नन्दिकेश्वर उवाच ॥ ॥
स्थानं त्वया मुने पृष्टमस्ति माहेश्वराग्रणि॥
चराचराणां सर्वेषां भूतानामपि शर्मणे ॥ १ ॥
प्रकल्पितं हि देवेन तत्तत्कर्मानुगुण्यतः ॥
शरीरभाजां जननं तासुतास्वपि योनिषु ॥ २ ॥
त्वया शुश्रुषितं तेषां हिताय महते ह्यलम् ॥
अन्यथा संसृतेर्हानिः कल्पकोटिशतैर्नहि ॥ ३ ॥
स्वल्पैर्हि कर्मभिर्ज्ञानैरपि प्राप्ता पुनःपुनः ॥
घटीयन्त्रनयाज्जन्ममरणे नैव शाम्यतः ॥ ४ ॥
कथं नु विरतो देही गर्भमोकसमागमात् ॥
विश्रान्तये प्रकल्पेत विशुद्धज्ञानतो विना ॥ ५ ॥
प्रदेशाः कथिताः पूर्वं प्रसङ्गवशतो मया ॥
ऋषिभेदादिकं तेषु निवासः कृत्तिवाससः ॥ ६ ॥
केचित्तीरेषु गङ्गायाः केचित्सारस्वते तटे ॥
कालिन्दीतीरयोरन्ये कतिचिच्छोणरोधसि ॥७॥
अपरे नर्मदातीरे परे गोदावरीतटे ॥
कतिचिद्गोमतीतीरेष्वन्ये हैमवतीतटे ॥८॥
समुद्रपार्श्वेष्वितरं द्वीपेष्वन्ये सरस्वताम् ॥
मुखेषु केचित्सिन्धूनां सम्भेदेष्वपि केचन ॥९॥
कृष्णवेणीतटे केचित्तुङ्गभद्रान्तिके परे ॥
उपवेण्यां कतिपये परे शक्त्यापगान्तिके ॥ 1.3.2.2.१० ॥
कावेरीतीर इतरे केचिद्वेगवतीतटे ॥
अन्ये तु ताम्रपर्ण्याश्च कतिचिन्मुरलातटे ॥ ११ ॥
केचिदैरावतीतीरे त्वितरे यातुकाङ्क्षिके ॥ १२ ॥
कन्यातटेषु कतिचित्कतिचित्कुमारीतीरे परे च तमसावरुणान्तिकेन्ये ॥
मन्दाकिनीसविधयोरितरे परेऽपि शिप्रातटे परिसरेषु परे सरय्वाः ॥ १३ ॥
विपाशाभ्याश इतरे शतद्रुतितटे परे ॥
चर्मण्वत्युपकण्ठेऽन्ये केचिद्भीमरथीतटे ॥ १४ ॥
केचिद्बिन्दुसरोभ्यर्णे परे पम्पासरस्तटे ॥
अभ्यर्णकेपि भैरव्याः कतिचित्कौशिकीतटे॥ १५ ॥
अपरे मालिनीतीरे परे गन्धवतीतटे ॥
कतिचिन्मानसोपान्ते केचिदच्छोदरोधसि ॥ १६ ॥
इन्द्रद्युम्नसरस्यन्य एके तु मणिकर्णिके ॥
परे तु वरदातीरे ताप्यां कतिचनापरे ॥
पातालगङ्गासविधे शरावत्यन्तिके परे ॥ १७ ॥
लोहित्याकूलयोः केचित्कतिचित्कालमातटे ॥
वितस्तोपान्तिके त्वन्ये चन्द्रभागान्तिके परे ॥ १८ ॥
सुरलोपान्तिके केचित्पयोष्णीतीरयोः परे ॥
केचिन्मधुमतीतीरे केचनानु पिनाकिनीम् ॥ १९ ॥
उक्तं वाराणसीक्षेत्रं क्रोशपञ्चकपावनम् ॥
देवस्तत्राविमुक्ताख्यो विशालाक्ष्या समर्चितः ॥ 1.3.2.2.२० ॥
कपालमोचनं यत्र यत्रास्ते कालभैरवः ॥
मृतानां यत्र रुद्रत्वं काशीं विद्धि हि तां मुने ॥ २१ ॥
गयाप्रयागावपि ते कथितौ सर्वसिद्धिदौ ॥
यत्र पिण्डप्रदानेन तुष्यन्ति पितरः किल ॥ २२ ॥
आकर्णितं च केदारं यस्मिन्महिषरूपधृक् ॥
देवोपि च हतो देव्या सर्वश्रेयस्करो नृणाम् ॥ २३ ॥
सर्वसिद्धिकरं पुंसां क्षेत्रं बदरिकाश्रमम् ॥
यत्रास्ते त्र्यम्बको देव्या नरनारायणार्चितः ॥ २४ ॥
श्रुतं हि नैमिषं क्षेत्रं त्वया यत्र महेश्वरः ॥
देवदेवाभिधः पुण्यो देवी सारङ्गधारिणी ॥ २५ ॥
अमरेशमिति स्थानं प्रोक्तं सर्वार्थसाधकम् ॥
ॐकारनामा तत्रेशश्चण्डिकाख्या महेश्वरी ॥ २६ ॥
पुष्कराख्यं महास्थानं श्रुतं ते कथितं मया ॥
यत्र देवो रुजोगन्धिः पुरुहूता महेश्वरी ॥ २७ ॥
आषाढीनाम ते स्थानं पावनं कथितं मया ॥
आषाढेशो हरस्तत्र रतीशा परमेश्वरी ॥ २८ ॥
दण्डिमुण्डी समाख्यं च स्थानं ते कथितं मया ॥
यत्र मुण्डी महादेवो दण्डिका परमेश्वरी ॥२९॥
लाकुलन्नाम ते स्थानं संशुद्धं कथितं मया ॥
लाकुलीशो हरो यस्मिन्ननङ्गा सर्वमङ्गला ॥ 1.3.2.2.३० ॥
भारभूतिरिति स्थानं भवतोऽभिहितं मया ॥
यत्र भाराभिधः शम्भुर्भूत्याख्या भूधरात्मजा ॥ ३१ ॥
अरालकेश्वरं नाम स्थानं ते कथितं मया ॥
यत्र सूक्ष्माभिधः शूली सूक्ष्माख्या शैलनन्दिनी ॥ ३२ ॥
गयानाम महाक्षेत्रं तव प्रस्तावितं मया ॥
मङ्गलाख्या शिवा यत्र शङ्करः प्रपितामहः ॥ ३३ ॥
कुरुक्षेत्रमिति स्थानं भवते विनिवेदितम् ॥
यत्र स्थाणुप्रिया देवी देवः स्थाणुसमाह्वयः ॥ ३४ ॥
उक्तं कनखलन्नाम मया ते स्थानमुत्तमम् ॥
उग्रो यत्र पुरारातिरुग्रा गिरिवरात्मजा ॥ ३५ ॥
तालकाख्यं महाक्षेत्रं मार्कण्डेय मयोदितम् ॥
देवी स्वायम्भुवी यत्र स्वयम्भूः परमेश्वरः ॥ ३६ ॥
अट्टहासमिति प्रोक्तं महास्थानं मया तव ॥
यत्रार्कः पूजयित्वेशमासीत्पूर्णमनोरथः ॥ ॥ ३७ ॥
कृत्तिवासाभिधं क्षेत्रमुक्तं ते वेदवित्तम ॥
यः कैलासादपि श्लाघ्यो निवासः कृत्तिवाससः ॥ ३८ ॥
भ्रमराम्बिकया देव्या महेशो मल्लिकार्जुनः ॥
श्रीशैले सृष्टिसिद्धयर्थं पूजितः परमेष्ठिना ॥ ३९ ॥
सुवर्णमुखरीतीरे कालहस्तीति शङ्करः ॥
व्यासेनाराधितो भृङ्गमुखरालकयाम्बया ॥ 1.3.2.2.४० ॥
काञ्च्यामेकाम्रमूलस्थः कामाक्ष्या कामशासनः ॥
तपस्यन्त्याभिसंश्लिष्टो वलयेनाङ्कितोऽभवत् ॥ ४१ ॥
अस्ति व्याघ्रपुरन्नाम तिल्लिकाननमध्यगम् ॥
यत्र नृत्यन्तमीशानं पर्युपास्ते पतञ्जलिः ॥ ४२ ॥
श्वेतारण्यमिति स्थानमुक्तं तव मया पुरा ॥
भग्नमैरावतो दन्तं भेजे यत्र शिवार्चनात् ॥ ४३ ॥
सेतुबन्धमिति स्थानमवोचं तत्र राघवः ॥
रामनाथाख्यया देवमंहोघ्नं प्रत्यतिष्ठिपत् ॥ ४४ ॥
गतप्रत्याह्वय स्थानं विद्यते वृषभध्वजः ॥
यत्र जम्बूतरोर्मूले जगद्रक्षार्थमाश्रितः ॥ ४५ ॥
मणिमुक्तानदीमन्वक्क्षेत्रे वृद्धाचलाह्वये ॥
नित्यं सन्निहितो देव इत्याकर्णित एव ते ॥ ४६ ॥
श्रीमन्मध्यार्जुनन्नाम श्रुतं स्थानमनुत्तमम् ॥
यस्मिन्वरप्रदो नित्यं गौरीसहचरो हरः ॥ ४७ ॥
आस्थितं सोमनाथेन सोमतीर्थं त्वया श्रुतम् ॥
यत्र त्यक्तवतां देहं न भूयो भवबन्धनम् ॥४८॥
आकर्णितं हि भवता क्षेत्रं सिद्धवटाह्वयम् ॥
यत्र सिद्धाः समर्चन्ति ज्योतिर्लिङ्गमनुत्तमम् ॥ ४९ ॥
अश्रावि खलु ते क्षेत्रं कमलालयसञ्ज्ञकम् ॥
वल्मीकेशार्चनाल्लेभे यत्र श्रीर्जीविता हरेः ॥ 1.3.2.2.५० ॥
श्रुतवानसि कङ्काद्रिं यत्र सन्निहितो हरः ॥
इदानीमप्युपासाते मोक्षाय ब्रह्मकेशवौ ॥५१॥
श्रीमद्द्रोणपुरं वेत्सि यस्मिन्कलियुगक्षये ॥
नौकामारूढवानब्धौ क्षुभिते पार्वतीपतिः ॥ ५२ ॥
श्रुतं ब्रह्मपुरन्नाम क्षेत्रं यत्रेन्द्रजित्पुरा ॥
आर्यपुष्करिणीतीरे स्थापयामास धूर्जटिम् ॥ ५३ ॥
श्रीकोटिकाख्यं ज्ञानाभिक्षेत्रं यत्रेन्दुशेखरः ॥
समाराधयतां पुंसां पापकोटीर्व्यपोहति ॥ ५४ ॥
आकर्णितं च गोकर्णं शिवं यत्सन्निधानतः ॥
आरिराधयिषुः स्वर्गं जामदग्न्यो न काङ्क्षति ॥ ५५ ॥
त्रिपुरान्तकमुक्तं ते क्षेत्रं यत्र त्रियम्बकः ॥
निराकरोति निरयाद्भयं दृष्टवतां नृणाम् ॥ ५६ ॥
उक्तं कालाञ्जनं क्षेत्रं यद्वासी कालकन्धरः ॥
निर्वापयति भक्तानां घोरसंसारसञ्ज्वरम् ॥ ५७ ॥
प्रियालवणमाख्यातं क्षेत्रं यत्राम्बिकापतिः ॥
पयोर्थिने पयःसिन्धुं विततारोपमन्यवे ॥ ५८ ॥
क्षेत्रं प्रभासमुक्तं ते यत्र खण्डेन्दुशेखरः ॥
पूजितः शौरिसीरिभ्यां दत्तवानक्षयं फलम् ॥ ५९ ॥
वेदारण्यं विजानीषे यस्मिन्प्रमथनायकः॥
अभ्यर्थितोऽभून्मोक्षार्थं दक्षेण प्राक्कृतागसा ॥ 1.3.2.2.६० ॥
हेमकूटं त्वमश्रौषीः स्थानं विषमचक्षुषः ॥
पुंसां तपस्यतां यत्र पुनर्जननतो न भीः ॥ ६१ ॥
क्षेत्रं वेणुवनन्नाम विद्यते पापनाशनम् ॥
यत्र वंशलतागर्भाज्जातो मुक्तामणिः शिवा ॥ ६२ ॥
जालन्धरमिति स्थानमन्धकारेस्त्वया श्रुतम् ॥
लेभे गणपतां तत्र तपस्याभिर्जलन्धरः ॥ ६३ ॥
ज्वालामुखमिति स्थानमज्ञासीः कथितं मया ॥
यत्र ज्वालामुखी देवी कालरुद्रमपूजयत् ॥ ६४ ॥
अस्ति भद्रवटोनाम क्षेत्रमुक्तं श्रुतं त्वया ॥
त्र्यम्बकं यत्र हेरम्बः सम्पदे पर्यपूजयत् ॥ ६५ ॥
न्यग्रोधारण्यमुक्तं ते यत्रोग्रो निर्ममे किल ॥
उच्चण्डताण्डवं काल्या साकं सङ्घर्षमेयिवान् ॥ ६६ ॥
गन्धमादनसञ्ज्ञं तत्क्षेत्रमाकर्णितं त्वया ॥
आञ्जनेयेन रचितं यत्र मृत्युञ्जयार्चनम् ॥ ६७ ॥
गोपर्वतमिति स्थानं शम्भोः प्रख्यापितं मया ॥
यत्र पाणिनिना लेभे वैयाकरणिकाग्र्यता ॥ ६८ ॥
वीरकोष्ठमिति क्षेत्रस्थानं नन्ववधारितम् ॥
यत्र प्रचेतसा लेभे तपसा कविमुख्यता ॥ ६९ ॥
महातीर्थमिति प्रोक्तं जानीषे यत्र शम्भुना ॥
अध्यापितास्सुपर्वाणः सर्वेऽपि द्रुहिणादयः ॥ 1.3.2.2.७० ॥
मयूरपुरमुक्तं ते क्षेत्रं माहेश्वरं मया ॥
लेभे यत्र व्रतस्थेन ह्रादिनी वज्रपाणिना ॥ ७१ ॥
श्रीसुन्दरमिति क्षेत्रमुक्तं वेगवती तटे ॥
कलावपि युगे यस्मिन्देवदेवेन दीप्यते ॥ ७२ ॥
कुम्भकोणमिति स्थानं शम्भोर्वेत्सि हि यत्र सा ॥
गङ्गापि माघे सान्निध्यं कुरुते स्वाघशान्तये ॥ ७३ ॥
अनुगोदावरीतीरं त्र्यम्बकन्नाम ते श्रुतम् ॥
शक्तिं यत्र गुहो लेभे तारकासुरघातिनीम् ॥ ७४ ॥
श्रीपाटलं व्याघ्रपुरमाख्यातं वेदवित्तम ॥
त्रिशङ्कुना जातिशुद्ध्यै यत्र गङ्गाधरोर्चितः ॥ ७५ ॥
क्षेत्रं कदम्बपुर्य्याख्यं भवता चावधारितम् ॥
त्वत्कृते यत्र शूलेन कृतान्तं शम्भुरक्षिणोत् ॥ ॥ ७६ ॥
अविनाशाख्यमुक्तं ते क्षेत्रं यत्र वृषध्वजः ॥
सान्निध्यं पडिकण्ठाय विततार प्रसेदिवान् ॥ ७७ ॥
रक्तैकाननमाख्यातं मया क्षेत्रं तवानघ ॥
मित्रावरुणयोर्यत्र रुद्रोऽजनि वरप्रदः ॥ ७८ ॥
श्रीहाटकेश्वरं क्षेत्रं पातालस्थं त्वया श्रुतम् ॥
यत्र वैरोचनिर्देवं स्वपदप्राप्तयेर्चति ॥ ७९ ॥
वेत्सि शम्भोः प्रियावासं कैलासं नित्यसेवकः ॥
यत्र यक्षेश्वरस्त्र्यक्षमयर्चयति भक्तितः ॥ 1.3.2.2.८० ॥
स्थानानि खण्डपरशोरित्युक्तानि मया पुरा ॥
त्वयाप्यवधृतान्येव किं भूयः श्रोतुमिच्छसि ॥ ८१ ॥
इत्यूचिवानेष शिलादनन्दनो मुनेर्मृकण्डोस्तनयं मुनीश्वरम् ॥
भक्त्या नमन्तं पदयोः करेण पस्पर्श मौलौ करुणारसार्द्रः ॥ ८२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे महीमण्डलस्थविविधशिवक्षेत्रवर्णनन्नाम द्वितीयोऽध्यायः ॥ २ ॥