॥ नन्दिकेश्वर उवाच ॥ ॥
मुने मनःपरीक्षार्थं तथा त्वं भाषितो मया ॥
तव चेन्नाभिधास्यामि कस्य वान्यस्य कथ्यते ॥ १ ॥
त्वादृगन्योस्ति किं लोके शिवधर्मपरायणः ॥
येन स्वल्पायुषाप्येवं नित्येनाभावि भक्तितः ॥ २ ॥
कस्यान्यस्य कृते देवः स्वस्यैवाज्ञाकरं यमम् ॥
क्रुद्धो नियन्त्रयामास चरणाङ्गुष्ठपीडितम् ॥ ३ ॥
त्वमेव शाङ्करान्धर्मान्सर्वान्विद्धि रहस्यतः ॥
योग्रेऽसि कालवद्भ्रान्तः परिपक्वोसि चेतसा ॥ ४ ॥
त्वयैवान्येन केनाहमेवं शुश्रूषितश्चिरम् ॥
त्वयीव कस्मिन्नन्यस्मिन्ममापि प्रीतिरीदृशी ॥ ५ ॥
उपदेक्ष्यामि ते क्षेत्रं गुप्तं तद्धर्मशासनैः ॥
भक्त्यावधारणीयं यद्भक्तिकैवल्यकाङ्क्षिभिः ॥ ६ ॥
आदरादनुयुञ्जानं शिष्यं यो देशिकः स्वयम् ॥
उपदेशेन सन्तुष्टं न करोति स किं गुरुः ॥ ७ ॥
समाहितमना भूत्वा विश्वासं कुरु शाश्वतम् ॥
मयोपदिश्यमानेऽस्मिन्रहस्ये पारमेश्वरे ॥ ८ ॥
स्मर स्मरान्तकं देवं वन्दस्वाध्याय शाङ्करीम् ॥
उपांशूच्चारयोङ्कारं श्रेयस्ते महदागतम् ॥ ९ ॥
अस्ति दक्षिणदिग्भागे द्राविडेषु तपोधन ॥
अरुणाख्यं महाक्षेत्रं तरुणेन्दुशिखामणेः ॥ 1.3.2.4.१० ॥
योजनत्रयविस्तीणमुपास्यं शिवयोगिभिः ॥
तद्भूमेर्हृदयं विद्धि शिवस्य हृदयङ्गमम् ॥ ११ ॥
तत्र देवः स्वयं शम्भुः पर्वताकारतां गतः ॥
अरुणाचलसञ्ज्ञावानस्ति लोकहितावहः ॥ १२ ॥
आवासः सर्वसिद्धानां महर्षीणां सुपर्वणाम् ॥
विद्याधराणां यक्षाणां गन्धर्वाप्सरसामपि ॥ १३ ॥
सुमेरोरपि कैलासादप्यसौ मन्दरादपि ॥
माननीयो महर्षीणां यः स्वयं परमेश्वरः ॥ १४ ॥
स्पृहयन्ति यदीयेभ्यो जन्तुभ्योपि दिवौकसः ॥
अयत्नलभ्यमुक्तिभ्यो दिवावासप्रवञ्चिताः ॥ १५ ॥
न कल्पवृक्षाः सदृशा यत्रत्यानां महीरुहाम् ॥
पत्रपुष्पफलैर्नित्यं येर्चयन्ति गिरौ हरम् ॥ १६ ॥
हिंसैकरुचयो व्याधा अपि रूपानुसारतः ॥
अनन्ता यत्र देवस्य प्रादक्षिण्यफलास्पदम्॥ १७ ॥
यदुद्देशचरा मेघाः शिखराण्यभिबन्धकाः ॥
गङ्गावतो हिमवतोऽप्यधिकं स्वं विजानते ॥ १६ ॥
कलारावाः खगा यत्र क्वणन्ते कीचका अपि ॥
यक्षकिन्नरगन्धर्वैलभ्यते दुर्लभं पदम् ॥ १९ ॥
स्मरन्तो यत्र खद्योताः कृष्णपक्षे निशागमे ॥
आरार्तिकप्रदातॄणां देवस्याश्नुवते पदम् ॥1.3.2.4.२०॥
निष्प्रत्यूहकृताश्लेषा नित्यं यत्तटिनीरुहाः ॥
सौभीग्यगर्वतो देवीमपर्णामवमन्वते ॥२१॥
यस्योत्तुङ्गस्य शृङ्गाग्रसङ्गमा अपि तारकाः ॥
आत्मनो लब्धसामान्याश्चन्द्रेण बहु मन्वते ॥ २२ ॥
मृगाः सर्वेपि सततं चरन्तो यत्र सानुषु ॥
पाणिप्रणयिनं शम्भोरेणमप्यवजानते ॥ २३ ॥
यस्य पादान्तिकचरैः प्रायेण शबरैरपि ॥
निकुम्भकुम्भसादृश्यमयत्नादुपलभ्यते ॥ २४ ॥
किं बहूक्त्याभ्यसूयन्ते द्वैमातुरकुमारयोः ॥
यदङ्गरूढास्तरवस्तिर्यञ्चः शबरा अपि ॥ २५ ॥
सिंहव्याघ्रद्विपा यस्मिन्काले त्यक्तकलेवराः ॥
वासप्रदत्वान्मान्यन्ते ध्रुवं शोणाद्रिशम्भुना ॥ २६ ॥
अस्य भास्करनामाद्रिः पूर्वस्यां दिशि दृश्यते ॥
यत्र स्थितः सदा वज्री सेवते शोणपर्वतम् ॥२७॥
प्रतीच्यां दिशि दण्डाद्रिरिति कश्चिन्महीधरः ॥
प्राचेतसस्तदगगः सेवतेऽरुणपर्वतम् ॥ २८ ॥
दक्षिणस्यां च शोणाद्रेरद्रिरस्त्यमराचलः ॥
कालः शोणाद्रिसेवार्थमध्यास्ते तदधित्यकाम् ॥२९॥
उत्तरेऽस्मिन्हरिद्भागे सिद्धाध्यासितकन्दरः ॥
विराजते त्रिशूलाद्रिः श्रीदेन परिपालितः ॥ 1.3.2.4.३० ॥
तत्पर्यन्तप्रभूतानामन्येषामपि भूभृताम् ॥
तटकेष्वपरे चैव दिक्पालाः पर्युपासते ॥ ३१ ॥
धारिता येन सततं सर्वेपि धरणीरुहाः ॥
आराधनादप्यधिकमधिगच्छन्ति वैभवम् ॥ ३२ ॥
यस्मिन्गिरीशे सन्दृष्टे मेनातुहिनभूभृतोः ॥
समानसम्बन्धतया प्रमोदो वर्द्धतेतराम् ॥ ३३ ॥
तरुपल्लवलक्षेण लक्ष्यमाणजटाधरः ॥
स्थावरोयं स्वयं शम्भुरिहेश इव जङ्गमः ॥ ३४ ॥
ज्योतिष्मत्तोयशृङ्गस्य द्विपार्श्वस्थेन्दुभास्करः ॥
व्यनक्ति स्वस्य लोकेभ्यस्तेजस्त्रितयनेत्रताम् ॥ ३५ ॥
वर्षासु शिखराधस्तादभिनीलबलाहकः ॥
विराजते यः कण्ठेन कालकूटमिवोद्वहन् ॥ ३६ ॥
सहस्रपादः साहस्रशीर्षो यः पर्वतेश्वरः ॥
उक्तो न केवलं श्रुत्या साक्षादप्युपलक्ष्यते ॥ ३७ ॥
शिरोलीनामरसरित्स्रोताः प्रागिति नाद्भुतम् ॥
गिरीशोऽद्यापि यः शृङ्गलीनानेकसरिद्गणः ॥ ३८ ॥
आसादितापकटकः शारदैर्यः पयोधरैः ॥
विडम्बयति गोश्रेष्ठमारूढवृषपुङ्गवम् ॥ ३९ ॥
यत्र शृङ्गाग्रसंलग्रसंलग्ननीललोहितः ॥
स्थाणुत्वं स्थावरत्वेन गहनत्वेन भीमताम् ॥ 1.3.2.4.४० ॥
सुदुर्गमत्वादुग्रत्वमपि धत्ते न नामतः ॥
क्षुद्राः सरीसृपा यत्र कटकेषु कृतास्पदाः ॥ ४१ ॥
तक्षकानन्तसर्पाद्यैः स्पर्धन्ते भुजगेश्वरैः ॥
अष्टाभिर्योऽभितः कोणैराविभूर्तो विभूतिभिः ॥ ४२ ॥
सुस्पष्टं विशिनष्टीव स्वकीयामष्टमूर्तिताम् ॥
येर्ण्याशक्तितरङ्गिण्यो इडापिङ्गलयोः स्वयम् ॥ ४३ ॥
शिवस्य शृङ्गतो मध्ये सुषुम्ना कमलापगा ॥
ज्योतिःस्तम्भस्वरूपस्य मूलाग्रे यस्य वीक्षतुम् ॥ ४४ ॥
कोलहंसाकृती नालं ब्रह्मविष्णू बभूवतुः ॥
ताभ्यां च प्रार्थितः शम्भुस्तस्मिन्सान्निध्यवानभूत् ॥ ४५ ॥
अरुणाचलनाथाख्यं प्रपन्नः प्रमदैः समम् ॥
गौतमस्तत्र योगीन्द्रः सहस्रं परिवत्सरान् ॥ ४६ ॥
तप्त्वा तपांसि तीव्राणि साक्षाच्चक्रे सदाशिवम् ॥
प्रालेयशैलकन्यापि तत्र कृत्वा तपः पुरा ॥ ४७ ॥
अलब्ध वामदेहार्द्धं मन्मथारेः प्रसेदुषः ॥
गौर्या प्रतिष्ठितं तत्र प्रवालाद्रीश्वराभिधम् ॥ ४८ ॥
लिङ्गं भोगप्रदं पुंसां कैवल्याय प्रकल्पते ॥
तत्र गौरीनिदेशेन दुर्गा महिषमर्दिनी ॥ ४९ ॥
साक्षाद्भूय सतां दत्ते मन्त्रसिद्धिमविघ्नतः ॥
खड्गतीर्थमिति ख्यातं तत्र गौर्याश्रमे नवम् ॥ 1.3.2.4.५० ॥
सकृन्निमज्जनान्नॄणां पञ्चपातकनाशनम् ॥
दुर्गया चार्चितं लिङ्गं पापनाशननामकम् ॥ ५१ ॥
सकृत्प्रणाममात्रेण सर्वपापप्रणाशनम् ॥
तत्र वज्राङ्गदो राजा वित्तसारो व्यतिक्रमात् ॥ ५२ ॥ पुनस्तद्भक्तिमाहात्म्याच्छिवसायुज्यमाप्तवान् ॥
तस्य प्रदक्षिणेनैव कान्तिशालिकलाधरौ ॥ ५३ ॥
विद्याधरेश्वरौ मुक्तौ दुर्वासःशापबन्धनात् ॥
नास्ति शोणाद्रितः क्षेत्रं नास्ति पञ्चाक्षरान्मनुः ॥ ५४ ॥
नास्ति माहेश्वराद्धर्मो नास्ति देवो महेश्वरात् ॥
नास्ति ज्ञानं शिवज्ञानान्नास्ति श्रीरुद्रतः श्रुतिः ॥५५ ॥
नास्ति शैवाग्रणीर्विष्णोर्नास्ति रक्षा विभूतितः ॥
नास्ति भक्तेः सदाचारो नास्ति रक्षाकराद्गुरुः ॥ ५६ ॥
नास्ति रुद्राक्षतो भूषा नास्ति शास्त्रं शिवागमात् ॥
नास्ति बिल्वदलात्पत्रं नास्ति पुष्पं सुवर्णकात्॥५७॥
नास्ति वैराग्यतः सौख्यं नास्ति मुक्तेः परं पदम् ॥
नारुणाद्रेः समो मेरुर्न कैलासो न मन्दरः ॥ ५८ ॥
ते निवासा गिरिव्याप्ताः सोऽयं तु गिरिशः स्वयम् ॥ ५९ ॥
इति वदति शिलादनन्दने मुदितमनाः स मृकण्डुनन्दनः ॥
पुनरपि बहुशः प्रणम्य तं चकितमना भवतो व्यजिज्ञपत् ॥ ॥ 1.3.2.4.६० ॥
किं किं नृणां कर्म भवाय जायते कथं नु तत्तन्नरकाय श्रूयते ॥
तेषां च तेषां च कथं प्रतिक्रिया कथं नु तत्तन्मम कथ्यतामिति ॥ ६१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उतरार्धेऽरुणाचलस्थानमाहात्म्यवर्णनन्नाम चतुर्थोऽध्यायः ॥ ४ ॥ ॥ छ ॥