००६ पूर्वार्धेऽरुणाचलस्थविविधतीर्थमाहात्म्यवर्णनम्

॥ गौतम उवाच ॥ ॥
पुरा नारायणः कल्पे शयानः सलिलार्णवे ॥
शेषपर्यङ्कशयने कदाचिन्नैव बुध्यत ॥ १ ॥
तमसा पूरितं विश्वमपज्ञातमलक्षणम् ॥
वीक्ष्य कल्पावसानेऽपि विषेदुर्नित्यसूरयः॥२॥
अहो कष्टमिदं रूपं तमसा विश्वमोहनम् ॥
येन कल्पावसानेपि विष्णुर्नाद्यापि बुध्यते ॥३॥
ज्योतिषः पुरुषं पूर्णमपश्यन्तं सुरा अपि ॥
कथं वा तमसः शान्तिं लभेरन्परिभाविनः ॥४॥
इति निश्चित्य मनसा देवदेवमुमापतिम् ॥
चिन्तयामासुरात्मस्थं तेजोराशिं निरञ्जनम् ॥ ५ ॥
ततः प्रसन्नो भगवांस्तेजोराशिर्महेश्वरः ॥
विश्वावनाय विज्ञप्तः प्रणतैर्नित्यसूरिभिः ॥ ६ ॥
ततस्तेजोमयाच्छम्भोः स्फुलिङ्गांशुसमुद्भवाः ॥
उदस्तम्भन्त देवानां त्रयस्त्रिंशच्च कोटयः ॥७॥
बोधितः सकलैर्देवैः समुत्थाय रमापतिः॥
प्रभातं वीक्ष्य सकलं मनस्येवमचिन्तयत् ॥ ८ ॥
मया तमसि उद्रेकादकाले शयनं कृतम् ॥
प्रबोधाय परं ज्योतिः स्वयं दृष्टः सदाशिवः ॥ ९ ॥
जगदुत्पत्तिकृत्यानि स्वयं कर्तुं व्यवस्यति ॥
किं मयात्र पुनः कार्यं ब्रह्मणा वा स्वयम्भुवा॥। 1.3.1.6.१०॥
धिङ्मां स्थितमनात्मज्ञं निद्रया हृतचेतसम् ॥
अथवा सर्वकर्तारं शरणं यामि शङ्करम् ॥ ११॥
सर्वदोषप्रशमनं सर्वाभीष्टफलप्रदम् ॥
पवित्रमल्पपुण्यानां दुर्लभं शम्भुदर्शनम् ॥१२॥
चिन्तयन्नेवमात्मस्थं ज्योतिर्लिङ्गं सदाशिवम् ॥
प्रणनाम हरिर्भक्त्या देवमष्टाङ्गतो मुहुः॥१३॥
विश्वस्रष्टारमीशानं तुष्टाव दुरितच्छिदम् ॥
अथ तेजोमयः शम्भुः शरण्यः शरणागतम् ॥ १४॥
अनुगृह्य कटाक्षैस्तं समुत्तिष्ठेत्यभाषत ॥
उत्थाय करुणापूर्णं शम्भुं चन्द्रार्द्धशेखरम् ॥१५॥
नमस्त्रिभुवनेशाय त्रिमूर्तिगुणधारिणे ॥
त्रिदेववपुषे तुभ्यं त्रिदृशे त्रिपुरद्रुहे ॥ १६ ॥
त्वमेव जगतामीशो निजांशैर्देवतामयैः ॥
कार्यकारणरूपेण करोषि स्वेच्छया क्रियाः ॥ १७ ॥
मां नियुज्य जगद्गुप्तौ परिमोह्य च मायया ॥
न दोषमुत सङ्कल्पं विहातुमपि नेच्छसि ॥ १८ ॥
किं करोमि जगन्मूर्त्तौ न्यस्तभारोऽस्म्यहं त्वयि ॥
न दोषमीहसे नूनमकालशयनेन माम् ॥ १९ ॥
हर शम्भो हरेरार्तिमनुतापं समीक्ष्य सः ॥
आदिदेश हरः श्रीमान्प्रायश्चित्तं हरेरिदम् ॥ 1.3.1.6.२० ॥
अरुणाचलरूपेण तिष्ठामि वसुधातले ॥
तस्य दर्शनमात्रेण भविता ते तमः क्षयः ॥ २१ ॥
पूर्वस्मै विष्णवे तत्र वरो दत्तो मया पुरा॥
तदैव तैजसं लिङ्गमरुणाचल सञ्ज्ञितम् ॥
तेजोमयमिदं रूपं प्रशान्तं लोकरक्षणात्॥
यदग्निमयमव्यक्तमपारगुणवैभवम्॥ २३॥
नदीनां निर्झराणां च मेघमुक्ताम्भसामपि ॥
अन्तर्ज्योतिर्मयत्वेन लयस्तत्रैव दृश्यते ॥ २४ ॥
अन्धानां दृष्टिलाभेन पङ्गूनां पादसञ्चरैः ॥
अपुत्राणां च पुत्राप्त्या मूकानां वाक्प्रवृत्तिभिः ॥ २५ ॥
सर्वसिद्धिप्रदानेन सर्वव्याधिविमोचनैः ॥
सर्वपापप्रशमनैर्यत्सर्ववरदं स्थितम् ॥ २६ ॥
इत्युक्तान्तर्दधे शम्भुर्हरिश्चैवारुणाचलम् ॥
आगत्य तप आस्थाय शोणाचलमुपास्त च ॥ २७ ॥
तमद्रिं परितो दृष्ट्वा सुरान्काननसंश्रयान् ॥
ऋषीणामाश्रमान्पुण्यान्स्थापयामास वै हरिः ॥
वेदान्साङ्गोपनिषदान्समन्तान्मूर्तिधारिणः ॥ २८ ॥
ससर्ज दिव्यरूपाणां शतमप्सरसां कुलम् ॥
नृत्यैर्गीतैश्च वादित्रैस्सेवध्वमिति चादिशत् ॥ २९ ॥
स्नात्वा ब्रह्मसरस्यस्मिन्विष्णुः कमललोचनः ॥
प्रदक्षिणं चकारामुमरुणाद्रिं समर्चितम् ॥ 1.3.1.6.३० ॥
अपापः सर्वलोकानामाधिपत्यं च लब्धवान् ॥
रमया सहितो नित्यमभिरूपसुरूपया ॥ ३१ ॥
भास्करस्तेजसां राशिरसुरैरपि पीडितः ॥
ब्रह्मोपदेशादानर्च भक्त्यारुणगिरीश्वरम् ॥ ३२ ॥
निमज्ज्य विमले तीर्थे पावने ब्रह्मनिर्मिते ॥
प्रदक्षिणं चकारैनमरुणार्द्रि स्वयम्प्रभुम् ॥ ३३ ॥
अशेषदैत्यविजयं लब्ध्वा मेरुप्रदक्षिणम् ॥
लेभे च परमं तेजः परतेजःप्रणाशनम् ॥ ३४ ॥
दक्षशापानलाक्रान्तस्सोमः शिववचोबलात् ॥
अरुणाचलमभ्यर्च्य लब्धरूपोऽभवत्पुनः ॥ ३५ ॥
अग्निर्ब्रह्मर्षिशापेन यक्ष्मरोगप्रपीडितः ॥
अपूतोऽपि पवित्रोऽभूदरुणाचलसेवया ॥ ३६ ॥
शक्रो वृत्रं बलं पाकं नमुचिं जृम्भमुद्धृतम् ॥
शिवलब्धवरान्दैत्यान्पुरा हत्वा जगत्पतीन् ॥ ३७ ॥
पातकैश्च परिक्षीणस्तथा लोकान्तमाश्रितः ॥
शम्भुं प्रसाद्य तपसा शिवेन परिचोदितः!॥ ३८ ॥
अरुणाद्रिं समभ्यर्च्य विपापोऽभूत्सुराधिपः ॥
इष्ट्वा च हयमेधेन प्रीणयामास शङ्करम् ॥ ३९ ॥
लब्ध्वा चेन्द्रपदं शक्रः शतमप्सरसाङ्कुलम् ॥
सेवार्थमादिशन्छ्रीमान्दिव्यदुन्दभिसेवया ॥ 1.3.1.6.४० ॥
पुष्पमेघान्समादिश्य दिव्याभिः पुष्पवृष्टिभिः ॥
समर्चयति शोणाद्रिं दिवि नित्यं च वन्दते ॥ ४१ ॥
शेषोऽपि शोणशैलेशं समभ्यर्च्य शिवाज्ञया ॥
अभजत्कामरूपत्वं महीमण्डलधारकः ॥ ४२ ॥
अन्ये नागाश्च गन्धर्वाः सिद्धाश्चाप्सरसां गणाः ॥
दिक्पालाश्च तमभ्यर्च्य लेभिरेऽपेक्षितान्वरान् ॥ ४३ ॥
देवैरशेषैर्दैत्यादीञ्जेतुकामैः समुद्यतैः ॥
प्रार्थितः सर्वतोऽभीष्टवरदोऽरुणभूधरः ॥ ४४ ॥
त्वष्ट्रा विरचिताकार आदित्यस्तेजसा तपन् ॥
ग्रहनाथस्तु शोणाद्रिं विलङ्घयितुमुद्यतः ॥ ४५ ॥
रथवाहाः पुनस्तस्य शक्तिहीनाः श्रमं गताः ॥
सोऽपि श्रिया विहीनश्च जातः गोणाद्रितेजसा ॥ ४६ ॥
नाशक्नोच्च दिवं गन्तुं सर्वगत्यांशुमालिनः ॥
स तु ब्रह्मोपदेशेन समाराध्यारुणाचलम् ॥ ४७ ॥
प्रीत्या तस्माद्विभोर्लेभे मार्गं व्योम्नो हयाञ्छुभान् ॥
ततः प्रभृति तिग्मांशुः स हि शोणाख्यपर्वतम् ॥ ४८ ॥
न लङ्घयति किं त्वस्य प्रदक्षिणपरिक्रमैः ॥
दक्षयागपरिध्वस्ता हीनाङ्गास्त्रिदशाः पुरा ॥ ४९ ॥
अरुणाचलमाराध्य नवान्यङ्गानि लेभिरे ॥
पूषा दन्तं शिखी हस्तं भगो नेत्रं त्वखण्डितम् ॥ 1.3.1.6.५० ॥
घ्राणं वाणी च लेभे सा शोणाचलनिषेवणात् ॥
भार्गवः क्षीणनेत्रस्स विष्णुहस्तकुशाग्रतः ॥ ५१ ॥
बलिदत्तावनीदानजलधारानिरोधतः ॥
स तु शोणाचलं गत्वा तपः कृत्वातिदुष्करम् ॥ ५२ ॥
लेभे नेत्रं च पूतात्मा भास्कराख्ये गिरौ स्थितः ॥
अरुणाचलनाथस्य सेवया सूर्यसारथिः ॥ ५३ ॥
प्रतर्दनाख्यो नृपतिर्ग्रहीतुं देवकन्यकाम् ॥
अरुणाद्रिपतेर्गानं कुर्वन्तीं सादरोऽभवत् ॥ ५४ ॥
क्षणात्कपिमुखो जातो मन्त्रिभिश्चोदितो नृपः ॥
प्रत्यर्प्य तां पुनश्चान्याः प्रादादरुणभूभृते ॥ ५५ ॥
ततश्चारुमुखोजातः प्रसादादरुणेशितुः ॥
सायुज्यमस्मै सकलं दत्तवान्भक्तिभावतः ॥५६॥
अरुणाचलनाथस्यसन्निधौ ज्ञानदुर्बलः ॥
गन्धर्वः पुष्पकाख्यस्तु भक्तिहीनो ह्यगात्पुरा ॥ ५७ ॥
ततो व्याघ्रमुखं दृष्ट्वा गन्धर्वपरिचारकाः ॥
किमेतदिति साश्चर्यं पप्रछुस्ते परस्परम् ॥ ५८ ॥
अथ नारद निर्दिष्टमवज्ञाफलमात्मनः ॥
बुद्ध्वारुणाद्रिं सम्पूज्य पुनश्च सुमुखोऽभवत् ॥ ५९ ॥
शिवभूमिरियं ख्याता परितो योजनद्वयम् ॥
मुक्तिस्तत्र प्रमीतानां कदापि विलयो न हि ॥ 1.3.1.6.६० ॥
सप्तर्षयः पुरा भूमौ शापदोषसमन्विताः ॥
सिषेविरेरुणाद्रिं वै नाथो ज्ञात्वा विनिश्चयम् ॥ ६१ ॥
शापमोक्षं ददौ श्रीमान्सप्तर्षीणां महात्मनाम् ॥
सप्तर्षिभिः कृतं तीर्थं सर्वपापविनाशनम् ॥ ६२ ॥
शोणाचलस्य निकटे दृश्यते पावनं शुभम् ॥
पङ्गुर्मुनिः शोणशैलात्पादौ लब्धुं समागतः ॥ ६३ ॥
अन्तर्हितप्रार्थितार्थो दारुहस्तपुटे वहन् ॥
जानुचङ्क्रमणव्यग्रः शोणनद्यास्तटं गतः ॥ ६४ ॥
दारुहस्तपुटे तीर्थे निचिक्षेप पिपासतः ॥
जानुचङ्क्रमणे तस्मिन्धूर्तस्तोयं पिपासति ॥ ६५ ॥
अथ शोणाचलं प्राप्तः कथं वा दारुहस्तकः ॥
किमेतदिति तं पृच्छन्नाधावत्कलितत्परः ॥ ६६ ॥
लब्धपादश्च सहसा जगाम च निजालयम् ॥
नाद्राक्षीत्पुरुषं तत्र दारुहस्तौ पुरोगमौ ॥ ६७ ॥
स्वयं गृहीत्वा चालोक्य ववन्देऽरुणपर्वतम् ॥
ननन्द लब्धचरणो लब्धरूपो महामुनिः ॥ ६८ ॥
विस्मयोत्फुल्लनयनैः शिवभक्तैर्महात्मभिः ॥
पूजितो लब्धपादः सञ्जगाम च यथागतम् ॥ ६९ ॥
वाली शक्रसुतः श्रीमाञ्छ्रङ्गादुदयभूभृतः ॥
अस्ताचलस्य शिखरं प्रतिगन्तुं समुद्यतः ॥ 1.3.1.6.७० ॥
आलुलोकेऽरुणगिरिं मध्ये देवनमस्कृतम् ॥
ऊर्ध्वं गन्तुं समुद्युक्तः क्षीणवीर्योऽपतद्भुवि ॥ ७१ ॥
पित्रा शक्रेण सङ्गम्य चोदितः शोणपर्वतम् ॥
लिङ्गं तैजसमभ्यर्च्य लब्धवीर्योऽभवत्पुनः ॥ ७२ ॥
नलः पूर्वं समभ्यर्च्य स्वसृष्टा मानवप्रियाः ॥
पालयामास धर्मात्मा नीतिसारसमन्वितः ॥ ७३ ॥
इलः प्रविश्य सहसा गौरीवनमखण्डितम् ॥
स्त्रीभावं समनुप्राप्तः पप्रच्छ स्वं पुरोधसम् ॥ ७४ ॥
वशिष्ठेन समादिष्टः शोणाद्रिं समपूजयत् ॥
तपसाराध्य देवेशं पुनः पुंस्त्वमुपागतः ॥ ७५ ॥
सोमोपदेशाद्भक्त्याथ सस्मारारुणपर्वतम् ॥
ईशानुग्रहतो लेभे शापमोक्षं तपोधिकः ॥ ७६ ॥
लेभे च परमं स्थानमप्राप्यममरैरपि ॥
भरतो मृगशावस्य स्मरणादायुषोऽत्यये ॥ ७७ ॥
न मुक्तिं प्राप योगेन मृगजन्मनि सङ्गतः ॥
पत्नीविरहजं दुःखं प्राप्तवानमितं हरिः ॥ ७८ ॥
पुनर्भृगूपदेशेन शोणाद्रिमिममर्चयन् ॥
अवतारेषु सर्वेषु सर्वदुःखान्यपाकरोत् ॥ ७९ ॥
सरस्वती च सावित्री श्रीर्भूमिः सरितस्तथा ॥
अभ्यर्च्य शोणशैलेशमापदो निरतारिषुः ॥ 1.3.1.6.८० ॥
भास्करः पूर्वदिग्भागे विश्वामित्रस्तु दक्षिणे ॥
पश्चिमे वरुणो भागे त्रिशूलं चोत्तराश्रयम् ॥ ८१ ॥
योजनद्वयपर्यन्ते सीमाः शैलेषु संस्थिताः ॥
चतस्रो देवतास्त्वेताः सेवन्ते शोणपर्वतम्॥ ८२ ॥
स्थिताः सीमावसानेषु शोणाद्रीशमवस्थितम् ॥
नमन्ति देवाश्चत्वारः शिवं शोणाचलाकृतिम् ॥ ८३ ॥
अस्योत्तरस्मिञ्छिखरे दृश्यते वटभूरुहः ॥
सिद्धवेषः सदैवास्ते यस्य मूले महेश्वरः ॥ ८४ ॥
यस्य च्छायातिमहती सर्वदा मण्डलाकृतिः ॥
लक्ष्यते विस्मयोपेतैः सर्वदा देवमानवैः ॥ ८५ ॥
अष्टभिः परितो लिङ्गैरष्टदिक्पालपूजितैः ॥
अष्टासु संस्थितैर्दिक्षु शोभते ह्युपसेवितः ॥ ८६ ॥
नृपाणां शम्भुभक्तानां शङ्कराज्ञानुपालिनाम् ॥
अत्रैव महदास्थानमादिदेवेन निर्मितम् ॥ ८७ ॥
बकुलश्च महांस्तत्र सदार्थितफलप्रदः ॥
आगमार्थविदा मूले वामदेवेन सेव्यते ॥ ८८ ॥
अगस्त्यश्च वशिष्ठश्च सम्पूज्यारुणभूधरम् ॥
संस्थाप्य लिङ्गे विमले तेपाते तादृशं तपः ॥८९॥
हिरण्यगर्भतनयः पुरा शोणनदः पुमान्॥
अत्र तीव्रं तपस्तप्त्वा गङ्गाभिमुखगोऽभवत ॥ 1.3.1.6.९० ॥
अत्र शोणनदी पुण्या प्रवहत्यमलोदका ॥
वेणा च पुण्यतटिनी परितः सेवतेऽचलम् ॥ ९१ ॥
वायव्याश्च दिशो भागे वायुतीर्थं च शोभते ॥
तत्र स्नात्वा मरुत्पूर्वं जगत्प्राणत्वमाप्तवान् ॥ ९२ ॥
उत्तरेऽस्य गिरेस्तीर्थं सुवर्णकमलोज्ज्वलम् ॥
दिव्यसौगन्धिकाकीर्णं हंसभृङ्गमनोहरम् ॥ ९३ ॥
कौबेरं तीर्थमेशान्यामैशान्यं तीर्थमुत्तमम् ॥ ९४ ॥
तस्यैव पश्चिमे भागे विष्णुः कमललोचनः ॥
स्नात्वा विष्णुत्वमभजत्कमलालालिताकृतिः ॥ ९५ ॥
नवग्रहाः पुरा तत्र स्नात्वा ग्रहपदं गताः ॥
नवग्रहप्रसादश्च जायते तत्र मज्जताम् ॥ ९६ ॥
दुर्गा विनायक स्कन्दो क्षेत्रपालः सरस्वती ॥
रक्षन्ति परितस्तीर्थं ग्राहयमेतदनन्तरम् ॥ ९७ ॥
गङ्गा च यमुना चैव गोदावरी सरस्वती ॥
नर्मदासिन्धुकावेर्यः शोणः शोर्णनदी च सा ॥ ९८ ॥
एता गूढा निषेवन्ते पूर्वाद्याशासु सन्ततम् ॥
नश्यन्त्यः सकलं पापमात्मक्षेत्रसमुद्भवम्॥ ९९ ॥
अन्याश्च सरितो दिव्याः पार्थिव्यश्च शुभोदकाः ॥
उदजृम्भन्त सहसा शोणाद्रीशप्रसादतः ॥ 1.3.1.6.१०० ॥
आगस्त्यं दक्षिणे भागे तीर्थं महदुदाहृतम् ॥
सर्वभाषार्थसंसिद्धिर्जायते तत्र मज्जताम् ॥ १०१ ॥
अत्रागस्त्यः समागत्य स्नात्वा मुनिगणावृतः ॥
अभ्यर्चयति शोणाद्रिं मासि भाद्रपदे सदा ॥ १०२ ॥
वाशिष्ठमुत्तरे भागे तीर्थं दिव्यं शुभोदयम् ॥
सर्ववेदार्थसंसिद्धिर्जायते तत्र मज्जनात् ॥ १०३ ॥
अत्र मेरोः समागत्य वशिष्ठो भगवानृषिः ॥
करोत्याश्वयुजे मासि शोणाद्रीशनिषेवणम् ॥ १०४ ॥
गङ्गानाम महत्तीर्थं पूर्वोत्तरदिशि स्थितम् ॥
तत्र स्नानाद्भवेन्नृणां सर्वपातकनाशनम् ॥ १०५ ॥
गङ्गाद्याः सरितः सर्वाः कार्त्तिके मासि सङ्गताः ॥
अत्रारुणाद्रिनाथस्य सेवां कुर्वन्ति सादरम् ॥ १०६ ॥
ब्राह्म्यं नाम महातीर्थमरुणाद्रीशसन्निधौ ॥
तस्योपसङ्गमात्सद्यो ब्रह्महत्यादि नश्यति ॥ १०७ ॥
मार्गे मासि समागत्य ब्रह्मलोकात्पितामहः ॥
स्नात्वा तत्प्रत्यहं देवमर्चयत्यरुणाचलम् ॥॥ १०८ ॥
पौषे मासि समागत्य स्नात्वा तीर्थे निजैः सुरैः ॥
महेन्द्रः शोणशैलेशमभ्यर्चयति शङ्करम् ॥ १०९ ॥
शैवन्नाम महातीर्थं सन्निधौ तत्र वर्तते ॥
रुद्रो ब्रह्मकपालेन सह तत्र न्यमज्जत ॥ 1.3.1.6.११० ॥
अत्र शम्भुर्गणैः सार्द्धं माघे मासि प्रसीदति ॥
प्रायश्चित्तानि सर्वाणि नॄणां सफलयन्भुवि ॥ १११ ॥
आग्नेयमग्निदिग्भागे तीर्थं सौभाग्यदायकम् ॥
अग्निरत्र पुरा स्नात्वा स्वाहया सङ्गतः सुखी ॥ ११२ ॥
अनङ्गोपि स्मरः स्नात्वा फाल्गुने मासि सङ्गतः ॥
अभ्यर्च्य शोणशैलेशमभूत्सर्वसुखाधिपः ॥ ११३ ॥
दिशि दक्षिणपूर्वस्यां वैष्णवं तीर्थमद्भुतम् ॥
ब्रह्मर्षयः सदा तत्र वसन्ति कृतकौतुकाः ॥ ११४ ॥
चैत्रे मासि समागत्य विष्णुस्तत्र रमापतिः ॥
स्नात्वाभ्यर्च्यारुणाद्रीशमभवल्लोकनायकः ॥ ११५ ॥
सौरन्नाम महातीर्थं कौबेरदिशि जृम्भितम् ॥
सर्वरोगोपशान्तिश्च जायते तत्र मज्जनात् ॥ ॥ ११६ ॥
वैशाखे मासि दिनकृत्स्नात्वात्रेशं निषेवते ॥
वालखिल्यैः समं श्रीमान्वेदैश्च सह सङ्गतः ॥ ११७ ॥
आश्विनं पावनं तीर्थमीशब्रह्मोत्तरे स्थितम् ॥
आप्लुतौ भिपजौ दस्रौ पूतावत्र निमज्जनात् ॥ ११८ ॥
अत्राश्विनौ समागत्य स्नात्वाभ्यर्च्य च शङ्करम् ॥
दक्षिणे शोण शैलस्य निकटे वर्त्तते शुभम् ॥ ११९ ॥
कामदं मोक्षदं चैव तीर्थं पाण्डवसञ्ज्ञितम् ॥
पुरा हि पाण्डवास्तत्र मजनात्क्षितिनायकाः ॥ 1.3.1.6.१२० ॥
अत्र धात्री समागत्य सर्वौषधिफलान्विता ॥
ज्येष्ठे मासि समं देवैरार्चयच्चारुणाचलम् ॥ १२१ ॥
आषाढे मासि सन्त्यक्ता विश्वेदेवा महाबलाः ॥
अभ्यर्च्य शोणशैलेशमागच्छन्मखराध्यताम् ॥ १२२ ॥
वैश्वदेवं महातीर्थं सोमसूर्योत्तराश्रयम् ॥
विश्वाधिपत्यमतुलं लभ्यते तत्र मज्जनात् ॥ ॥ १२३ ॥
परितो लक्ष्यते तीर्थं पूर्वस्यां दिशि शोभने ॥
अत्र लक्ष्मीः पुरा स्नात्वा लेभे पुरुषमुत्तमम् ॥ १२४ ॥
उत्तरस्यां दिशि पुरा पुण्या स्कन्दनदी स्थिता ॥
अत्र स्नात्वा पुरा स्कन्दः सम्प्राप्तो विपुलं बलम् ॥ १२५ ॥
पश्चिमस्यां दिशि ख्याता परा कुम्भनदी शुभा ॥
अगस्त्यः कुम्भकः कुम्भस्तत्र नित्यं व्यवस्थितः ॥ १२६ ॥
गङ्गा च मूलभागस्था यमुना गगने स्थिता ॥
सोमोद्भवा शिरोभागे सेवन्ते शोणपर्वतम् ॥ १२७॥
बहून्यपि च तीर्थानि सम्भूतानि समन्ततः ॥
तेषां भेदान्पुरा वेत्तुं मार्कण्डेयस्तु नाशकत् ॥ १२८ ॥
तपोभिर्बहुभिस्सोयं शोणाद्रीशमतोषयत् ॥
प्रार्थयामास च वरं प्रीतात्तस्मान्मुनीश्वरः ॥ १२९ ॥
॥ मार्कण्डेय उवाच ॥ ॥
भगवन्नरुणाद्रीश तीर्थभेदाः सहस्रशः ॥
प्रख्याताश्च प्रकाशन्ते दुर्बोधास्त्वल्पचेतसाम् ॥ 1.3.1.6.१३० ॥
कथमेकत्र सान्निध्यं लभेरन्भुवि मानवाः ॥
अपर्याप्तश्च भवति पृथगेषां निषेवणे ॥१३१॥
अन्तर्निगूढतेजास्त्वं गत्वा यस्सकलैः सुरैः ॥
आरण्यसे कुरु तथा शोणाद्रिस्पर्शभीरुभिः ॥ १३२ ॥
अहं च शम्भुमभ्यर्च्य तपसारुणपर्वतम् ॥
सर्वलोकोपकारार्थं सूक्ष्म लिङ्गमपूजयम् ॥ १३३ ॥
विश्वकर्मकृतं दिव्यं विमानं विविधोत्सवम् ॥
सङ्कल्प्य सकलान्भोगान्नित्यानजनयत्पुनः ॥ १३४ ॥
धर्मशास्त्राणि विविधान्यवापुर्मुनिपुङ्गवाः ॥
शिवकार्याणि सर्वाणि चक्रुभक्तिसमन्विताः ॥ १३५ ॥
मया च शम्भुमभ्यर्च्य कृताग्न्याहुतिसम्भवाः ॥
सप्त कन्या वरारोहाः पूजार्थं विनियोजिताः ॥ १३६ ॥
हतशत्रुगणैभूपैर्लब्धराज्यैः पुरा नृपैः ॥
प्रत्येकं विविधैर्भोगैः शोणशैलाधिपोर्चितः ॥ १३७ ॥
इदमनुभववैभवं विचित्रं दुरितहरं शिवलिङ्गमद्रिरूपम् ॥
अमलमनभिगम्यनामधेयं वरमरुणाद्रिनायकं भजस्व ॥ १३८ ॥
अवनतजनरक्षणोचितस्य स्मरणनिराकृतविश्वकल्मषस्य ॥
भजनममितपुण्यराशियोगादरुणगिरेः कृतिनः परं लभस्व ॥ १३९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणाचलस्थविविधतीर्थमाहात्म्यवर्णनन्नाम षष्ठोऽध्यायः ॥ ६ ॥