००८ सृष्टिवणर्नम्

॥ नन्दिकेश्वर उवाच ॥ ॥
अरुणाचलमाहात्म्यं विस्तरात्परिपृच्छता ॥
मार्कण्डेय त्वया मन्ये मयि न्यस्तो महान्भरः ॥ १ ॥
स्थाने कुतूहलाक्षिप्तं मनस्तव महामते ॥
यः शोणाद्रीशचरितं न वेत्ति स नरः पशुः ॥ २ ॥
कथं वा शक्यते वक्तुं जानानरपि कार्त्स्न्यतः ॥
शोणाचलजुषः शम्भोर्माहात्म्यं महितोदयम् ॥३॥
कथं वा श्रुतमप्येतदाश्चर्यरसभावितैः ॥
अशेषमवधार्येत प्रज्ञावत्प्रवरैरपि ॥४॥
इदानीं स्मर चित्रं तु चरित्रं स्मरवैरिणः ॥
परामृतानुभूत्येव सत्यं नृत्यति मे मनः ॥ ५ ॥
अद्भुतं शिवचारित्रमास्कन्दितमनोहरम् ॥
मम वर्णयितुं कार्त्स्न्यान्नैव शक्नोति शेमुषी ॥ ६ ॥
तथाप्येष प्रवक्ष्येऽहमंशांशेन यथामति ॥
पुण्यं शोणाद्रिनाथस्य माहात्म्यं श्रूयतां मुने ॥ ७ ॥
पुरादिदेवकल्पादौ निर्विकल्पो महेश्वरः ॥
स्वेच्छया सकलं विश्वं पुनरप्युदभावयत् ॥ ८ ॥
उद्भावितं च तद्विश्वं स्रष्टुं पातुं च सर्वदा ॥
अन्विच्छन्नादिदेवोऽसौ ब्रह्मविष्णू विनिर्ममे ॥ ९ ॥
असृजद्दक्षिणाङ्गेन त्र्यम्बकः परमेष्ठिनम् ॥
विष्टरश्रवसं देवो वामाङ्गेन च सृष्टवान् ॥ 1.3.2.8.१० ।
ब्रह्माणं रजसा विष्णुं सत्त्वेन समयूयुजत् ॥
नियुक्तौ देवदेवेन तौ विरञ्च्यच्युतावुभौ ॥ ११ ॥
ईशाते सर्वजगतां सृष्टिरक्षाविधानयोः ॥
मनसैव मरीच्यादीन्ससर्ज ब्राह्मणान्दश ॥ १२ ॥
दक्षं च दक्षिणाङ्गुष्ठात्सृष्ट्यै प्रावर्तयद्विधिः ॥
मुखेन ब्राह्मणान्दोर्भ्यां क्षत्रियानूरुतो विशः ॥ १३ ॥
शूद्रांश्च पद्भ्यां निरमात्स्वयं च कमलासनः ॥
मरीचितनयाज्जज्ञुः कश्यपादसुरास्सुराः ॥ १४ ॥
मरुतः फणिनो गृध्रा गन्धर्वासरसोऽपि च ॥
मनुश्च यस्य सन्तानो मानवोऽयं प्रवर्त्तते ॥ १५ ॥
नानाज्ञातित्वमापाद्य नानाकर्मप्रवर्तकाः ॥
अत्रेश्च समभूदार्षं क्षात्रं च द्विविधं कुलम् ॥ १६ ॥
पुलस्त्यपुलहाभ्यां च जज्ञिरे यक्षराक्षसाः ॥
उतथ्यगीष्पतिमुखा जज्ञिरेंऽगिरिसो मुनेः ॥ १७ ॥
भृगोरग्निः समुदभूच्च्यवनाद्यास्तथर्षयः ॥
वसिष्ठप्रमुखेभ्यश्च सम्बभूबुर्महर्षयः ॥
यत्पुत्रपौत्रैर्भुवनमिदमापूर्यतेऽखिलम् ॥ १८ ॥
एवं ब्रह्माऽऽत्मजैः स्वीयैरिदमापूरयज्जगत् ॥
कालेन वैभवेनापि विसस्मार महेश्वरम् ॥ १९ ॥
अच्युतोऽपि भृगोः पुत्रीमुद्वाह्य कमलालयाम् ॥
मत्स्यादिरूपो जगति भवन्नास्मरदीश्वरम् ॥ 1.3.2.8.२० ॥
सृष्टिस्थितिभ्यां द्रुहिणाब्जनाभौ स्वाधीनतां नूनमुपागताभ्याम् ॥
अतीव गर्वं दधतुर्न कस्य मदोऽधिकारेण भवेन्नरस्य ॥ २१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे सृष्टिवणर्नन्नामाष्टमोऽध्यायः ॥ ८ ॥ छ ॥