॥ ब्रह्मोवाच ॥ ॥
अथ गौरी पुरारातिं प्रणम्य जगदम्बिका ॥
अयाचत्तादृशा शम्भुमविनाभावमात्मनः ॥ १ ॥
इदं विज्ञापयामास लोकानुग्रहकारणात् ॥
कृपया परया पूर्णा गौरी संवादसुन्दरी ॥ २॥
न त्याज्यमेतत्ते रूपमत्र दृष्टिमनोहरम् ॥
अहं त्वया न च त्याज्या सापराधापि सर्वदा ॥
मनोहरमिदं रूपमेतत्ते लोकमङ्गलम् ॥ ३ ॥
आलोक्यतां सदा सर्वैर्दिव्यगन्धसमन्वितम् ॥
भुजङ्गगरलब्रह्मकपालशिवभस्मभिः ॥ ४ ॥
भीषणैरलमीशान जय वेषपरिग्रहैः ॥
सुकुमारो भवेर्दिव्यमाल्यगन्धाम्बरादिभिः ॥॥ ५ ॥
भूषितो रत्नभूषाभिर्विहरस्व महेश्वर ॥
आगता नित्यमीशान देवगन्धर्वकन्यकाः ॥ ६ ॥
सेवन्तामत्र देवेशं नृत्यवादित्रगीतिभिः ॥
गणाश्च मानुषा भूत्वा सेवन्तां त्वामहर्निशम् ॥ ७ ॥
त्वत्प्रसादादयं देव सुगन्धिः पुष्टिवर्द्धनः ॥
आवयोः सङ्गमो दृष्टो भूयात्सर्वार्थदायकः ॥ ८ ॥
गृहीतमत्र देवेश सर्वमन्त्रात्मकं वपुः ॥
चरितं तव कैङ्कर्यमस्तु भक्तिः सदा तव ॥ ९ ॥
ज्ञानाज्ञानकृतं नित्यमपराधसहस्रकम् ॥
क्षम्यतां तव भक्तानामनन्यशरणेक्षणात् ॥ 1.3.1.13.१० ॥
इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः ॥
तमेव वरदः प्रादाद्वरं सर्वमभीप्सितम् ॥ ११ ॥
आभाष्य गौरीं कुतुकाद्रन्तुकामः स्वयं शिवः ॥
धारय त्वं मृगमदं मनोज्ञमिदमूचिवान् ॥ १२ ॥
॥ महादेव उवाच ॥ ॥
पुलकाख्यो महान्दैत्यो मृगरूपी तपोधिकम् ॥
कृत्वा प्राप वरं मत्तः सौगन्ध्यं परमाद्भुतम् ॥ १३ ॥
लब्ध्वा वरं स्वगन्धेनामोहयत्सुरयोषितः ॥
तथैवाधर्मसम्प्राप्तो बबाधे सकलं जगत् ॥ १४ ॥
देवैरभ्यर्थितः सोहमाहूयासुरनायकम् ॥
विमुञ्च लोकरक्षार्थमासुरं देहमित्यशाम् ॥ १५ ॥
॥ पुलक उवाच ॥ ॥
त्यक्ष्यामि देवदेवेश देहमेतं त्वदाज्ञया ॥
प्रणम्य भक्तिमनसा मामप्यर्चेदमूचिवान् ॥ १६ ॥
मदङ्गसम्भवं दिव्यं सौरभं विश्वमोहनम् ॥
धार्यतां देव देवेश सदा सादरचेतसा ॥ १७ ॥
पुलकस्वेदजातो हि सदा प्रख्यायतां तव ॥
अयं मृगमदो लोके शृङ्गाररसवर्द्धनः ॥ १८ ॥
त्वत्प्रियः कान्तिसौभाग्यरूपलावण्यदायकः ॥
विसृजामि निजं देहं देवदेव जगत्पते ॥ १९ ॥
सदा बहुमतो देव्या दिव्यसौरभलुब्धया ॥
मदंशसम्भवा ये स्युर्मत्तपोलब्धसौरभाः ॥ 1.3.1.13.२० ॥
लीयन्तां तव देवेश मूर्तावालेपनच्छलात् ॥
तथेति मय्युक्तवति स दैत्यः पुलकाभिधः ॥ २१ ॥
विससर्ज निजं देहं मयिसन्यस्तजीवितः ॥
ततस्तदङ्गसम्भूतं मदं बहुलसौरभम् ॥ २२ ॥
अधारयमहं प्रेम्णा शतशृङ्गारवर्द्धनम् ॥
तपसा देवदेवेशि तप्तं तव वपुः कृशम् ॥ २३ ॥
मदङ्गं च वियोगात्त इदं निर्वापयाधुना ॥
इति प्रशस्य बहुधा पुलकस्नेहमद्भुतम् ॥ २४ ॥
आलिलिम्प महादेवः पार्वतीं प्रेममन्दिराम् ॥
अपृच्छच्च हसन्देवः पार्वतीं ललनाकृतिम् ॥ २५ ॥
किमेतदिति हस्तोत्थं दृष्ट्वा तं जगदम्बिका ॥
अब्रवीदरुणाद्रीशमानम्य जगदम्बिका ॥ ॥ २६ ॥
आगतिं तस्य पुष्पस्य सदा स्वकरवर्तिनः ॥ २७ ॥
॥ देव्युवाच ॥ ॥
अहं कैलासशिखराद्देवदेव त्वदाज्ञया ॥
तपः कर्तुमनुप्राप्ता काञ्चीं कनकतोरणाम् ॥ २८ ॥
अवाप्य मानसोद्भूतं कह्लारमिदमुत्तमम् ॥
आराधयं महादेवमम्लानगुरुसौरभम् ॥ २९ ॥
यदक्षयमविश्रान्तमर्चनायोजितं मया ॥
अविच्छिन्नमहादीप्तिः कामधेनुघृताप्लुतः ॥ 1.3.1.13.३० ॥
अवेक्षणीयो भूपालैरनुपाल्यश्च सर्वदा ॥
धर्मलक्षणमाधेयं लोकरक्षार्थमादरात् ॥ ३१ ॥
सर्वाभीप्सितसिद्ध्यर्थं मत्प्रीतिकरणाय च ॥
मया संस्थापिता धर्मा द्वात्रिंशल्लोकगुप्तये ॥ ३२ ॥
रक्षणीया प्रयत्नेन तत्सन्निधिमुपागतैः ॥
सर्वालङ्कारसंयुक्तं सर्वभोगकृतोत्सवम् ॥
आलोक्यतामिदं रूपं कन्यायां मम कान्तिमत् ॥ ३३ ॥
॥ ब्रह्मोवाच ॥ ॥
इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः ॥ ३४ ॥
तथेति वरदः प्रादाद्वरं सर्वमभीप्सितम् ॥
एष शोणाचलः श्रीमान्दृश्यते लोकपूजितः ॥ ॥ ३५ ॥
सर्वदा वरदागौर्या सर्वभोगैश्च संवृतः ॥
य एतच्छाम्भवं रूपमरुणाद्रितया स्थितम् ॥ ३६ ॥
सम्पश्यन्ति नमस्यन्ति कृतार्थाः सर्व एव ते ॥
अरुणाचलमाहात्म्यमेतच्छ्रण्वन्ति ये भुवि ॥ ३७ ॥
भवन्ति सततं तेषां समग्राः सर्वसम्पदः ॥
श्रीमत्त्वं वाक्पतित्वं च रूपमव्याहतं बलम् ॥ ३८ ॥
लभन्ते पापनाशं च माहात्म्यस्यास्य धारणात् ॥
सर्वतीर्थाभिषवणं सर्वयज्ञक्रियाफलम् ॥ ३९ ॥
सदाशिवप्रसादं च दत्ते शोणाद्रिदर्शनम् ॥ 1.3.1.13.४० ॥
इति कैलासशिखरात्प्राप्ता देवी शिवाज्ञया ॥
शापमोक्षगतवती शोणाचलनिरीक्षणात् ॥ ४१ ॥
स्थानेष्वन्येषु देवस्य विद्यमानेषु च क्षितौ ॥
दिवि चात्यन्तपुण्येषु शम्भुरत्र प्रसेदिवान् ॥ ४२ ॥
अयं सदाशिवः साक्षादरुणाचलरूपतः ॥
दृश्यते परमं तेजः सर्गस्थित्यन्तकारणम्॥ ४३ ॥
एतत्तु तैजसं लिगं सर्वदेवनमस्कृतम् ॥
दृश्यते कर्मभूरेषा तेन धर्माधिका मता ॥ ४४ ॥
अरुणाचलनाथस्य तेजसा धूतकल्मषाः ॥
भक्तिमन्तो नरा लोके सुखमाप्स्यन्ति सर्वतः ॥ ४५ ॥
प्रदक्षिणैर्नमस्कारैस्तपोभिर्नियमैरपि ॥
येऽर्चयन्त्यरुणाद्रीशं तेषां शम्भुर्वशङ्गतः ॥ ४६ ॥
न तथा तपसा योगैर्दानैः प्रीणाति शङ्करः ॥
यथा सकृदपि प्राप्तादरुणाचलदर्शनात् ॥ ४७ ॥
स्वयम्भुवः सदा वेदाः सेतिहासा दिवि स्थिताः ॥
परितो गिरिरूपास्ते स्तुवन्त्यरुणपर्वतम् ॥ ४८ ॥
एतस्य वैभवं सर्वं न मया न च शार्ङ्गिणा ॥
वचसा शक्यते वक्तुं वर्षकोटिशतैरपि ॥ ४९ ॥
देवाश्च हरिमुख्यास्ते कल्पकाद्याः सुरद्रुमाः ॥
प्रच्छन्नरूपाः सेवन्ते सर्वदैवारुणाचलम् ॥ 1.3.1.13.५० ॥
न तस्य कलिदोषः स्यान्नाधिव्याधिविजृम्भणा ॥
यत्र सम्पूज्यते लिङ्गमरुणाचलसञ्ज्ञितम् ॥ ५१ ॥
इत्येतत्कथितं सर्वं तव शम्भुपदाश्रयम् ॥
चरितं ह्यरुणस्यास्य कल्पपुण्यदुरासदम् ॥ ५२ ॥
॥ सूत उवाच ॥ ॥
इति विधिमुखनिःसृतामुदारामरुणगिरीशकथासुधापगां हि ॥
श्रुतिपुटयुगलात्पिबन्मनोज्ञां सनकमुनिस्तपसां फलं स लेभे ॥ ५३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे शिवेनारुणाचलस्य सर्वश्रैष्ठ्यवरप्रदानवर्णनन्नाम त्रयोदशोऽध्यायः ॥ १३ ॥।छ॥
अरुणाचलमाहात्म्यस्य पूर्वार्द्धं सम्पूर्णम् ॥ ॥
इत्यरुणाचलमाहात्म्यपूर्वार्धं समाप्तम् ॥ ( ३।१) ॥