००७ पूर्वार्धेऽरुणाचलस्थविविधतीर्थवर्णनम्

॥ पार्वत्युवाच ॥ ॥
कथमग्निमयं लिङ्गमभिगम्यमभूद्भुवि ॥
प्राणिनामपि सर्वेषामुपशान्तिं कथं गतः ॥ १ ॥
तीर्थानामुद्भवः पुण्यात्कथं चारुणपर्वतात् ॥
उपसंहृतसर्वाङ्गः कथं वा वद मेऽचलः ॥२॥
॥ गौतम उवाच॥ ॥
कृते त्वग्निमयः शैलस्त्रेतायां मणिपर्वतः ॥
द्वापरं हाटकगिरिः कलौ मरकताचलः ॥ ३ ॥
बहुयोजनपर्यन्तं कृते वह्निमये स्थिते ॥
बहिः प्रदक्षिणं चक्रुः प्रशाम्यति महर्षयः ॥४॥
शनैः शान्तोरुणाद्रीशः श्रीमानभ्यर्थितः सुरैः ॥
लोकगुप्त्यर्थमत्यर्थमुपशान्तोऽरुणाचलः ॥५॥
अथ गौरी मुनिं प्राह कथं शान्तोऽरुणाचलः ॥
कथं वा प्रार्थयामासुर्देवेशं त्रिदशा इमम्॥६॥
इति तस्या वचः श्रुत्वा गौतमस्त्वभ्यभाषत ॥
प्रशस्य भक्तिमतुलां तस्यास्तत्त्वार्थवेदिनीम् ॥७ ॥
॥ गौतम उवाच ॥ ॥
अग्निरूपं पुरा शैलमासादयितुमक्षमाः ॥
पुरा सुराः स्तुतिं चक्रुरभ्यर्च्य क्रतुसम्भवैः ॥ ८ ॥
भगवन्नरुणाद्रीश सर्वलोकहितावह ॥
अग्निरूपोऽपि संशान्तः प्रकाशस्य महीतले ॥ ९ ॥
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ॥
इति त्वां सकला वेदाः स्तुवन्ति शिवविग्रहम् ॥ 1.3.1.7.१० ॥
नमस्ताम्रायारुणाय शिवाय परमात्मने ॥
वेदवेद्य स्वरूपाय सोमाय सुखरूपिणे ॥ ११ ॥
त्वद्रूपमखिलं देव जगदेतच्चराचरम् ॥
निधानमिव ते रूपं देवानामिदमीक्ष्यते ॥१२॥
वर्षतां च पयोदानां निर्झराणां च भूयसाम् ॥
सलिलोपायसंहारो युक्तस्ते युगसङ्क्षये ॥१३॥
अग्नेरापः समुद्भूतास्त्वत्तो हि परमात्मनः ॥
विश्वसृष्टिं वितन्वति विचित्रगुण वैभवात् ॥ १४ ॥
शीतो भव महादेव शोणाचल कृपानिधे ॥
सर्वेषामपि जीवानामभिगम्यो भव प्रभो ॥ १५ ॥
इति स्तुतः सुरैः सर्वेरानतैर्भक्तवत्सलः ॥
सद्यः शीतलतां गच्छन्नभिम्योऽभवत्प्रभुः ॥ १६ ॥
प्रावर्त्तत पुनर्नद्यो निर्झराश्च बहूदकाः ॥
वर्षतामपि मेघानां न जग्राह जलं बहु ॥ ॥ १७ ॥
तथापि तरुणार्कोद्यत्कालाग्निशतकोटिभिः ॥
समानदीप्तिरभजज्जीवानामभिगम्यताम् ॥१८॥
विसृज्य विश्वसलिलं नदीश्च रसविक्षरैः ॥
सम्पूर्यः सकलैर्देवः सर्वदा सम्प्रकाशते ॥ १९ ॥
तीर्थानि तानि तान्यासन्परितः प्रार्थनावशात् ॥
दिक्पालानां सुराणां च महर्षीणां महात्मनाम् ॥॥ 1.3.1.7.२० ॥
॥ ब्रह्मोवाच ॥ ॥
इति तस्य वचः श्रुत्वा गौरी कुतुकसंयुता ॥
तीर्थानामुद्भवं सर्व श्रोतुं समुपचक्रमे ॥ २१ ॥
॥ पार्वत्युवाच ॥ ॥
कानि तीर्थानि जातानि शोणाद्रेर्लोकगुप्तये ॥
भगवन्ब्रूहि सकलं तीर्थानामुद्भवं मम ॥ २२ ।
इति तस्या वचः शृण्वन्गिरीशात्संश्रुतं पुरा ॥
तीर्थानामुद्भवं सर्वं व्याख्यातुमुपचक्रमे ॥ २३ ॥
॥ गौतम उवाच ॥ ॥
ऐन्द्रं नाम महातीर्थमिन्द्रभागे समुत्थितम् ॥
तत्र स्नात्वा पुरा शक्रो ब्रह्महत्यां व्यपोहयत् ॥ २४ ॥
ब्रह्मतीर्थं पुनर्दिव्यं वह्निःकोणे समुत्थितम् ॥
परस्त्रीसङ्गमात्पापं वह्निः स्नात्वात्र चात्यजत् ॥ २५ ॥
याम्यं नाम महातीर्थं यमभागे विजृम्भते ॥
अत्र स्नात्वा यमोऽत्याक्षीद्भयं ब्रह्मास्त्रसम्भवम् ॥ २६ ॥
नैर्ऋतं तु महातीर्थं नैर्ऋत्यां दिशि शोभते ॥
भूतवेतालविजयं तत्र स्नात्वर्षयो गताः ॥ २७ ॥
पश्चिमे वारुणं तीर्थं दिग्भागे च प्रकाशते ॥
शल्यकोशं पुरा लेभे स्नात्वात्र वरुणो निजम् ॥ २८ ॥
वायवे वायवीयं च तीर्थमत्र प्रकाशते ॥
तत्र स्नात्वा ययौ वायुर्जगत्प्राणत्ववैभवम् ॥ २९ ॥
उत्तरे चात्र दिग्भागे सोमतीर्थमिति स्मृतम् ॥
तत्र स्नात्वा पुरा सोमो यक्ष्मरोगादमुञ्चत ॥ 1.3.1.7.३० ॥
ऐशाने चात्र दिग्भागे विष्णुतीर्थमिति स्मृतम् ॥
तत्र स्नात्वा पुरा विष्णुः श्रिया च सह सङ्गतः ॥ ३१ ॥
मार्कण्डेयः पुरा देवि प्रार्थयामास शङ्करम् ॥
सदाशिव महादेव देवदेव जगत्पते ॥ ३२ ॥
बहूनामिह तीर्थानामेकत्र स्यात्समागमः ॥
केनोपायेन भगवन्कृपया वद शङ्कर ॥ ३३ ॥
इति तस्य वचः श्रुत्वा देवदेव उमापतिः ॥
उपायं दर्शयामास मुनये प्रीतमानसः॥ ३४ ॥
॥ महेश्वर उवाच ॥ ॥
सदोपहारवेलायां सर्वतीर्थसमुच्चयः ॥
सन्निधिं मम सम्प्राप्तः सेवते गूढरूपतः ॥ ३५ ॥
नान्यदन्वेषणीयं ते तीर्थमत्र महामुने ॥
ममोपहारवेलायां दृश्यते तीर्थसञ्चयः ॥ ३६ ॥
तस्माद्भक्तियुतैर्नित्यं सर्वतीर्थसमागमः ॥
मुनिभिश्च सुरैः सर्वैर्नैवेद्यान्ते विलोक्यताम् ॥ ३७ ॥
इति देवि पुरा देवो मार्कडेयाय शङ्करः ॥
उपादिशदमेयात्मा तीर्थसन्दर्शनक्रमम् ॥ ३८ ॥
॥ गौतम उवाच ॥ ॥
सर्वाण्यपि च पुण्यानि तीर्थानि शिवसन्निधौ ॥
सदोपहारवेलायां दृश्यानि किल मानवैः ॥ ३९ ॥
व्रतं तीर्थं तपो वेदा यज्ञाश्च नियमादयः ॥
योगाश्च शोणशैलेशदर्शनाद्दृष्टसञ्चराः ॥ 1.3.1.7.४० ॥
निशम्य वाक्यं मुनिपुङ्गवस्य प्रसेदुषी पर्वतराजपुत्री ॥
अवोचदत्यद्भुतमेतदत्र त्वयोपदिष्टं भुवि तीर्थजालम् ॥ ४१ ॥
अहं कृतार्था तपतां वरिष्ठ त्वत्सङ्गमात्सम्प्रति तीर्थजालम् ॥
प्राप्ता नमस्तेऽस्तु तपोविशेष शिवोपि मेऽत्रादिशदेव कर्तुम् ॥ ४२ ॥
कथं गिरीशः पुनरत्र देवः स्फुरन्महावह्निवपुर्धरोऽपि ॥
प्रशान्तरूपः परमेश्वरोऽयमभ्यर्चनीयो भुवि मर्त्यवर्गैः ॥ ४३ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे ऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणाचलस्थविविधतीर्थवर्णनन्नाम सप्तमोऽध्यायः ॥ ७ ॥