॥ नन्दिकेश्वर उवाच ॥ ॥
अहमेव प्रभुरिति प्ररूढाधिकगर्वयोः ॥
विरञ्च्यप्युतयोरासीद्विवादो मोहसम्भवः ॥ १ ॥
रजोविकाराभ्यधिको बाह्ये नील इवोत्थितः ॥
विश्वसृष्टिकरो विष्णुं विरञ्च्योऽब्रूत गर्वतः ॥ २ ॥
॥ ब्रह्मोवाच ॥ ॥
कथं त्वमधिकश्चासि विष्णो जनयितुर्मम ॥
पितामहस्य लोकानां किमेवमतिमोहितः ॥ ३ ॥
त्वत्त एवोदितौ दैत्यौ निहत्य मधुकैटभौ ॥
दैत्यारिरिति मुग्ध त्वं गर्वं वहसि केशव ॥ ४ ॥
त्वामेव सृजतो नित्यं बहुधा मम वेधसः ॥
अद्याप्यायासजां पीडां न परित्यजतः करौ ॥ ५ ॥
मम श्रमाम्भसोद्भूते महाम्भोधौ निमज्जतः ॥
नैयग्रोधं न चोत्पन्नं कुतस्तेऽस्त्ववलम्बनम्॥ ६ ॥
मदुपज्ञे महाम्भोधौ स्रवते कोऽपि पन्नगः ॥
तदाश्रयस्त्वमूर्ध्वं ते पद्मं तच्चासनं मम ॥ ७ ॥
कुतस्तमोमये ब्रूहि त्वयि सत्त्वगुणोदयः॥
स वेत्सि किं त्वं प्रकृतिं निद्राजडिमनिर्भरः ॥ ८ ॥
जलाशये प्रस्वपता दैत्यभीत्या जनार्दन ॥
कथं त्वया रक्षितासौ मदधीना जगत्त्रयी ॥ ॥ ९ ॥
चतुर्भ्यो मम वक्त्रेभ्यो वेदाः समुदयं गताः ॥
चैतन्यरूपिणी शक्तिः कलत्रं मे सरस्वती ॥ 1.3.2.9.१० ॥
मया हि सृज्यते विश्वमिदं स्थावरजङ्गमम् ॥
रक्ष्यते च तदिन्द्राद्यैर्मामकैःपुत्रपौत्रकैः॥११॥
ततः कथय वैकुण्ठ मन्नियोज्येषु कश्चन ॥
जगतामीश्वरान्मत्तः कथं नामातिरिच्यसे ॥१२॥
॥ ॥ नन्दिकेश्वर उवाच ॥ ॥
इत्थं सरोषसंरम्भे विधौ पौरुषभाषिणि ॥
नारायणोऽपि सासूयं स्मित्वैवं समभाषत ॥ १३ ॥ ॥
॥ विष्णुरुवाच ॥ ॥
विरञ्चे मुञ्च संरम्भं वृथा खलु विकत्थसे ॥
नाभीसरोजसञ्जातो मम त्वमवधारय ॥ १४ ॥
योगनिद्रां मयोन्मुच्य पुरा ह मधुकैटभौ ॥
न चेद्यन्मथितौ ताभ्यां तथैव स्याः प्रणाशितः ॥ १५ ॥
सोमकप्रमुखान्दैत्यान्हन्तुमात्मेच्छया मम ॥
धृतमत्स्यादिरूपस्य को वान्यः सृष्टिकारणम् ॥ १६ ॥
न किञ्चिदपि पश्यन्ति रजसारूढदृष्टयः ॥
रजोमयेन भवता किं निरूपयितुं क्षमम् ॥ १७ ॥
अविनाभाविनी शक्तिर्ननु मे पद्मवासिनी ॥
यस्याः कटाक्षमात्रेण जगवितयमेधते ॥ १८ ॥
भूतान्यमूनि कालोऽयमात्मनोप्यहमेव हि ॥
मया विरहितं कि वा त्रिषु लोकेषु विद्यते ॥ १९ ॥
प्र आदित्या वसवो रुद्रा दिक्पाला मनवोऽप्यहम् ॥
भूर्भुवःस्वस्त्रयीमेनां मदधीनां विचिन्तय ॥ 1.3.2.9.२० ॥
ममैव विनियोगेन सृष्टिशक्तिः स्वयं स्थिता ॥
तन्मे त्रैलोक्यनाथस्यकि त्वञ्ज्येष्ठः समोऽथवा ॥ २१ ॥ ॥ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
एवं मोहान्धमनसोरन्योन्यं प्रतिगर्जतोः ॥
ययावनल्पसमयःसवर्तसदृशस्तयो. ॥ २२ ॥
उदयास्तमयौ स्यातां न तदा चन्द्रसूर्ययोः ॥
नक्षत्राणि च ताराश्च ग्रहाश्च क्षीणतां ययुः ॥ २३ ॥
नाववुर्मरुतो वा न जज्वलुर्जातवेदसः ॥
नान्तरिक्षं न च क्षोणी न दिशोऽपि चकाशिरे ॥ २४ ॥
समुद्राश्चुक्षुभुस्सर्वे पर्वताश्च चकम्पिरे ॥
औषध्यः शोषमासेदुरवसेदुश्च जन्तवः ॥ २५ ॥
पक्षमासर्तुवर्षादिकालस्य नियमो गतः ॥
अहोरात्रव्यवस्थापि प्रणाश समुपाययौ ॥ २६ ॥
इन्द्रादयो लोकपाला मरीच्याद्या महर्षयः ॥
सर्वेप्यकाले सम्प्राप्तं कल्पान्तं मेनिरे तदा ॥ २७ ॥
एवं जाते महाक्षोभे भूताक्रन्दप्रचोदितः ॥
भूतनाथो जगज्जातमविद्यायामबुध्यत ॥ २८ ॥
व्यचिन्तयच्च विश्वात्मा विश्वसंरक्षणोद्यतः ॥
अवाह्यया दृशाऽपश्यदनयोमोहकारणम् ॥ २९ ॥
स्वामिनं सकलैश्वर्यदातारं मां मदोद्धतौ ॥
विस्मृत्य स्वं स्वमेवैतावमंसेतां जगत्प्रभू ॥ 1.3.2.9.३० ॥
अहो मोहस्य माहात्म्यं वदिमौ द्रुहिणाच्युतौ ॥
जानानावपि मां सम्यगभूतामेवमुद्धतौ ॥ ३१ ॥
अज्ञानतिमिरोद्भूति दूषिताशयलोचनः ॥
जनः प्राप्तं स्तुतमपि प्रायो वस्तु न पश्यति ॥ ३२ ॥
कृतापराधावप्येतौ निमग्नौ मोहसागरे ॥
मया नोपेक्षणीयौ हि लोकानां हितकाम्यया ॥ ३३ ॥
इति निश्चित्य मनसा माया वैवश्यमेतयोः ॥
देवो दयामहाम्भोधिर्व्यपोहयितुमैहत ॥ ३४ ॥
अहोऽनुकम्पा तरुणेन्दुमौलेः स्वभावसिद्धा भुवनत्रयेऽस्मिन् ॥
असौ प्रमोहाम्बुधिमध्यतोभूदाविर्निरस्तावपि धातृविष्णू ॥ ३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवविष्णुविवादवर्णनन्नाम नवमोऽध्यायः ॥ ९ ॥