॥ नन्दिकेश्वर उवाच ॥ ॥
विस्तरात्कथयाम्यद्य प्रायश्चित्तं महांहसाम् ॥
सर्वेषामवधत्स्व त्वमवलम्ब्यास्तिकीं धियम् ॥ १ ॥
ब्रह्महा प्राप्य शोणाद्रिं निमग्नः खड्गतीर्थके ॥
जपन्पञ्चाक्षरं मन्त्रं भस्मरुद्राक्षधारकः ॥ २ ॥
कृतोपवासः सम्पूज्य प्रयतः परमेश्वरम् ॥
ब्राह्मणान्भोजयेद्वर्षं भिक्षाशी नियतेन्द्रियः ॥ ३ ॥
विशेषपूजाशुश्रूषां कुर्याद्देवस्य भक्तितः ॥
ब्रह्महत्या विनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४ ॥
सुरापोऽप्यरुणक्षेत्रे वर्षमेकं वसन्प्रति ॥
प्राग्वत्कृतसमाचारः सम्पूज्यैवं महेश्वरम् ॥ ५ ॥
क्षीरेण स्नापयेद्देवं शतरुद्रीयमुच्चरन् ॥
सुरापानोद्भवेनाशु पापेन परिमुच्यते ॥ ६ ॥
सुवर्णस्तेयकृच्छोणक्षेत्रे बिल्वदलैर्हरम् ॥
अभ्यर्च्य भोजयेद्विप्रान्पापान्मुच्येत दुष्करात् ॥ ७ ॥
गुरुदाररतिर्गत्वा कृत्तिकास्वरुणाचलम् ॥
यथापूर्वं व्रती भूत्वा सहस्रेण प्रदीपकैः ॥ ८ ॥
मासत्रयं समाराध्य श्रीशोणाचलशङ्करम् ॥
प्रदद्याद्भूषितां कन्यां ब्राह्मणाय सुधीमते ॥ ९ ॥
षडक्षरं जपेन्नित्यं तेन मुच्येत पाप्मना ॥
शिवलोके च निवसेदासंसारं न संशयः ॥ 1.3.2.6.१० ॥
परदारापहर्त्ता च क्षेत्रेस्मिन्नियतेन्द्रियः ॥
मासमेकं नवैः पुष्पैरभ्यर्च्यारुणशङ्करम् ॥ ११ ॥
माहेश्वराय वितरेद्धनं शक्त्यानुगुण्यतः ॥
तत्क्षणेन विनिर्मुक्तस्तस्मात्पापाद्भविष्यति ॥ १२ ॥
गरदोऽप्यरुणक्षेत्रे व्रती भूत्वा यथापुरा ॥
क्षीरोपहारं देवाय दत्त्वा दोषेण मुच्यते ॥ ॥ १३ ॥
पिशुनोऽप्यरुणक्षेत्रे व्रती वेदरतो नरः ॥
अध्यापयेद्द्विजान्मुख्यांस्ततो निष्कल्मषो भवेत् ॥ १४ ॥
अग्निदोऽप्यरुणक्षेत्रे त्रीन्मासान्पूर्ववद्व्रती ॥
दद्याच्छैवाय निर्माय्य गृहं तत्पापशान्तये ॥ १५ ॥
धर्मनिन्दाकरः शोणक्षेत्रे वर्षं व्रती वसन् ॥
सत्रादिकं प्रकुर्वीत यथाशक्त्यघशान्तये ॥ १६ ॥
पितृद्रोह्यरुणक्षेत्रे तिष्ठन्मासमतन्द्रितः ॥
गिरीशाय द्विजेभ्योपि प्रदद्याद्गाः सहस्रशः ॥ १७ ॥
ग्रहोपरागकालेषु भोजयित्वा द्विजान्बहून्॥
विमुञ्चेद्वृषभं नीलं विमुच्येत ततोंऽहसः ॥ १८ ॥
स्त्रीघ्नश्चापि शिशुघ्नोऽपि शोणक्षेत्रमुपेयिवान् ॥
व्यतीपाते तिलान्दद्याद्द्विजभ्यो दुरितच्छिदे ॥ १९ ॥
प्रच्छन्नपापकृच्छोणक्षेत्रेऽस्मिन्नियतेन्द्रियः ॥
गुप्तदानानि कुर्वीत भवेद्वै गतकल्मषः ॥ 1.3.2.6.२० ॥
मृषाभाष्यरुणक्षेत्रे षण्मासान्निवसन्व्रती ॥
शोणाचलेश्वरस्तोत्रपाठेन स्यादकल्मषः ॥ २१ ॥
कूपादिभेदकृच्छोणक्षेत्रमासाद्य भक्तितः ॥
तटाकान्खानयेत्तत्र ध्रुवं निर्वृजिनो भवेत् ॥ २२ ॥
क्षेत्रापहारी देवाय क्षेत्रं दद्यान्महाफलम् ॥
आरामकण्टकोप्यस्मै दद्यादुद्यानमुत्तमम् ॥ २३ ॥
गृहापहारी कुर्वीत देवस्यायतनं नवम् ॥
अंहसा तेन निर्मुक्तः शिवसायुज्यमाप्नुयात् ॥ २४ ॥
परद्रोही वसञ्छोणक्षेत्रे माहेश्वरान्धनैः ॥
प्रीणयित्वा पराल्ँलोकान्निःसंशयमवाप्नुयात् ॥ २५ ॥
पश्वादिमांसभुक्छोणक्षेत्रे पक्षत्रयं व्रती ॥
प्रीणयेदरुणेशानं सोपहारैर्मनोहरैः ॥ २६ ॥
त्रिःशोणाचलनाथेति निनदन्ननघो भवेत्॥
निवसन्नरुणक्षेत्रे पूजयेदरुणेश्वरम् ॥२७॥
अरुणेश्वरमन्त्रं च जपेन्मोक्षेच्छुरादरात्॥
यद्यस्याभिहितं तेन पद्भ्यामेव प्रदक्षिणाम्॥२८॥
कुर्वतारुणशैलस्य तत्प्राप्यं शुभमञ्जसा ॥
श्रुतेषु स्खलितेष्वत्याहिते दुःस्वप्नदर्शने ॥ २९ ॥
प्रीत्युत्कर्षेऽपि च बुधैरुच्चार्योऽरुणशङ्करः ॥
अपि वर्णाश्रमभ्रष्टः शिवद्रोहरतोऽपि वा ॥ 1.3.2.6.३० ॥
त्रीण्यहान्यरुणक्षेत्रे वसन्मुच्येत पातकैः ॥
पार्थिवः शिवलोकोऽयं मूर्त्तमेतत्त्रयीशिरः ॥३१ ॥
एष दक्षिणकैलासो योसावरुणपर्वतः ॥
अन्येषु सिद्धक्षेत्रेषु तपोभिः सिद्धयो नृणाम् ॥ ३२ ॥
अस्मिन्स्मरणमात्रेण तारतम्यं विचिन्त्यताम् ॥
यद्गङ्गायां प्रयागे यत्काश्यां वै पुष्करेषु यत् ॥ ३३ ॥
कर्म सेतौ च यत्पुंसां शोणक्षेत्रे ततोऽधिकम् ॥
अग्निष्टोमं वाजपेयं वैराजं सर्वतोमुखम् ॥ ॥ ३४ ॥
राजसूयाश्वमेधौ च कुर्याच्छोणाचले बुधः ॥
एकाहं वारुणक्षेत्रे नरो यत्स्यादुपोषितः ॥ ३५ ॥
तस्य चान्द्रायणशतं भवेत्सान्तपनायुतम् ॥
षोडशापि महादानान्यरुणक्षेत्रसन्निधौ ॥ ३६ ॥
अनुष्ठितानि कल्पोक्तं कुर्वन्ति द्विगुणं फलम् ॥ ३७ ॥
इति नन्दिकेश्वरमुखेन शुश्रुवान्मुनिनन्दनोथ निरयप्रतिक्रियाम्॥
अभिनन्द्य तं वद दिनर्तुवत्सरप्रमुखार्हणक्रममिति व्यजिज्ञपत् ॥ ३८ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पापापनोदकप्रायश्चित्तवर्णनन्नाम षष्ठोऽध्यायः ॥ ६ ॥ ॥ छ ॥ ॥ ॥