॥ श्रीगणेशाय नमः ॥
अथारुणाचलमाहात्म्योत्तरार्धम्
॥ व्यास उवाच ॥
वसन्तो नैमिषारण्ये मुनयः सूतमब्रुवन् ॥
॥ मुनय ऊचुः ॥ ॥
स्थानानामुत्तमं शैवं यत्स्थलं तद्वदस्व नः ॥ १ ॥
सूत उवाच ॥ ॥
यूयं शृणुत यत्पूर्वं नन्दीश्वरमुखाच्छ्रुतम्॥
मार्कण्डेयेन तद्वक्ष्ये मुनयः शृणुतादरात्॥२॥
॥मार्कण्डेय उवाच ॥
नन्दीश्वर त्वया प्रोक्तो महिमा माध्यमेश्वरः॥
मयाप्यवधृतः सर्वो भक्तिश्रद्धार्द्रचेतसा ॥३॥
तथापि वद मे भूयो देवदेव दयानिधे॥
अहं यत्परिपृच्छामि भवन्तं विहितादरः ॥४॥
त्वयाप्यविदितं किञ्चिन्नास्त्यत्र भुवनत्रये ॥
सर्वागमपुराणेषु बाह्येष्वाभ्यन्तरेषु च ॥५॥
स्वर्गापवर्गयोः पुंसां भूमिरेव विशिष्यते ॥
सर्वकर्माणि निर्मातुं तत्तत्फलपरायणैः ॥६॥
फलं च त्रिविधं पुंसां त्वयैव कथितं पुरा ॥
भूमौ सुखं स्वर्गभोगः कैवल्यमिति भेदतः ॥ ७ ॥
पुण्यक्षयेण क्षीयेत प्रायः प्राथमिकं द्वयम्॥
क्षीयते न तृतीयं तु कर्मणामेव नाश्रयात् ॥ ८ ॥
तत्सिद्धिस्तु त्वया प्रोक्ता विशुद्धज्ञानगोचरा ॥
सर्वेषां दुर्लभं शुद्धज्ञानं देहभृतां पुनः ॥९॥
तज्ज्ञानं कुत्र वा क्षेत्रे शास्त्रादिपठनं विना ॥
शिवपूजनमात्रेण सिद्ध्येत्सर्वशरीरिणाम् ॥ 1.3.2.1.१० ॥
ज्ञानयोगक्रियाचर्यास्वशेषाणां शरीरिणाम् ॥
अपि शैवागमोक्तासु न बुद्धिः सम्प्रवर्त्तते ॥ ११ ॥
यस्य स्थानस्य माहात्म्यादल्पैरपि शरीरिणः ॥
लप्स्यते नियमैः शुद्धज्ञानं तन्मम कथ्यताम् ॥ १२ ॥
भस्मरुद्राक्षवहनादीश्वरस्मरणात्सकृत् ॥
यत्र मुग्धैरपि श्रेयो लभ्यं तत्स्थानमुच्यताम् ॥ १३ ॥
अबुद्धिपूर्वकेणापि यत्र वासेन देहिनाम् ॥
अविघ्नं सेत्स्यते श्रेयः स्थानं तन्मेऽनुगृह्यताम् ॥ १४ ॥
जातानां वर्णसाङ्कर्य्ये तैरश्ची योनिमीयुषाम् ॥
स्थावराणामपि श्रेयो यत्र तत्क्षेत्रमुच्यताम् ॥१५॥
इतीरयित्वा स मृकण्डुनन्दनः समं मुनीन्द्रैरपरैर्महात्मभिः॥
पपात तस्याङ्घ्रिसरोरुहद्वये शिलादसूनोरखिलागमाब्धेः ॥ १६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे स्थानमाहात्म्यप्रस्ताववर्णनन्नाम प्रथमोऽध्यायः ॥।१॥