् ॥
वर्षाणां शतसाहस्रमुत्पत्यैवं विहायसा ॥ १६ ॥
॥ नन्दीश उवाच ॥ ॥
तथा समेधमानं तं दृष्ट्वा श्रममखिद्यत ॥
अचिन्तयत्पद्मसूतिरत्यन्तं विहताशयः ॥ १९ ॥
अनिर्व्यूढप्रतिज्ञावान्नीचतामपि संश्रितः ॥
आक्रान्तरोदोविवरः क्व राशिस्तेजसामसौ ॥ 1.3.2.12.२० ॥
अहमेतत्परीक्षायां क्व परिच्छिन्न पौरुषः ॥
भज्येते इव मे पक्षौ दृशा चान्धायते इव ॥
प्रध्वंसन्त इवाङ्गानि पतामीवाहमप्यधः ॥ २१ ॥
किं वान्यद्बहुनोक्तेन सह निश्वासवायुभिः ॥
मम प्राणाश्च नियतं निर्गच्छन्तीव साम्प्रतम् ॥ २२ ॥
अहङ्कारमदग्रन्थिरयं त्रुटतु चित्ततः ॥
मुकुन्देन सह स्पर्धा सा च शीघ्ं प्रणश्यतु ॥ २३ ॥
यदेष रोदःकुहरपरिणाहाधिकोद्यमः ॥
औन्नत्यमयतेऽद्यापि तेजस्तम्भो यथा पुरा ॥ २४ ॥
तदस्य तेजसां राशेर्नाहं नारायणोऽथवा ॥
कारणं दूरतश्चान्ये महेन्द्रप्रमुखाः सुराः ॥ २५ ॥
इतो नोत्पतितुं शक्तिरस्ति मे तन्निवर्त्तये ॥
इति निश्चित्य मनसा विधाता जातविस्मयः ॥ २६ ॥
प्रत्यभाषत तं कस्त्वं कुतो वा प्राप्तवानिति ॥
स च प्रत्यब्रवीदेनं वेधसं केतकच्छदः ॥ २७ ॥
केतकच्छद एवासं सचैतन्यः शिवाज्ञया ॥
तेजस्तम्भात्मनः शम्भोरस्य मूर्ध्नि चिरं स्थितः ॥ २८ ॥
भूलोक इच्छया वस्तुं ततः सम्प्राप्तवानहम् ॥२९॥
इत्थं श्रुत्वा केतकीबर्हवाचं लब्ध्वाश्वासं तं किलाम्भोजभूतिः ॥
ब्रूहि त्वं मे तत्कियत्यन्तरे वा तेजःस्तम्भस्याग्रमित्यावभाषे ॥ 1.3.2.12.३० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मणा लिङ्गोपरिभागशोधनवर्णनन्नाम द्वादशोऽध्यायः ॥ १२॥