॥ ब्रह्मोवाच ॥ ॥
इति सम्भाषमाणे तु महर्षौ मुनि सेविते ॥
विजहौ गिरिजा शङ्कां शिवभक्तवधाश्रिताम् ॥ १ ॥
अथान्तरिक्षादुदभूद्वाणी कर्णमनोहरा ॥
मा गमः शैलकन्ये त्वं पापनिप्कृतिकारणात् ॥ २ ॥
गङ्गा च यमुना सिन्धुर्गोदापि च सरस्वती ॥
नर्मदा सा च कावेरी शोणः शोणनदी च सा ॥ ३ ॥
अत्रैव नव तीर्थानि सम्भवन्तु शिलातले ॥
त्वत्खड्गदारिते देवि कुरु तत्राघमर्षणम् ॥ ४ ॥
अस्मिन्नाश्वियुजे मासि ज्येष्ठानक्षत्र आगते ॥
निमज्य खड्गतीर्थे त्वं सलिङ्गा मासमावस ॥ ५ ॥
निवर्त्य सावनं मासमत्र दिक्पालसम्मितम् ॥
ततः पाणिस्थितं लिङ्गं लब्ध्वा पापविशोधनम् ॥ ६ ॥
प्रतिष्ठापय तीर्थाग्रे लोकानुग्रहकारणात् ॥
उत्तीर्य तीर्थवर्येऽस्मिन्स्नात्वा लिङ्गेऽर्चिते शिवे ॥ ७ ॥
तापत्रयोपशान्तिश्च त्रैलोक्यस्य न संशयः ॥
सर्वपापहरं लिङ्गं स्थावरं तीर्थसन्निधौ ॥ ८ ॥
स्थापय स्थिरया भक्त्या सदालोकहिताय च ॥
नक्षत्रे वैश्वदैवत्ये देवक्याः सङ्गमाचर ॥ ९ ॥
महोत्सवसमायुक्तं यावद्दशदिनावधि ॥
कृत्वा चावभृथं पुण्यनक्षत्रे वह्निदैवते ॥ 1.3.1.12.१० ॥
सायमभ्यर्च्य विधिवच्छोणाचलवपुर्मम ॥
ततस्ते दर्शयिष्यामि तैजसं रूपमात्मनः ॥ ११ ॥
एतत्कृतं ते लोकानां रक्षायै सम्भविष्यति ॥
इति तद्वचनं श्रुत्वा महर्षिवचनं च सा ॥ १२ ॥
उभयं कर्तुमारेभे तपसा शैलकन्यका ॥
खङ्गेन दारयामास शिलातलमनाकुला ॥ १३ ॥
उदजृम्भत तीर्थानां नवकं तत्र तत्क्षणात् ॥
तस्य कण्ठस्थितं लिगं ध्यायन्ती पर्वतात्मजा ॥ १४ ॥
तीर्थे ममज्ज तस्मिन्सा मुनीनामभ्यनुज्ञया ॥
तीर्थानां नवकं तत्र सञ्जातं स्फटिकप्रभम् ॥ १५ ॥
अन्तर्वसतितः कान्त्या मेचकीकृतमञ्जसा ॥
वसन्त्यां शैलकन्यायां तीर्थे त्रिंशद्दिनं त्वथ ॥ १६ ॥
शम्भोर्विरहसन्तप्तं मनश्चञ्चलतां ययौ ॥
तत्र श्रिया सरोजानि चक्षुषोत्पलकाननम् ॥ १७ ॥
मन्दस्मितेन कुमुदं ससर्ज सलिलस्य सा ॥
देव्यास्तेनोदवासेन लोकास्तु निरुपद्रवाः ॥ १८ ॥
कृतार्थास्सहसा जातास्तत्तत्कालफलान्विताः ॥
मासान्ते सा समुत्तीर्य कृत्वा देव्युत्सवं तथा ॥ १९ ॥
कार्तिके मासि नक्षत्रे कृत्तिकाख्ये निशोदये ॥
पूजयित्वा तपःसिद्धैरुपचारैर्बहूदयैः ॥ 1.3.1.12.२० ॥
अरुणाद्रिमयं लिङ्गं तुष्टाव जगदम्बिका ॥
नमस्ते विश्वरूपाय शोणाचलवपुर्भृते ॥ २१ ॥
तेजोमयाद्रिलिङ्गाय सर्वपाततकनाशिने ॥
ब्रह्मणा विष्णुना च त्वं दुष्परिच्छेद्यवैभवः ॥ २२ ॥
अग्निरूपोऽपि सञ्छान्तो लोकानुग्रहक्लृप्तये ॥
शक्त्या च तत्त्वसङ्घातकरः कालानलाकृतिः ॥ २३ ॥
अद्रिश्रेष्ठारुणाद्रीश रूपलावण्यवारिधे ॥
विचित्ररूपमेतत्ते वेदवेद्यसुरार्चितम् ॥ २४ ॥
तेजसां देव सर्वेषां बीजभूतं निगद्यसे ॥
दिव्यं हि परमं तेजस्तव देव महेश्वर ॥ २५ ॥
यत्पुरा ब्रह्मणा दृष्टं विष्णुना च विचिन्वता ॥
अद्य पूतास्मि देवेश तव सन्दर्शनादहम् ॥॥ २६ ॥
तेजो दर्शय मे दिव्यं सर्वदोषहरं परम् ॥
प्रार्थयन्त्यां तदा देव्यामरुणाद्रिमयः शिवः ॥ २७ ॥
आविर्बभूव तेजोभिरापूर्य भुवनान्तरम् ॥
कोटिसूर्योदयप्रख्यं तुल्यं पूर्णेन्दुकोटिभिः ॥ २८ ॥
कालाग्निकोटिसङ्काशं तेजः परमदृश्यत ॥
प्रणम्य परया भक्त्या मुनिभिः सार्धमम्बिका ॥॥ २९ ॥
विस्मयाक्रान्तहृदया ननन्द नलिनेक्षणा ॥
अथ तेजोनिधेस्तस्मादरुणाद्रिः समुत्थितः ॥ 1.3.1.12.३० ॥
हिरण्मयोऽब्रवीद्वाचं पुरुषः कलकन्धरः ॥
प्रसन्नोऽस्मि तपोभिस्ते स्थानेषु मम कल्पितैः ॥ ३१ ॥
तेजोमयमिदं रूपमीक्षितं च त्वयाधुना ॥
कारणैर्बहुभिर्लोकान्रक्षेथास्त्वं जगन्मयि ॥ ३२ ॥
तपांसि कुरुषे भूमौ किमन्यत्प्रार्थितं तव ॥
मल्लोचनत्विषा तेद्य तमोराशिः समुत्थितः ॥ ३३ ॥
अशेषो हि प्रशान्तोऽभूत्तेजसोऽस्य निरीक्षणात् ॥
अयं तु महिषो दुष्टो मद्भक्तिं लिङ्गपूजकः ॥ ३४ ॥
जग्राह सहसा ह्येतत्तस्य लिङ्गं गले स्थितम् ॥
अनेन भक्षितं तच्च नास्तिकस्योपदेशतः ॥ ३५ ॥
अकरोन्मय्यविश्वासं लिङ्गरूपे गले स्थिते ॥
क्रमेण सोपि सम्प्राप्तो मुनिजन्म मनोहरम् ॥ ३६ ॥
मामेवाभ्यर्चयन्ध्यायन्गणनाथत्वमावसन् ॥
पूर्वजन्मनि भक्तोऽयं महिषोपि त्वया हतः ॥ ३७ ॥
चिरं मल्लिङ्गधृग्यस्मात्सिद्धिरस्यापि देव्यतः ॥
शिवलिङ्गेष्वविश्वासः शिवभक्तावमाननम् ॥ ३८ ॥
न कर्त्तव्यं सदा भक्तैस्तस्माद्वै मुक्तिकाङ्क्षिभिः ॥
दीक्षया रहितं लिगं येन सन्धार्यते बलात् ॥ ॥ ३९ ॥
न तादृशं फलं दत्ते वज्रवत्तं निहन्ति च ॥
न दोषस्तत्र किञ्चित्ते शोणाचलनिरीक्षणात् ॥ 1.3.1.12.४० ॥
सफला नयनावाप्तिः सर्वदोषविनाशनात् ॥
त्वत्पुत्रस्तन्यदानेन धात्र्योपकृतमात्मजे ॥ ४१ ॥
त्वामपीतकुचां चक्रे वत्सलां भक्तरक्षिणीम् ॥
नक्षत्रे कृत्तिकाख्येऽत्र तव सन्निधिलोभतः॥ ४२ ॥
प्रायश्चित्ताभिधानेन भवापीतकुचाभिधा ॥
पूजाशेषं समाधाय भक्तानुग्रहहेतवे ॥ ४३ ॥
भज मां करुणामूर्तिरपीतकुचनायिका ॥
इति देवस्य वचनमाकर्ण्यात्यन्तशीतलम् ॥ ४४ ॥
प्रणम्य प्रार्थितवती प्रोवाच च तमम्बिका ॥
देवदेव प्रसादेन त्वयानुग्रहशालिना ॥ ४५ ॥
एतत्ते दर्शितं तेजो दृष्टं देवैश्च मानवैः ॥
प्रत्यक्षं कृत्तिकामासि मद्व्रतान्तमहोत्सवे ॥ ४६ ॥
नक्षत्रे कृत्तिकाख्येऽस्मिंस्तेजस्ते दृश्यतां परम् ॥
तद्वीक्षितमिदं तेजः परमं प्रतिवत्सरम् ॥ ४७ ॥
दृष्ट्वा समस्तैर्दुरितैर्मुच्यतां सर्वजन्तवः ॥
तथेति देवदेवेन प्रोचेऽथान्तर्दधे गिरौ ॥ ४८ ॥
प्रदक्षिणं चकारैनं सखीभिः सा ततोंऽबिका ॥
घनश्यामलया कान्त्या परितो जृम्भमाणया ॥ ४९ ॥
अरुणाद्रिमयं लिङ्गं चक्रे मरकतप्रभम् ॥
मन्दं चरन्ती जाताभिः प्रभाभिः पादपद्मयोः ॥ 1.3.1.12.५० ॥
तस्तार परितो भूमिं पद्मपत्रैः सपल्लवैः ॥
प्रफुल्लकनकाम्भोजनीलोत्पलदलोत्करैः ॥ ५१ ॥
अर्चयन्तीव शोणाद्रिमभितो दृष्टिकान्तिभिः ॥
इन्द्रादिलोकपालानामङ्गनाभिर्निषेविता ॥ ५२ ॥
प्रसादिता मातृगणैर्गन्धदानविभूषणैः ॥
छत्रचामरभृङ्गारतालवृन्तफलाचिकाः ॥ ५३ ॥
वहन्तीभिः सुरस्त्रीभिर्वृता मुनिवधूयुता ॥
प्रदक्षिणं चकारैनमरुणाद्रिं स्वयम्प्रभम् ॥॥ ५४ ॥
काङ्क्षन्ती शिवसायुज्यं विवाहाग्निमिवाद्रिजा ॥
तस्यां प्रदक्षिणं भक्त्या कुर्वाणायां पदेपदे ॥ ५५ ॥
प्रेषिता शम्भुना देवाः परिवव्रुः सुरेश्वराः ॥
सरस्वतीसमं धात्रा विष्णुना च समं रमा ॥ ५६ ॥
सर्वदिक्पालकान्ताभिः समेता शैलबालिका ॥
निरुन्धतीव देवेन्द्रं सलिलैर्वरदानतः ॥ ५७ ॥
अद्रिनाथस्वरूपस्य शीतत्वमिव कुर्वती ॥
तपस्ययाऽविनाभावाद्देवस्येव कृतस्मृतिः ॥ ५८ ॥
दुष्करस्योदवासस्य बोधयन्तीव साधुताम् ॥
ऋषीणां देवमानानामुपदेष्टुमिव क्रमात् ॥ ५९ ॥
क्रीडामिव पुराभ्यस्तां तपसापि च सङ्गता ॥
आत्मानं विरहोत्तप्तामात्मस्थं तादृश शिवम् ॥ 1.3.1.12.६० ॥
सञ्चिन्त्य चोभयोः कर्तुं शीतलत्वं जले स्थिता ॥
तीर्थानामिव सर्वेषामुद्भूतानां शिलातले ॥ ६१ ॥
आधिक्यमथ लोकस्य वक्तुकामा स्वयं स्थिता ॥
दुरितघ्नं च पञ्चाग्निमर्थावासं सुदुष्करम् ॥ ६२ ॥
अधिगम्य तपस्तस्य शान्तिं कर्तुमिव स्थिता ॥
महिषासुरकण्ठोत्थरक्तधारापरिप्लुतम् ॥ ६३ ॥
क्षालयन्तीव लिङ्गं तदमलैस्तीर्थवारिभिः ॥
अरुणाख्यं पुरं रम्यं निर्मितं विश्वकर्मणा ॥ ६४ ॥
अपीतकुचनाथेशशोणाद्रीश्वरतुष्टये ॥
शृङ्गेषु यस्य सौधेषु वसन्त्यो वारयोषितः ॥ ६५ ॥
अधःकृताभ्रतडितो जिगीषन्तीव चामरीः ॥
यत्तुङ्गसौधशृङ्गाग्रे गायन्तीर्वारयोषितः ॥ ६६ ॥
सिद्धचारणगन्धर्वविद्याधरविराजितम् ॥
अष्टापदरथाक्रान्तमष्टवीथिविराजितम् ॥ ६७ ॥
अष्टापदपथाकारमष्टदिक्पालपूजितम् ॥
अष्टसिद्धियुतैः सिद्धैरष्टमूर्तिपदाश्रयैः ॥ ६८ ॥
अष्टाङ्गभक्तियुक्तैस्तैर्युक्तमष्टाङ्गबुद्धिभिः ॥
चातुर्वर्ण्यगुणोपेतमुपवर्णं परिष्कृतम् ॥ ६९ ॥
लसत्सुवर्णदुवर्णशालामालासमास्थितम् ॥
शङ्खदुन्दुभिनिस्साणमृदङ्गमुरजादिभिः ॥ 1.3.1.12.७० ॥
वीणावेणुमुखैस्तालैः सालापैरुपरञ्जितम् ॥
ब्रह्मघोषनिनादेन महर्षीणां शिवात्मनाम् ॥ ७१ ॥
सेवितव्यं दिने दिव्यसमदर्शवृषध्वजम् ॥
नवरत्नप्रभाजालैर्नवग्रहसमोदयैः ॥७२॥
निशादिवसयोरेवं दर्शयन्निव सर्वदा ॥
विष्णुः स्थितश्च तं प्रीत्या सिषेवे पुरतो विभुम् ॥ ७३ ॥
शक्रः सुरगणैः सार्धं सहस्राक्षः समाययौ ॥
पपात दिव्यगन्धाढ्या पुष्पवृष्टिः समन्ततः ॥ ७४ ॥
व्योमगङ्गाजलोत्सङ्गशीतलो मरुदाववौ ॥
अतीव सौरभामोदवासिताखिलदिङ्मुखः ॥ ७५ ॥
कनकाङ्कितशृङ्गाग्रपरिधूतवनावलिः ॥
दर्पसम्भ्रमसन्नद्धो ननाद वृषभो मुहुः ॥ ७६ ॥
वसन्तप्रमुखाः सर्वे सहर्षमृतवः पुरः ॥
असेवन्त प्रियकरैः पुष्पैः स्वयमथोचितैः ॥ ७७ ॥
गणैश्च विविधाकाराः सिद्धाश्च परमर्षयः ॥
सुराश्च कुतुकोपेताः समागच्छन्दिदृक्षवः ॥ ७८ ॥
कुङ्कुमक्षोदसम्मिश्रकर्पूररजसान्वितः ॥
चर्यामुष्टिमहासारः समकीर्यत सर्वतः ॥ ७९ ॥
अथ मृदङ्गकमर्दलझल्लरीपटहदुन्दुभितालसमन्वितैः ॥
जलजकीचककाहलनिस्वनैः सुरकृतैर्भुवन समपूरयन् ॥ 1.3.1.12.८० ॥
सुरवधूजननृत्तनिरन्तरोल्लुलिततुम्बरुगायनगीतिभिः ॥
अभिवृतो मुनिदेवगणान्वितो वृषगतः समदर्शि वृषध्वजः ॥ ८१ ॥
सरसमेत्य शिवः करुणानिधिर्नतमुखीमपि तामपलज्जया ॥
ललितमङ्कमनङ्गरिपुः शिवां धृतिमहानधिरोप्य जहर्ष सः ॥ ८२ ॥
ललितया निजया प्रिययान्वितः सुरमुनीन्द्रसमाजसमावृतः ॥
ललितमप्सरसां मुहुरादरान्नटनमैक्षत गीतिसमन्वितम् ॥ ८३ ॥
अथ शिवः सुरराजसमर्पिताञ्छुभपटीरमुखानिलसौरभान् ॥
हिमगिरिप्रहितांश्च समग्रहीन्मृगमदैः सह गन्धसमुच्चयान् ॥ ८४ ॥
समनुलेपितहारसुमण्डितावभिगतौ सिततां समलङ्कृतौ ॥
स्वयमपीतकुचाकुचकुड्मलावरणरम्भणचञ्चलसत्करौ ॥ ८५ ॥
कठिनतुङ्गघनस्तनकोरकस्थगितमङ्गलगन्धमनोहराम् ॥
गिरिसुतामधिगम्य शिवः स्वयं विरहतापमशेषमपाकरोत् ॥ ८६ ॥
अथ विनोदशतैरुपलक्षितां निजवियोगजताप कृशान्विताम् ॥
अरुणशैलपतिः स्वयमद्रिजां वरमभीप्सितमर्थय चेत्यशात् ॥ ८७ ॥
सकुतुकं प्रणिपत्य नगात्मजा पुररिपुं भुवनत्रयगुप्तये ॥
इममयाचत शोणगिरीश्वरं वरमुदारमनुग्रहसम्मुदम् ॥ ८८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे देव्याः शिवसमागमवर्णनन्नाम द्वादशोऽध्यायः ॥ १२ ॥