००९ पूर्वार्धेऽरुणेश्वरप्रदक्षिणामाहात्म्यवर्णनम्

॥ गौतम उवाच ॥ ॥
भगवन्नरुणाद्रीश नामधेयानि ते भृशम् ॥
विशेषाच्छ्रोतुमिच्छामि स्थानेऽस्मिन्सुरपूजिते ॥ १ ॥
॥ महेश्वर उवाच ॥ ॥
नामानि शृणु मे ब्रह्मन्मुख्यानि द्विजसत्तम ॥
दुर्लभान्यल्पपुण्यानां कामदानि सदा भुवि ॥ २ ॥
शोणाद्रीशोऽरुणाद्रीशो देवाधीशो जनप्रियः ॥
प्रपन्नरक्षको धीरः शिवसेवकवर्धकः ॥ ३ ॥
अक्षिपेयामृतेशानः स्त्रीपुम्भावप्रदायकः ॥
भक्तविज्ञप्तिसन्धाता दीनबन्दिविमोचकः ॥ ४ ॥
मुखराङ्घ्रिपतिः श्रीमान्मृडो मृगमदेश्वरः ॥
भक्तप्रेक्षणकृत्साक्षी भक्तदोषनिवर्त्तकः ॥ ५ ॥
ज्ञानसम्बन्धनाथश्च श्रीहलाहलसुन्दकः ॥
आहवैश्वर्यदाता च स्मर्तृसर्वाघनाशनः ॥ ६ ॥
व्यत्यस्तनृत्यद्धृजधृक्सकान्तिर्नटनेश्वरः ॥
सामप्रियः कलिध्वंसी वेदमूर्तिर्निरञ्जनः ॥ ७ ॥
जगन्नाथो महादेवस्त्रिनेत्रस्त्रिपुरान्तकः ॥
भक्तापराधसोढा च योगीशो भोगनायकः ॥ ८ ॥
बालमूर्त्तिः क्षमारूपी धर्मरक्षो वृषध्वजः ॥
हरो गिरीश्वरो भर्गश्चन्द्ररेखावतंसकः ॥ ९ ॥
स्मरान्तकोंऽधकरिपुः सिद्धराजो दिगम्बरः ॥
आगमप्रिय ईशानो भस्मरुद्राक्षलाञ्छनः ॥ 1.3.1.9.१० ॥
श्रीपतिः शङ्करः स्रष्टा सर्वविद्येश्वरोऽनघः ॥
गङ्गाधरः क्रतुध्वंसो विमलो नागभूषणः ॥ ११ ॥
अरुणो बहुरूपश्च विरूपाक्षोऽक्षराकृतिः ॥
अनादिरन्तरहितः शिवकामः स्वयम्प्रभुः ॥ १२ ॥
सच्चिदानन्दरूपश्च सर्वात्मा जीवधारकः ॥
स्त्रीसङ्गवामसुभगो विधिर्विहितसुन्दरः ॥ १३ ॥
ज्ञानप्रदो मुक्तिदश्च भक्तवाञ्छितदायकः ॥
आश्चर्यवैभवः कामी निरवद्यो निधिप्रदः ॥ १४ ॥
शूली पशुपतिः शम्भुः स्वयम्भुर्गिरिशो मृडः ॥
एतानि मम मुख्यानि नामान्यत्र महामुने ॥ १५ ॥
अन्यानि दिव्यनामानि पुराणोक्तानि संस्मर ॥
प्रदक्षिणेन मां नित्यं विशेषात्त्वं समर्चय ॥ १६ ॥
प्रदक्षिणप्रियो यस्मादहं शोणाचलाकृतिः ॥
इत्याज्ञप्तो महादेवमर्चयन्नरुणाचलम् ॥
अविमुञ्चन्निहावासं कृतवानहमद्रिजे ॥ १७ ॥
॥ गौर्युवाच ॥ ॥
भगवन्सर्वधर्मज्ञ गौतमार्य्य मुनीश्वर ॥
प्रदक्षिणस्य माहात्म्यं ब्रूहि मे शोणभूभृतः ॥ १८ ॥
कस्मिन्काले कथं कार्यं कैर्वा पूर्वं प्रदक्षिणम् ॥
कृतं शोणाद्रिनाथस्य प्राप्तमिष्टं परं पदम् ॥ १९ ॥
॥ ब्रह्मोवाच ॥ ॥
इति पृष्टो मुनिः प्राह गौतमः शैलकन्यकाम् ॥
श्रूयतां देवि माहात्म्यमादिशन्मे महेश्वरः ॥ 1.3.1.9.२० ॥
॥ महादेव उवाच ॥ ॥
अहं हि शोणशैलात्मा प्रकाशो वसुधातले ॥ २१ ॥
परितो मां सुराः सर्वे वर्तन्ते मुनिभिः सह ॥ २२ ॥
यानि कानि च पापानि जन्मान्तरकृतानि च ॥
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥ २३ ॥
अश्वमेधसहस्राणि वाजपेयायुतानि च ॥
सिद्ध्यन्ति सर्वतीर्थानि प्रदक्षिणपदे पदे ॥ २४ ॥
अपि प्रहीणस्य समस्तलक्षणैः क्रियाविहीनस्य निकृष्टजन्मनः ॥
प्रदक्षिणीकृत्य शशाङ्कशेखरं प्रयास्यतः कस्य न सिद्धिरग्रतः ॥ २५ ॥
समस्त तीर्थाभिगमेषु पुण्यं समस्तयज्ञागमधर्मजातम् ॥
अवाप्यते शोणमहीधरस्य प्रदक्षिणाप्रक्रमणेन सत्यम् ॥ २६ ॥
पदेनैकेन भूलोकं द्वितीयेनान्तरिक्षकम् ॥
तृतीयेन दिवं मर्त्यो जयत्यस्य प्रदक्षिणे ॥ २७ ॥
एकेन मानसं पापं द्वितीयेन तु वाचिकम् ॥
कायिकं तु तृतीयेन पदेन क्षीयते नृणाम् ॥ २८ ॥
पातकानि च सर्वाणि पदेनैकेन मार्जयेत् ॥
द्वितीयेन तपः सर्वं प्राप्नोत्यस्य प्रदक्षिणात् ॥२९॥
पर्णशाला महर्षीणां सिद्धानां च सहस्रशः ॥
सुराणां च तथाऽऽवासा विद्यन्तेत्र सहस्रशः ॥ 1.3.1.9.३० ॥
अत्र सिद्धः पुनर्नित्यं वसाम्यग्रे सुरार्चितः॥
ममान्तरे गुहा दिव्या ध्यातव्या भोगसंयुता ॥ ३१ ॥
अग्निस्तम्भमयं रूपमरुणादिरिति श्रुतम् ॥
ध्यायल्ँलिङ्गं मम बृहत्मन्दं कुर्यात्प्रदक्षिणम् ॥ ३२ ॥
अष्टमूर्तिमयं लिङ्गमिदं यैस्तैजसं भृशम् ॥
ध्यात्वा प्रदक्षिणं कुर्वन्पातकानि विनिर्दहेत् ॥३३॥
न पुनः सम्भवस्तस्य यः करोति प्रदक्षिणाम् ॥
शोणाचलाकृतेर्नित्यं नित्यत्वं ध्रुवमश्नुते ॥३४॥
अस्य पादरजःस्पर्शात्पूयते सकला मही ॥
पदमेकं तु धत्ते यः शोणाद्रीशप्रदक्षिणे ॥ ३५ ॥
नमस्कुर्वन्प्रतिदिशं ध्यायन्स्तौति कृताञ्जलिः ॥
असंसृष्टकरः कैश्चिन्मन्दं कुर्यात्प्रदक्षिणम् ॥३६॥
आसन्नप्रसवा नारी यथा गच्छेदनाकुलम् ॥
तथा प्रदक्षिणं कुर्यादशृण्वंश्च पदध्वनिम् ॥३७॥
स्नातो विशुद्धवेषः सन्भस्मरुद्राक्षभूषितः ॥
शिवस्मरणसंसृष्टो मन्दं दद्यात्पदं बुधः ॥३८॥
मनूनां चरतामग्रे देवानां च सहस्रशः ॥
अदृश्यानां च सिद्धानां नान्येषां वायुरूपिणाम् ॥३९॥
सङ्घट्टमतिसम्मर्दं मार्गरोधं विचिन्तयन् ॥
अनुकूलेन भक्तः सञ्छनैर्दद्यात्पदं बुधः ॥1.3.1.9.४०॥
अथवा शिवनामानि सङ्कीर्त्य वरगीतिभिः॥
शिवनृत्यं च रचयन्भक्तैः सार्द्धं परिक्रमेत् ॥४१॥
माहात्म्यं मम वा शृण्वन्ननन्यमतिरादरात् ॥
शनैः प्रदक्षिणं कुर्यादानन्दरसनिर्भरः ॥ ४२ ॥
दानैश्च विविधैः पुण्यैरुपकारैस्तथार्थिनाम् ॥
यथामति दयापूर्ण आस्तिकः परितो व्रजेत् ॥४३॥
कृते त्वग्निमयं लिङ्गं त्रेतायां मणिपर्वतम् ॥
द्वापरे चिन्तयेद्धैमं कलौ मरकताचलम् ॥ ४४ ॥
अथवा स्फाटिकं रूपमरुणं तु स्वयम्प्रभम् ॥
ध्यायन्विमुक्तः सकलैः पापैः शिवपुरं व्रजेत् ॥ ४५ ॥
अवाङ्मनसगम्यत्वादप्रमेयतया स्वयम् ॥
अग्नित्वाच्च परं लिङ्गमनासाद्याचलाभिधम् ॥ ४६ ॥
ध्यात्वा प्रदक्षिणं कर्तुरभिगम्योऽहमञ्जसा ॥
तस्य पादरजो नृणामजरामरकारणाम् ॥ ४७ ॥
रूपमेकं तु धत्ते यः शोणाद्रीशप्रदक्षिणे ॥
वाहनानि सुरौघाणां प्रार्थयन्ते परस्परम् ॥ ४८ ॥
कुर्वतां चरणं वोढुमरुणाद्रिप्रदक्षिणाम् ॥
छायाप्रदानं कुर्वन्ति कल्पकाद्याः सुरद्रुमाः ॥ ४९ ॥
कुर्वतां भुवि मर्त्त्यानामरुणाद्रिप्रदक्षिणाम् ॥
देवगन्धर्वकाद्यानां सहस्रेण समावृताः ॥ 1.3.1.9.५० ॥
सेवन्ते ते गणाकीर्णा विमानशतकोटयः ॥
मम प्रदक्षिणं भूमौ कुर्वतां पादपांसुभिः॥ ५१ ॥
पाविता महती वीथी दृष्टा शिवपदप्रदा ॥
अङ्गप्रदक्षिणं कुर्वन्क्षणात्स्वर्ग्यतनुर्भवेत् ॥ ५२ ॥
प्राप्तो वज्रशरीरत्वं न धृष्येत महीतले ॥
व्योमयानोत्सुका देवाः सिद्धाश्च परमर्षयः ॥ ५३ ॥
अदृश्याः सञ्चरन्त्यत्र पश्यन्ते मम सन्निधिम् ॥
विनयं मम भक्तिं च प्रदक्षिणपरिक्रमे ॥ ५४ ॥
दृष्ट्वा हर्षसमायुक्ता मर्त्त्येभ्यो ददते वरम् ॥
अत्र देवास्त्रयस्त्रिंशत्पुरा कृत्वा प्रदक्षिणाम् ॥ ५५ ॥
प्रत्यहं मार्गमासीनाः प्रत्येकं कोटितां गताः ॥
आदित्याद्या ग्रहाः सर्वे पुरा कृत्वा प्रदक्षिणाम् ॥ ५६ ॥
सम्पूर्णजगतीभागे सर्वे ग्रहपतां गताः ॥
यः करोति नरो भूमौ सूर्यवारे प्रदक्षिणाम् ॥ ५७ ॥
स सूर्यमडलं भित्त्वा मुक्तः शिवपुरं व्रजेत् ॥
सोमवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ॥ ५८ ॥
अजरामरतां प्राप्तो नासौम्यो भवति क्षितौ ॥
भौमवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ॥ ५९ ॥
आनृण्यमखिलं प्राप्य सार्वभौमो भवेद्ध्रुवम् ॥
बुधवारे नरः कुर्वञ्छोणाद्रीशप्रदक्षिणाम् ॥ 1.3.1.9.६० ॥
सर्वज्ञतामनुप्राप्तः स वाचां पतितामियात् ॥
गुरुवारे नरः कुर्वन्सर्वदेवनमस्कृतः ॥ ६१ ॥
प्रदक्षिणेन शोणाद्रेः स तु लोकगुरुर्भवेत् ॥
भृगुवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ॥ ६२ ॥
सम्प्राप्य महतीं लक्ष्मीं लभते वैष्णवं पदम् ॥
मन्दवारे नरः कृत्वा शोणाद्रीशप्रदक्षिणाम् ॥ ६३ ॥
विमुक्तो ग्रहपीडाभिः स विश्वविजयी भवेत् ॥
नक्षत्राणि च सर्वाणि पुरा तद्दैवतैः सह ॥ ६४ ॥
मम प्रदक्षिणां कर्तुः पुण्यानि सहसा व्रजेत् ॥
तिथयः करणानीह योगाश्च मम सम्मताः ॥ ६५ ॥
अभीष्टफलदा जाताः कुर्वतां मत्प्रदक्षिणाम् ॥
मुहूर्ता विविधा होराः सौम्याश्च सततोदयाः ॥ ६६ ॥
मत्प्रदक्षिणकर्तृणां जायन्ते सततं शुभाः॥
प्रच्छिनत्ति प्रकारोऽघं दकारो वाञ्छितप्रदः ॥६७॥
क्षिकारात्क्षीयते कर्म णकारो मुक्तिदायकः॥
दुर्बलाः कार्श्यसंयुक्ता आधिव्याधिविजृम्भिताः ॥ ६८ ॥
मम प्रदक्षिणं कृत्वा मुच्यन्ते सर्वदुष्कृतैः ॥
मम प्रदक्षिणं कर्तुर्भक्त्या पादेन सन्ततम् ॥६९॥
क्षणेन साध्वां पश्यामि त्रैलोक्यस्य प्रदक्षिणाम् ॥
लोकेशाश्च दिगीशाश्च ये चान्ये कारणेश्वराः॥1.3.1.9.७०॥
मम प्रदक्षिणां कृत्वा स्थिरा राज्ये पुराऽभवन् ॥
अहं च गणसंयुक्तः सर्वदेवर्षिसंयुतः ॥७१॥
उत्तरायणसंयोगे करोमि स्वप्रदक्षिणाम् ॥
मद्रूपं तैजसं लिङ्गमरुणाद्रिरिति श्रुतम् ॥७२॥
त्रैलोक्यस्य हितार्थाय करिष्यामि प्रदक्षिणाम् ॥
आगता च परान्ते च गौरी तप इहाद्भुतम् ॥ ७३ ॥
कर्तुं प्रदक्षिणं कृत्वा मामेष्यत्यनघा पुनः ॥
कार्तिके मासि नक्षत्रे कृत्तिकाख्ये महातपाः ॥ ७४ ॥
मम प्रदक्षिणां गौरी प्रदोषे रचयिष्यति ॥
नराणामल्पपुण्यानां दुर्लभं तत्प्रदक्षिणम् ॥ ७५ ॥
ज्योतिर्लिगस्य दृष्टस्य देवी प्रार्थनया तथा ॥
मया समेता देवी सा प्राप्ताऽपीतकुचाभिधा ॥ ७६ ॥
आश्वास्यति सुरान्सर्वानुत्तरायणसङ्गमे ॥
देवगन्धर्वयक्षाणां सिद्धानामपि रक्षसाम् ॥ ७७ ॥
सर्वेषां देवयोनीनां भविता तत्र सङ्गमः ॥
ये तदा मां समागत्य पूजयन्ति तपोधिकाः ॥ ७८ ॥
सर्वजन्मकृताघौघ प्रायश्चित्तं व्रजन्ति ते ॥
दुर्ल्लभं तद्दिनं पुंसामुत्तरायणसङ्गमे ॥ ७९ ॥
तदा मद्रूपमभ्यर्च्य कृतार्थाः सन्तु मानवाः ॥
प्रदक्षिणं तु मे दिव्यं कुर्वन्ति च महीभुजः ॥ 1.3.1.9.८० ॥
तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः ॥
राजा यस्य तु देशस्य यो यो राजा तपोधिकः ॥ ८१ ॥
स कारयेद्विप्रमुख्यैः श्रोत्रियैर्मे प्रदक्षिणाम् ॥
मण्डलं मण्डलार्द्धं वा सङ्कल्पविधिपूर्वकम् ॥ ६२ ॥
तस्य तस्य स्थिरं राज्यं शत्रूणां च पराहतिम् ॥
करिष्यामि मुने नित्यमहमेव पुरःस्थितः ॥ ८३ ॥
न वाहनेन कुर्वीत मम जातु प्रदक्षिणाम् ॥
धर्मलुब्धमना जानञ्छिवाचारपरिप्लुतिम् ॥ ८४ ॥
धर्मकेतुः पुरा राजा यमलोकादुपागतः ॥
मम प्रदक्षिणां कर्त्तुं तुरगेणाभ्यरोचयत् ॥ ८५ ॥
क्षणेन तुरगो जातो गणनाथः सुरार्चितः ॥
प्रतिपेदे पदं शैवं विमुच्य धरणीपतिम् ॥ ८६ ॥
वीक्ष्य तं वाहनं भूयो गणनाथवपुर्द्धरम् ॥
पादप्रदक्षिणां कृत्वा स्वयं च गणपोऽभवत् ॥ ८७ ॥
तदाप्रभृति शक्राद्याः सुरा विष्णुसमन्विताः ॥
पादाभ्यामेव कुर्वन्ति मम सर्वे प्रदक्षिणाम् ॥ ८८ ॥
स्वर्गान्निपातितः कोऽपि सिद्धः काले तपःक्षयात् ॥
प्रदक्षिणां ततः कृत्वा पुनर्लब्धपदोऽभवत् ॥ ८९ ॥
स्खलितं पादजं रक्तं मम कर्तुः प्रदक्षिणम् ॥
मार्ज्यते तस्य देवेन्द्र मौलिमन्दारकेसरैः ॥ 1.3.1.9.९० ॥
प्रदक्षिणमहावीथी शिलाशकलघट्टितम् ॥
पदं सन्धार्यते पुंसां श्रीपयोधरकुङ्कुमैः ॥ ९१ ॥
मणिपर्वतशृङ्गेषु कल्पद्रुमवनान्तरे ॥
सञ्चरन्ति सदा मर्त्या मम कृत्वा प्रदक्षिणम् ॥ ९२ ॥
॥ गौर्युवाच ॥ ॥
उपचारप्रवृत्तानां फलं मे शम्स सुव्रत ॥
यैर्वै जनः कृतार्थः स्याद्यथाशक्ति कृतादरः ॥ ९३ ॥
॥ मुनिरुवाच ॥ ॥
उपचारफलं देवि शृणु वक्ष्याम्यहं तव ॥
यन्मह्यं कृपया पूर्वमुक्तवान्परमेश्वरः ॥ ९४ ॥
लूती तन्तुकजालानि संसृज्य क्वचिदेव मे ॥
जातिस्मरो महीध्रेऽस्मिन्सोंऽशुकैर्मां व्यवेष्टयत् ॥ ९५ ॥
गजः कश्चितृषाक्रान्तो विमुच्य च मधु क्वचित् ॥
वनपल्लवमुत्कीर्य मुक्तोऽभूद्गणनायकः ॥ ९६ ॥
कृमयो विलुठन्तो मे पार्श्वे दुरितवर्जिताः ॥
सिद्धवेषाः पुनः सर्वे मम लोकं व्रजन्ति ते ॥ ९७ ॥
अव्युच्छिन्नप्रदीपार्चिः क्षणमप्यादधाति यः ॥
स्वयम्प्रकाशः स भवन्मम सारूप्यमश्नुते ॥ ९८ ॥
हारीतः कोपि सम्प्राप्तः शाखानीडो ममान्तिके ॥
खद्योतो दीपवन्नक्तं तावन्मुक्तिं समागतः ॥ ९९ ॥
गावः प्रस्रवणैः सिक्ता वत्सस्मरणसम्भवैः ॥
मत्पार्श्वे मुक्तिमापुस्ता मम लोकं समाश्रयन् ॥ 1.3.1.9.१०० ॥
काकः पक्षजवातेन बलिग्रहणलोलुपः ॥
मार्जयन्मत्पुरोभागं मुक्तिं प्रापद्यत क्षणात् ॥ १०१ ॥
मूषको मद्गुहाभागं मणिसङ्घविकर्षणैः ॥
प्रकाशयन्वितिमिरं मम रूपमपद्यत ॥ १०२ ॥
छायावृक्षत्वमास्थातुं मुनयस्त्रिदशा अपि ॥
प्रार्थयन्त्येव मत्पार्श्वे न पुनःसम्भवेच्छया॥१०३॥
गोपुरं शिखरं शालां मण्डपं वापिकामपि ॥
कुर्वतां मत्पुरोभागे सिध्यन्तीष्टार्थसम्पदः ॥ १०४ ॥
सदा मर्त्त्यैरनासाद्यमग्निलिङ्गमिदं मम ॥
अनासाद्याचलेशाख्यं पूज्यतां वसुधातले ॥१०५॥
वीक्षणस्पर्शनध्यानैः स्वभूतं निखिलं जगत् ॥
पोषयन्ती परा शक्तिः पूज्याऽपीतकुचाभिधा ॥१०६॥
सर्वलोकैकजननी सम्प्राप्ता नित्ययौवनम्॥
यौवनप्रार्थिभिः सेव्या सदाऽपीतकुचाभिधा ॥ १०७॥
क्षणात्तस्य पुरोभागे वसतां प्राणिनामिह ॥
परत्र वात्र दुष्प्राप्यमिष्टवस्तु न विद्यते ॥१०८॥
अप्रमेयगुणाधारमपेक्षितवरप्रदम् ॥
अशेषभोगनिलयं शोणाद्रीशं समर्चय ॥१०९॥
लब्धकामा पुनः शम्भुमाश्रयिष्यसि सुव्रते ॥
तपश्चरणमप्येतत्तव लोकहितावहम् ॥ 1.3.1.9.११० ॥
न केवलं तव तपः स्ववाञ्छितफलप्रदम् ॥
तपस्यतामृषीणां च क्षेमायैव भविष्यति॥१११॥
कारणान्तरमाशङ्क्य तपः कुर्वन्ति देवताः ॥
रहस्यं देवतानां तु फलेनैवानुमीयते ॥ ११२ ॥
वयं च सहसंवासास्तव व्रतनिरीक्षणात् ॥
कृतार्थाः स्याम देवेशि तपसा नः कृतार्थता ॥ ११३ ॥
इति तस्य मुनेर्वाक्यमर्थगर्भं निशम्य सा ॥
गौरी कौतुकसंयुक्ता प्रशशम्स महामुनिम् ॥ ११४ ॥
तपः किमन्यत्कर्तव्यं लब्धं तव तु दर्शनम् ॥
अरुणाद्रिरयं दृष्टः श्रुतं माहात्म्यमस्य च ॥ ११५ ॥
अहो भूमेस्तु वैचित्र्यं यतो दृष्टा दिवोऽधिका ॥
यत्रैव तैजसं लिङ्गं देवतानां वरप्रदः ॥ ११६ ॥
शिवः प्रसादसिद्धो मे दर्शितं स्थानमात्मनः ॥
अत्रैव शिवमाराध्य वशीकुर्यां जगद्गुरुम् ॥ ११७ ॥
अविनाभूतमैक्यं मे देवेन भवतात्सदा ॥
त्वया कृतेन साह्येन भवेयं शिवनायिका ॥ ११८ ॥
इति गौतमसन्निधौ तदानीं कृतसंवित्तप आदरेण कर्तुम् ॥
अभजद्रुचिरां च पर्णशालां मुनिना चानुमता तथेति भक्त्या ॥ ११९ ॥
सुकुमारतनुः सरोरुहाक्षी घनतुङ्गस्तनकल्पितोत्तरीया ॥
जटिला हरिनीलरत्नकान्तिर्गिरिजा राजति देहवत्तपःश्रीः ॥ 1.3.1.9.१२० ॥
नियमैर्बहुभिस्तपोविशेषैः क्रतुषु प्राप्तविचित्रयोगबन्धैः ॥
निगमागमदृष्टधर्ममार्गं सकलं सा तु कृतार्थतामनैषीत् ॥ १२१ ॥
तपसा विविधेनतप्यमाना न कदाचित्परिखेदमाप तन्वी ॥
हरिरत्नमयी च कापि वल्ली नितरां दीप्तिमती बभूव बाला ॥ १२२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणेश्वरप्रदक्षिणामाहात्म्यवर्णनन्नाम नवमोऽध्यायः ॥ ९ ॥