०११ महिषासुरशिरःसंलग्रतावृत्तान्तवर्णनम्

॥ ब्रह्मोवाच ॥ ॥
स तु सिंहस्थितां गौरीं ज्वलन्ती विविधायुधाम् ॥
शैलवर्षेण महता कुपितः समपूरयत् ॥ १ ॥
शरवर्षेण महता तन्निवार्य विदूरतः ॥
बिभेद निशितैः शस्त्रैरशेषं तस्य विग्रहम् ॥ २ ॥
भिद्यमानोऽपि दैत्येन्द्रः शैलसारप्रदुर्धरः ॥
विषादं नागमत्किञ्चिद्ववृधे युद्धदुर्मदः ॥ ३ ॥
भिद्यमानः स खड्गेन चक्रैरसिभिर्ऋष्टिभिः ॥
शूलेन चायुधैश्चान्यैरन्तर्धानमगाहत ॥॥ ४ ॥
ततः सिंहाकृतिर्भीमः प्रचण्डनिनदाननः ॥
तीक्ष्णदंष्ट्रः शितनखः परिबभ्राम केसरी ॥ ५ ॥
देवीसिंहश्चपेटेन ताडयामास पाणिना ॥
दैत्यसिंहस्य च नखैस्तस्य वक्षो व्यदारयत् ॥ ६ ॥
अथ व्याघ्रतया प्राप्तः स्फुटव्यात्ताननो महान् ॥
तं हन्तुं च बलाद्देवी वेगेन करमक्षिपत् ॥ ७ ॥
दीर्घाभिर्न्नीलरेखाभिः पूर्णः पिङ्गलविग्रहः ॥
यानावलिभिराकीर्णः स्वर्णाद्रिरिव सञ्चरन् ॥ ८ ॥
मृगैरिव परित्रातुं मुच्यमानोऽग्रतो बली ॥
ज्वलन्तमिव रोषाग्निं जिह्वाहेतिभिरावहन्॥९॥
आगच्छन्तं रयाद्देवी भल्लेन शशिवर्चसा ॥
प्रतिविव्याध तं व्याघ्रं पुरत्रयमिवेश्वरः ॥1.3.1.11.१०॥
स बाणस्तन्मुखे मग्नस्तद्रक्तेन समुक्षितः ॥
जगाहे गगनं भित्त्वा देहमस्य विनिर्गतः ॥ ११ ॥
स दैत्यो वारणो भूत्वा देवीमाश्वभ्युपागमत् ॥
बलिभिः पशुभिर्भिन्नैस्तस्याः प्रीतिमिवावहन् ॥ १२ ॥
तं गजेन्द्रं समायान्तं मदक्लिन्नमहीतलम् ॥
देवीसिंहस्तदा दृष्ट्वा ननर्द च जघान च ॥ १३ ॥
अथ खड्गधरो वीरश्चर्मपाणिः समुद्गतः ॥
वक्त्रं दधानो बभ्राम दंष्ट्राभ्रुकुटिभीषणम् ॥ १४ ॥
देवी च विलसत्खड्गचक्रचक्रलसत्करा ॥
युयोध तेन वीरेण भग्नशीर्षाभ्यपद्यत ॥ १५ ॥
भूयः स माहिषं रूपमास्थायासुरमायया ॥
देव्या योद्धुं प्रववृते यथापूर्वमनाकुलम् ॥ १६ ॥
अथ देवैमुनीन्द्रैश्च चोदितो गौतमो मुनिः ॥
प्रबोधयितुमारेभे स्तुतिभिर्जगदम्बिकाम् ॥ १७ ॥
त्वयि सर्वस्य जगतः प्राणशक्तिः परा मता ॥
ओजःशक्तिर्ज्ञानशक्तिर्बलशक्तिश्च गम्यते ॥ १८॥
किमेतदद्य मोहाय युद्धमारभ्यते त्वया ॥
उपसंह्रियतामेष दैत्यो भुवनगुप्तये ॥ १९ ॥
भिन्नानामस्य देहानामुपसंहरणात्तव ॥
वलयश्चोपदिश्यन्ते निगमोक्ता वरप्रदाः ॥1.3.1.11.२०॥
अन्यथा तृणकल्पस्य शत्रोरस्य निबर्हणे ॥
कालाग्निवर्चसो देवि किमर्थं सम्भ्रमस्त्वियान् ॥ २१ ॥
स्वशक्तिमवसंस्तभ्य समाकर्षयतां रिपोः ॥
प्राणशक्तिं त्रिशूलेन गुणत्रयवपुर्धृता ॥ २२ ॥
इति स्म बोधितातेन पुरा भगवती तदा ॥
महिषासुरमाक्रम्य त्रिशूलेनाभ्यधारयत्॥ २३ ॥
अनेकगिरिसङ्काशं देव्या विग्रहमात्मनः॥
अशक्तस्तं धारयितुं ससाद महिषासुरः ॥२४॥
निष्पिष्टो विलुठन्क्रोशन्नाक्रान्तश्च परिस्फुरन् ॥
निर्गन्तुमुद्गतशिरा न शशाकासुराधिपः ॥२५॥
त्रिशूलमुखभिन्नाङ्गरक्तधारासमुद्धतः ॥
समुद्र इव सञ्जातः सन्ध्यारुणकलेवरः ॥ ॥ २६ ॥
अथ खड्गेन तीक्ष्णेन कर्तयित्वा च तच्छिरः ॥
ननर्त्त तस्य शिरसि तिष्ठन्ती महिषार्दिनी ॥ २७ ॥
दुर्गां सिद्धाश्च गन्धर्वाः प्रशशंसुर्महर्षयः ॥
पुष्पवृष्टिश्च महती देवैर्मुक्ता समन्ततः ॥
प्रणतः प्राञ्जलिर्देवीं तुष्टाव विबुधाधिपः ॥ २८ ॥
॥ इन्द्र उवाच ॥ ॥
नमस्ते जगतां मात्रे भूतानां बीजसंविदे ॥ २९ ॥
भक्तिः श्रद्धा च भजतां शक्तिश्चासि त्वमम्बिके ॥
कारणं परमा कीर्तिः शातिर्दान्तिः कला क्षमा ॥ 1.3.1.11.३० ॥
एकैव विश्वरूपा त्वं नामभेदेर्निगद्यसे ॥
तेषुतेषु पदेष्वस्मांस्तपोऽनुगुणसिद्धिषु ॥ ३१ ॥
नियुज्य शत्रुं निर्भिद्य शिवा ज्ञेया प्रकाशसे ॥
हतोयं महिषो दुष्टो विनिकृत्तश्च शाम्भवि ॥ ३२ ॥
छिन्नमेतस्य तु शिरः सजीवमिव लक्ष्यते ॥
रक्तनेत्रं तीक्ष्णशृगं ज्वलज्जिह्वं चलं शिरः ॥ ३३ ॥
आक्रम्य तव तिष्ठन्त्या रूपमेव सदास्तु नः ॥
चक्रशृङ्गधनुर्बाणखङ्गचर्मवराभयैः ॥ ३४ ॥
शूलघण्टाङ्कुशकशाकपालकुलिशादिभिः ॥
अशेषदेवतामूर्तिरशेषैदेंवतायुधैः ॥ ३५ ॥
आपूरिता त्वमेवाम्ब सर्वशत्रून्निहंसि नः ॥
आयुधानां सहस्राणि तन्मयास्ते विभूतयः ॥ ३६ ॥
त्वज्जितारातयः सर्वे विविधायुधवाहनाः ॥
रथनागहयैर्युक्ताः ससैन्या अपि भूभृतः ॥ ३७ ॥
क्षणेन दग्धवीर्याः स्युस्त्वत्प्रसादविवर्जिताः ॥
अपदोऽप्यल्पवीर्योऽपि त्वत्पादाम्बुजसेवकः ॥ ३८ ॥
त्रिलोकनाथतां प्राप्तः प्रथते कीर्तिमण्डितः ॥
तद्रूपमिदमत्युग्रं ध्यायतामर्चतां सदा ॥ ३९ ॥
न शत्रुभ्यो भयं किञ्चिद्भवेद्विजयशालिनाम् ॥
ईदृशं सर्वलोकेषु रूपं ते देववन्दितम् ॥ 1.3.1.11.४० ॥
पूज्यतामिष्टसिद्ध्यर्थं देवैर्भृत्यैश्च सर्वदा ॥
मातरश्च त्वया सृष्टाः सर्वाभीष्टफलप्रदाः ॥ ४१ ॥
सगणाः प्रतिपूज्यन्तां सर्वस्थानेषु सर्वदा ॥
अयं च निहतो दैत्यस्त्वत्पादकृतलाञ्छनः ॥ ४२ ॥
तव भक्तैः सदा पूज्यस्त्वत्प्रमादात्त्वदग्रतः ॥
इत्थं सुरेन्द्रप्रणुता सर्वर्षिसुरसेविता ॥ ४३ ॥
तथेति वरदा देवी ससर्ज च दिवं प्रति ॥
स्वयमप्यात्मनस्तत्र तद्रूपं विविधायुधम् ॥॥ ४४ ॥
संस्थाप्य मातृभिः सार्धं स्थानरक्षणमातनोत् ॥
सङ्गृह्य विमलं रूपं सखीजनसमावृता ॥ ४५ ॥
महिषस्य शिरोऽपश्यद्विकृतं खङ्गधारया ॥
कथयन्ती पुनस्तस्य चित्रं लोकविभूषणम् ॥ ४६ ॥
सखीभिः सह सा बाला कण्ठं तस्य व्यलोकयत् ॥
अपश्यच्च तदा लिगं कर्त्तुं तस्य च पूजनम् ॥ ४७ ॥
आदत्त सहसा गौरी लिगं तस्य गले स्थितम् ॥
आलोकयच्च सुचिरं रक्तधारापरिप्लुतम् ॥ ४८ ॥
आसज्जत पुनर्लिङ्गमस्याः पाणितलं गतम् ॥
विमोचयितुमुद्युक्ता नाशक्नोल्लग्नमञ्जसा ॥ ४९ ॥
अचिन्तयच्च सा देवी किमेतदिति विस्मयात् ॥
विषादेन च संयुक्ता महर्षीणां पुरः स्थिता ॥ 1.3.1.11.५० ॥
आहतः शिवभक्तोऽयमिति शोकं समाविशत् ॥
अगर्हत भृशं मौढ्यमात्मनः स्त्रीस्वभावजम् ॥ ५१ ॥
अविचार समारब्धं शिवभक्तनिबर्हणम् ॥
उपतापपरीताङ्गी गौतमं मुनिसत्तमम् ॥ ५२ ॥
उपगम्याब्रवीद्बाला साहसं कृतमात्मना ॥
भगवन्सर्वधर्मज्ञ गौतमार्य मुनीश्वर ॥ ५३ ॥
मान्यया धर्मरूपेण कोऽप्यधर्मः प्रकल्पितः ॥
देवानां रक्षणं कर्तुमभयं दातुमुद्यता ॥ ५४ ॥
अज्ञानान्महिषं दैत्यं शिवभक्तिममर्दयम् ॥
रजसाक्रान्तबुद्धीनां न भवेद्धर्मसङ्ग्रहः ॥ ५५ ॥
गुरुप्रसादसुलभः स्फुरद्विघ्नशताकुलः ॥
सुदुर्धर्षा निराचारदुर्दमाः शिवसंश्रयाः ॥ ५६ ॥
विशेषतो लिङ्गधराः शिवस्तान्बहु मन्यते ॥
पुरा पुरत्रयावासा दैतेया लिङ्गधारका ॥ ५७ ॥
अजिताः शम्भुना पूर्वं मुक्तलिङ्गा निषूदिताः ॥
अस्य कण्ठस्थितं लिङ्गं मम पाणिं न मुञ्चति ॥ ५८ ॥
कथं पापं निरस्यामि शिवभक्तवधाश्रितम् ॥
अस्य कण्ठस्थितं लिङ्गं धारयन्ती तपोन्विता ॥ ५९ ॥
तीर्थयात्रां करिष्यामि यावच्छम्भुः प्रसीदति ॥
पुनः कैलासमुख्येषु शम्भुस्थानेषु भूरिषु ॥ 1.3.1.11.६० ॥
तीर्थेषु रचितस्नाना लप्स्ये पापविशोधनम् ॥
इति तस्याः परिश्रान्तिं दुर्धर्मपरिशङ्कया ॥ ६१ ॥
आकर्ण्य शिवधर्मज्ञो भयार्त्तां तामवोचत ॥
मा भैषीर्गिरिजे मोहाच्छिवभक्तो हतस्त्विति ॥ ६२ ॥
धर्मसूक्ष्मार्थवेत्तारौ दुर्लभा गिरिकन्यके ॥
सदा शिवस्य वदनैः सद्योजातादि संश्रितैः ॥ ६३ ॥
आगमाः पञ्चभिः प्रोक्ता अष्टाविंशतिकोटयः ॥
निर्णयाः शिवभक्तानां शिवमार्गस्य शोभनाः ॥ ॥ ६४ ॥
तेषुतेषु मुनीन्द्रैश्च नत्वैव प्रतिपद्यते ॥
कालो मुखं च कङ्कालं शैवं पाशुपतं तथा ॥ ६५ ॥
महाव्रतं पञ्च चैताः शिवमार्गप्रवृत्तयः ॥
भेदाश्च बहवस्तेषामन्योन्यस्य शिवे रताः ॥ ६६ ॥
साध्य एको हि बलवान्सर्वैस्तैरनिशं शिवः ॥
सर्व एव सदा पूज्याः स्वधर्मपरिनिष्ठितैः ॥ ६७ ॥
अमत्सरैः शिवे भक्तैः शिवाज्ञापरिपालकैः ॥
वेदैश्च बहुभिर्यज्ञैर्भक्त्या च परया शिवः ॥ ६८ ॥
आराध्यते महादेवः सर्वदा सर्वदायकः ॥
जीवहिंसा न कर्त्तव्या विशेषण तपस्विभिः ॥ ६९ ॥
शिवधर्मस्य भेत्तारो निहन्तव्यास्तथाञ्जसा ॥
न वेषजुषि वीक्षेत न लिगं नैव सम्भवम् ॥ 1.3.1.11.७० ॥
शिवधर्मस्य भेत्तारं हन्यादेवाविचारयन् ॥
बहुभिः स्फूर्तया बुद्ध्या धर्मविद्भिर्निरूपिते ॥ ७१ ॥
शिवधर्मस्य विलये सद्यः शक्तिः प्रवर्तते ॥
अस्य कर्म पुनर्दिष्टं लिङ्गमैश्वर्यचर्चितम् ॥ ७२ ॥
न जेतुं शक्यते देवि तेनासौ सर्वदैवतैः ॥
यदयं निहतो देवि त्वया शङ्करमान्यया॥ ७३ ॥
आक्रान्तः शापदोषेण महर्षीणां शिवाश्रयात् ॥
अथ ते कुपितास्तस्य वैषम्यादवमानतः ॥ ७४ ॥
शेपुर्महिषवद्दुष्टो महिषोऽयं भवत्विति ॥
ततस्तद्वचनात्सद्यो महिषोऽभूत्क्षणात्तथा ॥ ७५ ॥
प्रणम्य तोषयामास ययाचे शापमोचनम् ॥
दत्त्वा प्रकामरूपत्वं ददुरस्मै प्रसादिताः ॥ ७६ ॥
महिषत्वेपि संहारं स्वयं देव्या शिवाज्ञया ॥
विषादो न च कर्त्तव्यो अङ्गदर्शनतस्त्वया ॥ ७७ ॥
सिद्धानां शिवरूपाणामवज्ञा कं न बाधते ॥
महिषत्वे समुत्पन्ने दोषेण समुपस्थिते ॥ ७८ ॥
सिद्धप्रसादाल्लब्धोऽयं शापनाशस्त्वया कृतः ॥
सर्वे लोकाश्च सन्त्राता दुष्टोयं परिरक्षितः ॥ ७९ ॥
शापदोषसमुत्पन्ने महिषत्वे विमोचिते ॥
त्वया च गिरिशप्रीत्यै तपः कुर्वाणयाद्रिजे ॥ 1.3.1.11.८० ॥
द्रष्टव्यं तैजसं लिङ्गमरुणाचलसञ्ज्ञितम् ॥
पूर्वजन्मनि भक्तोऽयमरुणाद्रिपतेः स्फुटम् ॥ ८१ ॥
महिषत्वे मदाक्रान्तः परं लिङ्गेन सङ्गतः ॥
भक्त्या लिङ्गधरं हन्तुं कः समर्थो जगत्त्रये ॥ ८२ ॥
दृष्टाः पुरत्रये पूर्वं रुद्रेण पूजितास्त्रयः ॥
त्वत्खड्गपरिकृत्तेन कण्ठेनास्य वरानने ॥८३॥
दीक्षादिरहितं लिङ्गं दत्तं हन्तीति चोदितम् ॥
कृतं हि महिषेणापि भक्तितो लिङ्गधारणम् ॥ ८४ ॥
कदाचित्क्षपणोक्तानां विभाषात्प्रत्ययं गतः॥
पूर्वजन्मतपोयोगात्स्मरणो लिङ्गधारणात् ॥८५॥
त्वत्पादपद्मसंस्पर्शादयं मुक्तो न संशयः॥
मदुक्तनिष्कृतीनां तु पातकानां च नाशनम् ॥८६॥
दर्शनं शैलवर्यस्य प्रायश्चित्तं परं मतम् ॥
संस्थाप्य विविधाञ्छैवाञ्छिवसिद्धान्तवेदिनः ॥८७॥
आवाह्य सर्वतीर्थानि सर्वदोषनिवृत्तये॥
सरः किमपि सम्पाद्य स्नात्वा तत्र वरानने॥८८॥
अघमर्षणसंयुक्ता सलिङ्गा स्नानमाचर ॥
त्रिसन्ध्यं चैव मासान्ते देवयागमहोत्सवे ॥ ८९ ॥
आराधयोपचारैस्त्वमरुणाद्रिमयं शिवम् ॥ 1.3.1.11.९० ॥
एवं तस्य मुनेर्निशम्य वचनं शैवार्थसम्भावितं प्रीता देवनमस्कृता गिरिसुता देवी जगद्रक्षिका ॥
शैवं धर्ममिमं विधातुमुचितं शोणाचलस्याग्रतस्तीर्थागाहनबुद्धिमाशु विदधे कर्तुं त्वघक्षालनम् ॥ ९१ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे महिषासुरवधोत्तरं देवीपाणौ महिषासुरशिरःसंलग्रतावृत्तान्तवर्णनन्नामैकादशोऽध्यायः ॥ ११ ॥