००३ उत्तरार्धेऽरुणाचलाख्यरहस्यस्थानप्रश्नवर्णनम्

॥ मार्कण्डेय उवाच ॥ ॥
भगवन्वञ्चनेनालं त्वदेकप्रवणे मयि ॥
किं मादृशोऽस्ति ते शिष्यस्त्वत्कृपैवात्र साक्षिणी ॥ १ ॥
स्थानेषु प्राक्त्वदुक्तेषु फलानि च पृथक्पृथक् ॥
यत्र सर्वफलप्राप्तिः स्थानं तद्वद मे विभो ॥ २ ॥
चराचराणां भूतानां जानतामप्यजानताम् ॥
यस्य स्मरणमात्रेण मुक्तिस्तद्वद देशिक ॥ ३ ॥
पश्यैतेन मयैकेन भगवान्नानुराध्यसे ॥
सर्वैरप्येतदर्थं हि मुनिभिः परिवार्यसे ॥ ४ ॥
पुलहेन पुलस्त्येन वशिष्ठेन मरीचिना ॥
अगस्त्येन दधीचेन नक्रुणा भृगुणात्रिणा ॥ ५ ॥
जाबालिना जैमिनिना धौम्येन जमदग्निना ॥
उपयाजेन याजेन भरतेनार्वरीवता ॥ ६ ॥
पिप्पलादेन कण्ठेन कुमुदेनोपमन्युना ॥
कुमुदाक्षेण कुत्सेन वत्सेन वरतन्तुना ॥ ७ ॥
विभाण्डकेन व्यासेन कण्वरीषेण कण्डुना ॥
माण्डव्येन मतङ्गेन कुक्षिणा माण्डकर्णिना ॥ ८ ॥
चण्डकौशिकशाण्डिल्यशाकटायनकौशिकैः ॥
शातातपमधुच्छन्दोगर्गसौभरिरोमशैः ॥ ९ ॥
आपस्तम्बपृथुस्तम्बभार्गवोदङ्कपर्वतैः ॥
भारद्वाजेन दाल्भ्येन दान्तेन श्वेतकेतुना ॥ 1.3.2.3.१० ॥
कौण्डिन्यपुण्डरीकाभ्यां रैभ्येण तृणबिन्दुना ॥
वाल्मीकिना नारदेन वह्निना दृढमन्युना ॥ ११ ॥
बोधायनसुबोधाभ्यां हारीतेन मृकण्डुना ॥
दुर्वाससातितीक्ष्णेन जालपादेन शक्तिना ॥ १२ ॥
काङ्क्वार्येण नदन्तेन देवदत्तेन न्यङ्कुना ॥
सुश्रुता चाग्निवेश्येन गालवेन मरुत्वता ॥ १३ ॥
लोकाक्षिणा विश्रवसा सैन्धवेन सुमन्तुना ॥
शिशुपायनमौद्गल्यपथ्यचावनमातुरैः ॥ १४ ॥
ऋष्यशृङ्गैकपात्क्रौञ्चदृढगोमुखदेवलैः ॥
अङ्गिरोवामदेवौर्वपतञ्जलिकपिञ्जलैः ॥ १५ ॥
सनत्कुमारसनकसनन्दनसनातनैः ॥
हिरण्यनाभसत्याख्यवाताशनसुहोतृभिः ॥ १६ ॥
मैत्रेयपुष्पजित्सत्यतपःशालीष्यशैशिरैः ॥
निदाघोतथ्यसंवर्त्तशौल्कायनिपराशरैः ॥ १७ ॥
वैशम्पायनकौशल्यशारद्वतकपिध्वजैः ॥
कुशस्वार्चिककैवल्ययाज्ञवल्क्याश्वलायनैः ॥ १८ ॥
कृष्णातपोत्तमानन्तकरुणामलकप्रियैः ॥
चरकेण पवित्रेण कपिलेन कणाशिना ॥ १९ ॥
नरनारायणाभ्यां च दिव्यैश्चान्यैर्महर्षिभिः ॥
मत्प्रश्नोत्तरशुश्रूषातत्परैः प्रत्यवेक्ष्यसे ॥ 1.3.2.3.२० ॥
माहेश्वराग्रगण्यस्त्वं समस्तागमपारगः ॥
व्याप्तश्च सर्वलोकेषु यस्मात्तदनुसाधि नः ॥ २१ ॥
त्वन्मुखादेव भगवन्वयमेते सुशिक्षिताः ॥
पूर्वमेव त्वया देव किं वान्यदुपपद्यते ॥ २२ ॥
दिव्यागमपुराणानि द्रष्टव्यः परमेश्वरः ॥
कात्यायनी वा स्कन्दो वा भगवान्वाथ वा भवान् ॥ २३ ॥
त्वयि यद्यस्ति नो भक्तिर्दया चास्मासु ते यदि ॥
रहस्यमिदमुद्घाट्य प्रसादं कर्तुमर्हसि ॥ २४ ॥
इत्थं मृकण्डुतनयेन स नन्दिकेशो विज्ञापितः सविनयं स्मयमानवक्त्रम् ॥
तं प्राह चोन्नततरं शिवभक्तिमस्तु प्राग्भक्तितोषितशिवाप्तशरीरसिद्धिम् ॥ २५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धेऽरुणाचलाख्यरहस्यस्थानप्रश्नवर्णनन्नाम तृतीयोऽध्यायः ॥ ३ ॥ ॥ ॥ छ ॥