॥ ॥ मार्कण्डेय उवाच ॥ ॥
आज्ञापय विभो मह्यं यथा शम्भुः सनातनः ॥
अनुजग्राह मोहान्धो वैकुण्ठपरमेष्ठिनौ ॥ १ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
शृणुष्व सर्वं वक्ष्यामि विस्तरेण यथातथम् ॥
यदेव देवो विदधे दयया भक्तवत्सलः ॥ २ ॥
अथोदस्थात्तयोर्मध्ये तथा विवदमानयोः ॥
ज्योतिःस्तम्भत्वमभ्येत्य रोदोरन्ध्रनिरोधकः ॥ ३ ॥
महता जृम्भमाणेन तस्य ब्रह्माण्डभेदिनः ॥
अन्तरिक्षमतिश्यामं समुत्क्षिप्तमिवाभवत ॥ ४ ॥
विष्वग्विवर्णता तस्य ज्योतिर्लिङ्गस्य तेजसा ॥
दिशो विरेजिरे सद्यो दूरविस्तारिता इव ॥ ५ ॥
तीव्रैस्तस्य महाज्वालैः शोषिता इव सागराः ॥
विमुक्तवीचिसङ्क्षोभाः स्वामेव प्रकृतिं ययुः ॥ ६ ॥
व्यद्योतन्त दिवि प्राग्वद्वहास्तारागणैः सह ॥
तेजःस्तम्भात्समुद्भिन्नाः स्फुलिङ्गा इव केचन ॥७॥
तेजसा तस्य शोणेन गैरिकेणेव रञ्जिताः ॥
भौमरविश्रियं सर्वेऽप्यवहन्नवनीभृतः ॥८॥
समुद्रास्तत्प्रतिच्छायानिर्भराश्लिष्ट यादसः ॥
पद्मरागशिलाखण्डे घटिता इव रेजिरे ॥ ९ ॥
प्रवालगुच्छैः प्रत्यग्रैर्लम्बिता इव पादपाः ॥
नद्यश्च निर्भरोत्फुल्लकह्लारा इव रेजिरे॥ 1.3.2.10.१० ॥
मही कुङ्कुमलिप्तेव दिशः सिन्दूरिता इव ॥
सर्वारुणमिव व्योम समगत्प्रत्यदृश्यत ॥ ११ ॥
ब्रह्माण्डकर्परमभूत्तन्महः पूरितान्तरम् ॥
शोणितेनेव सम्पूर्णं कपालं कृत्तिवाससः ॥ १२ ॥
एवं प्रवर्द्धमानेन तेजःस्तम्भेन तेन च ॥
अरुणाकारतां भेजे विश्वं स्थावरजङ्गमम् ॥ १३ ॥
तेजोलिङ्गं तदाश्चर्यं दृष्ट्वा त्यक्तमिथः क्रुधौ ॥
अचिन्तयेतामेकैकं चतुर्मुखचतुर्भुजौ ॥ १०२ ॥
किमेष वसुधां भित्त्वा शेषादीनां फणाभृताम् ॥
फणामाणिक्यमहसां राशिरुन्मुखतां गतः ॥ १५ ॥
किं वा कल्पान्तसुलभप्रादुर्भावाः प्रभाकराः ॥
द्वादशापि नभोभूम्योर्मध्ये युगपदुत्थिताः ॥ १६ ॥
आहोस्विन्मेघ सङ्घर्षाद्वितता व्योममध्यतः॥
अन्योन्यं मिलिताः क्षिप्रा निपतन्त्यवनीतले ॥ १७ ॥
प्रतिघ्नन्नेष तेजोभिरक्ष्णोः शक्तिमनुक्षणम् ॥
स्वनिर्विशेषिताशेषभूतजालः प्रवर्द्धते ॥ १८ ॥
एष उद्दीप्यमानोऽपि सन्तापाय न कल्पते ॥
नेदीयांस्यपि भूतानि न निर्दहति वह्निवत् ॥ १९ ॥
एतस्य कान्तिसङ्क्रान्त्या जगदेव न केवलम् ॥
मदीयमपि शोणत्वमनुप्राप्तमहो वपुः ॥ 1.3.2.10.२० ॥
कस्मादेष समुत्पन्नः किं मूलः किमुपाधिकः ॥
कुतस्त्यः किमुपादानः कया भक्त्या प्रकाशते ॥ २१ ॥
कियानवधिरेतस्य विष्वक्तिर्यगधोर्ध्वतः ॥
अवगाढश्च पातालं कियन्मात्रमसाविति ॥ २२ ॥
तदेतदखिलं ज्ञातुं मनः पर्युत्सुकं मुहुः ॥
इच्छत्युत्पतितुं व्योम प्रवेष्टुं च रसातलम् ॥ २३ ॥
इति चिन्ताभराक्रान्तौ तेजःस्तम्भावलोकनात् ॥
उभावप्यवकुलितौ वैकुण्ठपरमेष्ठिनौ ॥ २४ ॥
अभाषत च गोविन्दः सुतरामेव गर्वितम् ॥
हिरण्यगर्भमालोक्य स्मयमानमुखाम्बुजः ॥ २५ ॥
॥ विष्णुरुवाच ॥ ॥
अयमेवावयोर्ब्रह्मन्नन्योन्योत्कर्षकाङ्क्षिणोः ॥
सत्यमेव परीक्षायै निकषः समुपस्थितः ॥ २६ ॥।
अमुष्य तेजसां राशेरपरिच्छेद्यसम्पदः ॥
आद्यन्तौ ज्ञातुमेकेन न शक्यं ध्रुवमावयोः ॥ २७ ॥
यः पश्येन्मूलमग्रं वा तेजसोस्य स्वयम्भुवः ॥
स एव नावभ्यधिको जगतां नाथकोऽपि सः ॥ २८ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
इत्युभावपि विनिश्चिताशयौ मूलमग्रमपि तस्य वीक्षितुम् ॥
तेजसोतिमहतो बभूवतुः स्पर्धया विरचितोद्यमौ मिथः ॥ २९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मविष्ण्वोर्मध्ये तेजोमयलिङ्गप्रादुर्भाववर्णनन्नाम दशमोऽध्यायः ॥ १० ॥