०११ लिङ्गाधोभागशोधनवर्णनम्

॥ नन्दिकेश्वर उवाच ॥ ॥
अथ हंसाकृतिं व्योमपदवीलङ्घनक्षमाम् ॥
भेजे विरञ्चिस्तस्याग्रं द्रक्ष्यामीति कृतोद्यमः ॥ १ ॥
जग्राह विष्णुर्वाराहं विग्रहं दृढविग्रहः ॥
विश्वम्भराविनिर्भेद क्रीडासुलभवैभवम् ॥ २ ॥
मूलं तस्य परिज्ञाय प्रत्यावर्तितुमुत्सुकः ॥
कृत्रिमस्तब्धरोमैष दंष्ट्राभ्यामभिनन्महीम्॥३॥
विदारयन्स पोत्रेण भूतधात्रीमवाङ्मुखः ॥
महावराहो ददृशे तेजस्तम्भं नमन्निव ॥
क्रीडाक्रोडकठोरेण कण्ठघोषेण पूरयन् ॥
पातालं बहुलोत्साहः प्रवेष्टुमुपचक्रमे ॥५ ॥
विवेश यत्रयत्रासौ तत्रतत्र तथास्थितम् ॥
अवैक्षिष्टानलस्तम्भं तमेव कुहनाकिटिः ॥६॥
विदारितान्महीरन्धात्प्रत्यदृश्यन्त भोगिनः ॥
प्ररोहा इव शेषाद्यास्तेजःस्तम्भस्य केचन ॥७॥
प्रत्यदृश्यत हेमाद्रेर्मूल कन्द इव स्थितः ॥
आधारतां गतो दृष्टो ह्यच्युतेनादिकच्छपः ॥ ८ ॥
आराद्वसुन्धरागुल्फे धुरन्धरतया स्थिताः ॥
दिक्सिन्धुराश्च दृश्यन्ते मदमन्थरबन्धुराः ॥ ९ ॥
मधुद्विषा च स महान्मण्डूकोऽपि विलोकितः ॥
अखण्डमण्डलं भूमेर्यस्य पृष्ठे प्रतिष्ठितम् ॥ 1.3.2.11.१० ॥
आधारशक्तिमपि तामभ्यपश्यदधोक्षजः ॥
यदनुग्रहतः शेषकूर्माद्या अपि धूर्वहाः ॥ ११ ॥
अतलं वितलं चैष सुतलं नितलं तथा ॥
तलातलं च प्रतलं महातलमिति क्रमात् ॥॥ १२ ॥
ददर्श सप्त पातालानपि वारिजलोचनः ॥
तत्रत्यान्विविधाकारान्सर्वानपि सविस्मयः ॥ १३ ॥
अत्यगाद्भोगवत्याख्यां पुरीं वैरोचनीमपि ॥
जगाहेन्यांश्च दैत्यानामावासानतिगह्वरान् ॥ १४ ॥
इदं दृष्टमिदं दृष्टमित्युपारूढकौतुकः ॥
मूलं मुग्धाशयस्तस्य विचिनोति स्म माधवः ॥ १५ ॥
अधस्तादपि गाढेन पयोधेस्तेन पोत्रिणा ॥
तथैव तेजःस्तम्भः स निर्विकारमवैक्ष्यत॥१६॥
दलिता केवलं पृष्वी पाथोराशिर्विलोलितः॥
नैवालोक्यत तन्मूलं कोलरूपेन विष्णुना ॥ १७ ॥
इत्थं वर्षसहस्राणि भ्रान्त्या सम्भ्रान्तमानसः ॥
नालं बभूव तन्मूलं लीलाक्रोडो विलोकितुम् ॥ ॥ १८ ॥
अवरुग्णखुरः क्षुण्णदंष्ट्रो विध्वस्तविग्रहः ॥
भग्नपोत्रः स भूदारो जगाहे बहलं श्रमम् ॥ १९ ॥
श्रान्त्या निश्वसतस्तस्य तादृग्दर्पो विशृङ्खलः ॥
ननाश तत्क्षणात्साकं तन्मूलावेक्षणेच्छया ॥ 1.3.2.11.२० ॥
अनिर्व्यूढप्रतिज्ञोऽपि प्रत्यावर्तितुमुत्सकः ॥
न चक्षमे सरोजाक्षश्चलितुं च पदात्पदम् ॥ २१ ॥
श्रमान्धचक्षुषस्तस्य पातालान्तरवर्त्तिनः ॥
तत्तेज एव पन्थानं पुनरप्युदभावयत् ॥ २२ ॥
कथङ्कथञ्चिदुत्तीर्णो ऽप्यकूपारादपारतः ॥
स्वेदाम्भःसागरस्रावे मग्नोऽभूच्छद्मशूकरः ॥ २३ ॥
रज्ज्वेव तेजःस्तम्भस्य प्रभया सानुबद्धया ॥
लब्ध्वाचलं वनं कष्टं न्यवर्त्तिष्ट जनार्दनः ॥ २४ ॥
नावैक्षि यन्मया मूलममुष्य महसां निधेः ॥
ततः स्रष्ट्रापि नो दृष्टः शिरोभागः कथञ्चन ॥ २५ ॥
अमुष्य महसां राशेः प्रागभूद्यत्र सम्भवः ॥
ततो निवृत्त्य यास्यामि शरणं शिवमीश्वरम् ॥२६॥
स हि विश्वाधिको देवश्चिरं मोहान्धचक्षुषा ॥
यद्विस्मृतो मया तस्माद्दुर्विपाकोऽजनीदृशः ॥ २७ ॥
एवं विनिर्धार्य विमुक्तदर्पो निवृत्तवानाशु सरोरुहाक्षः ॥
तमेव देशं प्रबभूव यत्र स्तम्भः स तेजोमयतां दधानः ॥ २८ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे विष्णुना लिङ्गाधोभागशोधनवर्णनन्नामैकादशोऽध्यायः ॥॥ ११ ॥ ॥ छ ॥