००५ कर्मविपाकवर्णनम्

॥ नन्दिकेश्वर उवाच ॥ ॥
शुद्धसत्त्वगुणोपेतो लोकेऽस्मिन्दुर्लभः पुमान् ॥
रजस्तमोगुणोपेता भवन्ति सुलभा नराः ॥ १ ॥
सात्त्विकः पुण्यशीलत्वान्निःश्रेयसमवाप्नुयात् ॥
वैचित्र्यात्कर्मणामेषामनुभोगाय वेधसा ॥ २ ॥
वैचित्र्याण्येव सृष्टानि नरकाण्यत्र तत्र च ॥
महारौरवभाग्भूत्वा खरः श्वा शूकरोऽपि वा ॥ ३ ॥
चण्डालो वा भवेत्प्रेत्य पुरुषो ब्रह्महत्यया ॥
चिरं रौरवसंरुद्धः कृमिकीटपतङ्गताम् ॥॥ ४ ॥
प्राप्नुयात्कर्मकर्तृत्वं सुरापानेन च द्विजः ॥
ब्रह्मस्वहरणाद्ब्रह्मराक्षसत्वमवाप्नुयात् ॥ ५ ॥
यद्यत्तु चोरयेत्तत्तच्छून्यं स्यादन्यजन्मनि ॥
असिपत्रवने पीडामवाप्य सुचिरं पुनः ॥ ६ ॥
नपुंसकत्वं सङ्गच्छेत्पुरुषो गुरुतल्पगः ॥
तप्तैः कालायसैर्दण्डैः पीडितो यमकिङ्करैः ॥ ७ ॥
नरके कालसूत्राख्ये निवसेत्परदारगः ॥
अग्निदो निवसेद्घोरे सुघोरे गरदायकः ॥ ८ ॥
महाघोरे च पिशुनोऽवीच्यां धर्मविनिन्दकः ॥
वसेत्कराले मित्रध्रुग्भीमे हिंसैकतत्परः ॥ ९ ॥
संहारे छन्नपापिष्ठो मृषावादी भयानके ॥
असिघोरे वसेद्वापि कूपक्षेत्रनरादिहृत् ॥ 1.3.2.5.१० ॥
वज्रे परद्रोहरतो मांसाशी तरले द्विज ॥
तीक्ष्णे मातृपितृद्रोही तापने जपदूषकः ॥ ११ ॥
अश्वघ्नोपि निरुच्छ्वासे वसेद्गोघ्नश्च दारुणे ॥
भ्रूणहा निवसेच्चण्डे स्त्रीहत्याकृत्कुकूलके ॥ १२ ॥
देवस्वहारी दहने घोरघोरे परस्वहृत् ॥
कृतान्तदूता नरके सर्वानेव हि पापिनः ॥ १३ ॥
बध्नन्ति पाशैर्निघ्नन्ति दण्डैर्विध्यन्ति शङ्कुभिः ॥
तीक्ष्णायश्चञ्चवः कङ्काः क्रूरदंष्ट्रा महोरगाः ॥ १४ ॥
कालेयकाश्च व्याघ्राश्च हिंस्राश्चान्ये दशन्त्यमून् ॥
शकलीकुर्वते शस्त्रैर्दहन्तिदेहमेव च ॥ १५ ॥
खनन्ति गहने श्वभ्रे कशाभिस्ताडयन्ति च ॥
तैलद्रोण्यां विपच्यन्ते तुद्यन्ते सूक्ष्मसूचिभिः ॥ १६ ॥
बाह्यन्ते दुर्वहान्भारान्यमदूतैर्हि पापिनः ॥
ब्रह्महा क्षयरोगी स्यत्सुरापः श्यावदन्तकः ॥ १७ ॥
स्वर्णापहारी कुनखी दुश्चर्मा गुरुतल्पगः ॥
अपस्मारी गुरुद्रोही चण्डालो वेददूषकः ॥ १८ ॥
कूटसाक्षी चाक्षिरोगी मन्दाग्निश्चाग्रभोजनः ॥
विद्यापहारी मूकः स्यादन्धः पुस्तकचोरकः ॥ १९ ॥
परदाररतः पङ्गु बधिरः परनिन्दकः ॥
विड्वराहो निराचारो जिह्वारोगी च तस्करः ॥ 1.3.2.5.२० ॥
अभ्यागतातिथित्यागी कपोलकण्टको भवेत् ॥
पर्वसु स्त्रीरतो मेही पूत्यास्योऽभक्ष्यभक्षकः ॥ २१ ॥
मर्यादाभेदको दासस्तटाकारामहृत्खरः ॥
प्रतिश्रुताप्रदाता स्यादल्पायुः श्वा विकत्थनः ॥ २२ ॥
विष्णुद्रोही च सरठः शिवद्रोही च मूषकः ॥
एवं पापफलं ज्ञात्वा प्रायश्चित्तं समाचरेत् ॥ २३ ॥
तच्चास्मिन्नरुणक्षेत्रे कर्तव्यः सम्यगास्तिकैः ॥ २४ ॥
इति निशम्य स दुष्कृतकारिणां बहुविधां नरकेषु नृणां व्यथाम् ॥
चरणयोः पतितश्च तदा पुनःपुनरयाचत तच्छमनक्रियाम्॥ २५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे कर्मविपाकवर्णनं नाम पञ्चमोध्यायः ॥ ५ ॥ ॥ छ ॥