॥ नन्दिकेश्वर उवाच ॥ ॥
रक्तोत्पलैरर्कवारे यः शोणाद्रीशमर्चयेत् ॥
अवश्यं तस्य सिध्यन्ति सार्वभौममहर्द्धयः ॥ १ ॥
सौम्यवारेऽरुणाद्रीशं कस्तूरीकरवीरकैः ॥
यः पूजयति तस्य स्यात्सत्यलोके सुखासिका ॥ २ ॥
गुरुवारे सिताम्भोजैः शोणेशं वरिवस्यतः ॥
जनलोके चिरं वासः सिद्धैः सह भविष्यति ॥ ३ ॥
चम्पकैर्मल्लिकाभिश्च शुक्रवारे समर्चयेत् ॥
तपोलोकं प्रपद्येत ब्रह्मर्षिभिरभिष्टुतः ॥ ४ ॥
सौरिवारे च जातीभिस्समाराध्यारुणेश्वरम् ॥
न जातु यमलोकानां पापीयानपि कल्पते ॥ ५ ॥
प्रथमायां तिथौ देवस्योपहारं समर्पयेत् ॥
यः पायसेन स भवेद्धनधान्यसमृद्धिमान्॥ ६ ॥
द्वितीयस्यां तिथौ भक्त्या यो दध्यन्नं निवेदयेत् ॥
स भवेद्भाग्यवाञ्छ्रेष्ठः सोमपाश्च भवेद्ध्रुवम् ॥ ७ ॥
तृतीयायां च योऽपूपैः शोणेशं परितर्पयेत् ॥
तस्या व्याहतमारोग्यमाशरीरं भविष्यति ॥ ८ ॥
चतुर्थ्यामरुणेशाय पूर्णकुम्भोत्करादिकम् ॥
निवेदयति यस्तस्य भवेत्पूर्णमनोरथः ॥ ९ ॥
मुद्गौदनं च पञ्चम्यामुपहारं प्रकल्पयेत ॥
शोणेश्वराय भक्त्या यः स स्यादक्षय्यवैभवः ॥ 1.3.2.7.१० ॥
षष्ठ्यां गुडौदनं दद्यादरुणाचलशम्भवे ॥
भक्त्या यस्तस्य सन्तानो न कदाचित्प्रहीयते ॥ ११ ॥
तिलौदनं यस्सप्तम्यां शोणेशाय समर्पयेत् ॥
स दीनोऽप्यधमर्णत्वमयत्नेन व्यपोहति ॥ १२ ॥
अष्टम्यां राजशाल्यन्नं यो दद्याच्छोणशम्भवे ॥
तस्य सेवां विनापि स्याद्राजलोको वशीकृतः ॥ १३ ॥
गोधूमान्नं नवम्यां च शोणाद्रीशाय योऽर्पयेत् ॥
राजयक्ष्मादयस्तस्य न भविष्यन्ति जातु च ॥ १४ ॥
दशम्यां शोणनाथाय यः करम्भं निवेदयेत् ॥
स भवेत्सर्वलोकानां सदैव प्रीतिभाजनम् ॥ १५ ॥
पृथुकैरुपहारान्य एकादश्यां प्रकल्पयेत् ॥
अरुणाचलनाथस्य स भवेदकुतोभयः ॥ १६ ॥
द्वादश्यां शोणनाथाय सूपौदननिवेदनम् ॥
यः करोति भवेत्तस्य निर्विघातो मनोरथः ॥ १७ ॥
यः सक्तूनरुणेशाय त्रयोदश्यां समर्पयेत् ॥
तस्या व्याकुलचित्त्वमश्रान्तमपि जायते ॥ १८ ॥
अर्पयेच्छोणनाथाय फलानि विविधानि यः ॥
चतुर्दश्यां स मूढोऽपि सिद्धसारस्वतो भवेत् ॥ १९ ॥
यः पौर्णमास्यां शोणाद्रिनाथाय विनिवेदयेत् ॥
पनसस्य फलं तस्य चक्षूरोगो न जायते ॥ 1.3.2.7.२० ॥
कुह्वां च सङ्गमे भक्त्या कन्दमूलादि योऽर्पयेत् ॥
शोणाचलेश्वरायास्य तुष्यन्ति पितरः किल ॥ २१ ॥
अश्विन्यामरुणेशाय दद्याद्वासांसि भक्तिमान् ॥
भरण्यामरुणेशाय दद्यादाभरणान्यपि ॥ २२ ॥
कृत्तिकासु प्रदीपांश्च रोहिण्यां रौप्यमर्पयेत् ॥
मृगशीर्षे मलयजमार्द्रायां हरिचन्दनम् ॥ २३ ॥
पुनर्वसौ मृगमदं पुष्ये कर्पूरमर्पयेत् ॥
काश्मीरोद्भवमाश्लेषे मघायां तुहिनोदकम् ॥ २४ ॥
ताम्बूलं पूर्वफाल्गुन्यां धूपमुत्तरफाल्गुने ॥
कालागुरूंश्च हस्तर्क्षे चित्रायां यक्षकर्दमम् ॥ २५ ॥
स्वात्यां सुवासिनीवृन्दं विशाखायां प्रकीर्णकम् ॥
मैत्रे मुक्तातपत्रं च ज्येष्ठायां धैनुकान्यपि ॥ २६ ॥
मूले मुक्तासरान्पूर्वाषाढे मुकुटमर्पयेत् ॥
रत्नानि चोत्तराषाढे श्रवणे भद्रपीठिकाम् ॥ २७ ॥
अष्टापदं धनिष्ठायां वासः शतभिषज्यपि ॥
पूर्वाभाद्रपदे भोगानुत्तरायां तुरङ्गमान् ॥ २८ ॥
रेवत्यां च रथं हैमं प्रदद्याच्छोणशम्भवे ॥
दद्यात्कृत्वा महापूजां तत एवार्पयेन्नरः ॥ २९ ॥
पूज्यो राशिषु मेषादिष्वरुणेथो विशेषतः ॥
सिन्दुवारैः कुरबकैः ककुभैः पाटलैः क्रमात् ॥ 1.3.2.7.३० ॥
कुटजैर्नीपकुसुमैर्जीवन्तीमल्लिकादिभिः ॥
सरोरुहैर्दमनकैर्नद्यावर्तसरोरुहैः ॥ ३१ ॥
पञ्चामृतेन स्नपयन्नुभयोरुपरागयोः ॥
पञ्चाक्षरेण कुर्वीत शोणनाथस्य भक्तितः ॥ ३२ ॥
स्नपनं पञ्चगव्येन द्वयोरयनयोरपि ॥
षडक्षरेण कुर्वीत गव्येन स्नपनक्रियाम् ॥ ३३ ॥
प्रणवेनैव कुर्वीत क्षीरेण स्नपनक्रियाम् ॥
अरुणाचलनाथस्य भक्त्या विषुवयोर्द्वयोः ॥॥ ३४ ॥
प्राह्णे स्याद्रुद्रतुलसी मध्याह्ने कृतमालकम् ॥
अपराह्णे मल्लिका च शोणाद्रीशस्य शस्यते ॥३५॥
अद्धोदये च स्नपयेत्सहस्रकलशोदकैः ॥
शतरुद्रीयमुच्चार्य श्रीशोणाचलशम्भवे ॥ ३६ ॥
शिवरात्रौ विशेषेण त्रिशिखैर्बिल्वपत्रकैः ॥
कमलैः कर्णिकारैश्च जागरूको यतेन्द्रियः ॥ ३७ ॥
गीतवादित्रनृत्यैश्च दिव्यागमविधानतः ॥
पूजयेदपवर्गार्थं शोणशैले महेश्वरम् ॥ ३८ ॥
मासि पौषे च देवस्य कुर्यादाग्नेयमुत्सवम् ॥
नवान्नैरुपदंशाद्यैर्व्याहृतीरुच्चरन्बुधः ॥ ३९ ॥
वैशाखे च विशाखायां शिवतन्त्रानुसारतः॥
शोणाचलेश्वरस्यास्य कुर्याद्दमनकोत्सवम् ॥ 1.3.2.7.४० ॥
प्राबोधिक मार्गशीर्षे प्रातर्निर्माय सामभिः ॥
महापूजां प्रकुर्वीत शोणशैलस्य भक्तिमान् ॥ ४१ ॥
शनिप्रदोषेष्वार्द्रासु व्यतीपातेषु पर्वसु ॥
सोमार्कवारयोश्चार्चेच्छोणाद्रीशं यथागमम ॥ ४२ ॥
दीक्षोपनयनोद्वाहपुत्रजन्मादिकेष्वपि ॥
विशेषपूजां कुर्वीत शोणनाथस्य भक्तिमान् ॥ ४३ ॥
अपि स्वजन्मनक्षत्रे सम्पत्स्वापत्सु भीतिषु ॥
प्रवेशनिर्गमनयोश्चार्चनीयोऽरुणेश्वरः ॥ ४४ ।
व्रतिचक्रागमे पादबन्धने नववैभवे ॥
अरुणेशार्चनं कुर्यादभियानेषु च द्विषाम्॥ ४५॥
स्मरेदतिदवीयांश्चेत्पश्येत्पर्यन्तगो यदि ॥
स्थितश्चेदरुणक्षेत्रे त्रिकालं पूजयेच्छिवम् ॥ ४६ ॥
किमन्यद्वद वत्सेति उद्धृत्य भुजमुच्यते ॥
अरुणक्षेत्रतो नान्यदलं स्वर्गापवर्गयोः ॥ ४७ ॥
स्मरणेन मनःश्रोत्रे श्रवणाद्दर्शनादृशौः ॥
जिह्वां च कीर्त्तनाच्छोणक्षेत्रं सद्यः पुनात्यलम्॥ ४८ ॥
अरुणेस्मिन्महाक्षेत्रे देहिभिर्लब्धजन्मभिः ॥
जीवद्भिर्लभ्यते भोगो मोक्षश्चोन्मुक्तजीवितैः । ४९ ॥
अन्यत्र मुक्तदेहानामप्यत्र श्राद्धकर्मणा ॥
अपि पापात्मनां पुंसामपवर्गो भविष्यति ॥ 1.3.2.7.५० ॥
अयोध्यां मथुरां मायां काशीं काञ्चीमवन्तिकाम् ॥
द्वारकां चारुणक्षेत्रमतिशेते न संशयः ॥ ५१ ॥
इत्युक्तवन्तं च शिलादपुत्रं मृकण्डुसूनुः पुनरप्युवाच ॥
माहात्म्यमेतन्महनीयकीर्ते भूयोपि पृच्छामि वदस्व मह्यम् ॥ ५२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे काम्यकर्मवर्णनं नाम सप्तमोऽध्यायः॥ ७ ॥ ॥