॥ ब्रह्मोवाच ॥ ॥
अरण्याद्गौतमं शान्तमुटजद्वार आगतम् ॥
प्रत्याधातुं प्रववृते शिवभक्तिर्जगन्मयी ॥१॥
आलुलोके समायातं गौतमं शिष्यसेवितम् ॥
लम्बमानशिरःश्मश्रुसम्पूर्णमुखमण्डलम् ॥२॥
जटाभिरतिताम्राभिस्तीर्थस्नानविशुद्धिभिः ॥
न्यस्तरुद्राक्षमणिभिर्ज्वालाभिरिव पावकम् ॥॥ ३ ॥
भस्मत्रिपुण्ड्रकोपेतविशालनिटिलोज्वलम् ॥
शुक्लयज्ञोपवीतेन पूर्णं रुद्राक्षदामभिः ॥ ४ ॥
दधानं वल्कले रक्ते तपः कृशितविग्रहम् ॥
जपन्तं वैदिकान्मन्त्रान्रुद्रप्रीतिकरान्बहून् ॥ ५ ॥
शम्भुनावसितोदात्तसारूप्यमिव भाषितम् ॥
तेजोनिधिं दयापूर्णं प्रत्यक्षमिव भास्करम् ॥ ६ ॥
आलोक्य तं महात्मानं वृद्धं शम्भुपदाश्रयम् ॥
कृताञ्जलिपुटा गौरी प्रणन्तुमुपचक्रमे ॥ ७ ॥
कृताञ्जलिं मुनिर्वीक्ष्य समस्तजगदम्बिकाम् ॥
किमेतदिति साश्चर्यं वारयन्प्रणनाम सः ॥ ८ ॥
स्वागतं गौरि सुभगे लोकमातर्दयानिधे ॥
व्याजेन भक्तसंरक्षां कर्तुमत्रागतास्यहो ॥ ९ ॥
अहो मान्ये मान्यमर्थं विज्ञायैव पुरा वयम् ॥
पृथग्भावमिवालम्ब्य शिष्यादिभिः समागताः ॥ 1.3.1.5.१० ॥
यद्देवि ते न चेत्किञ्चिन्मायाविलसितन्निजम् ॥
ततः प्रपञ्चसंसिद्धिः कथमेव भविष्यति ॥ ११ ॥
तिष्ठत्वशेषं मे वक्तुं मायाविलसितं तव ॥
न शक्यते यन्निर्णेतुं त्वदीयैश्च कदाचन ॥ ॥ १२ ॥
आस्यतां पावने शुद्धं आसने कुशनिर्मिते ॥
गृह्यतां पाद्यमर्घं च दत्तं च विधिवन्मया ॥ १३ ॥
इति शिष्यैः समानीते दर्भाङ्के परमासने॥
आसीनामम्बिकां वृद्धो मुनिरानर्च भक्तिमान् ॥१४॥
निवेद्य सकलां पूजां भक्तिभावसमन्वितः ॥
गौर्या समभ्यनुज्ञातः स्वयमप्यासने स्थितः॥१५॥
उवाच दशनज्योत्स्नापरिधौतदिशामुखः ॥
पुलकाञ्चितसर्वाङ्गः सानन्दाश्रु सगद्गदम् ॥ १६ ॥
अहो देवस्य माहात्म्यं शम्भोरमिततेजसः ॥
सद्भक्त रक्षणाय त्वामादिशद्भक्तवत्सलः ॥ १७ ॥
असिद्धमन्यल्लब्धव्यं किं वान्यत्तव विद्यते ॥
अम्बैतद्भक्तिमाहात्म्यं सन्दर्शयितुमीश्वरः ॥ १८ ॥
कैलासशैलवृत्तान्तः कम्पातटतपःस्थितः ॥
अरुणाद्रिसमादेशः सर्वं ज्ञातमिदं मया ॥ १९ ॥
आगतासि महाभागे भक्ताश्रममिमं स्वयम् ॥
स्नेहेन करुणामूर्ते कर्त्तव्यमुपदिश्यताम् ॥ 1.3.1.5.२० ॥
इति तस्य वचः श्रुत्वा महर्षेः सर्ववेदिनः ॥
अम्बिका प्राह कुतुकात्स्तुवन्ती तं महामुनिम् ॥ २१ ॥
महावैभवमेतत्ते देवदेवः स्वयं शिवः ॥
मध्ये तपस्विनां त्वं तु द्रष्टव्य इति चादिशत् ॥ २२ ॥
आगमानां शिवोक्तानां वेदानामपि पारगः ॥
तपसा शम्भुभक्तानां त्वमेव शिवसम्मतः ॥ २३ ॥
अरुणाचल नाम्नाहं तिष्ठामीत्यब्रवीच्छिवः ॥।
अस्याचलस्य माहात्म्यं श्रोतव्यं च भवन्मुखात् ॥ २४ ॥
प्राप्तास्म्यहं तपः कर्तुमरुणाचलसन्निधौ ॥
भवतां दर्शनादेव स्वयमीशः प्रसीदति ॥ २५ ॥
शिवभक्तेन सम्भाषा शिवसङ्कीर्त्तनश्रवः ॥
शिवलिङ्गार्चनं लोके वपुर्ग्रहफलोदयः ॥ २६ ॥
तस्मान्ममैतन्माहात्म्यं श्रोतव्यं भवतो मुखात् ॥
सुव्यक्तमुपदेशेन ज्ञानतोऽसि पिता मम ॥ २७ ॥
इति तस्या वचः श्रुत्वा गौतमस्तपसां निधिः ॥
आचख्यौ गिरिशं ध्यायन्नरुणाचलवैभवम् ॥ २८ ॥
अज्ञातमिव यत्किञ्चित्पृच्छ्यते च पुनस्त्वया ॥
अवैमि सर्वविद्यानां माया शैवी त्वमेव सा ॥ २९ ॥
अथवा भक्तवक्त्रेण शिववैभवसंश्रवः ॥
शिक्षणं शाम्भवं तेषां तव तुष्टेश्च कारणम् ॥ 1.3.1.5.३० ॥
पठितानां च वेदानां यदावृत्तफलावहम् ॥
वदतां शृण्वतां लोके शिवसङ्कीर्त्तनं तथा ॥ ३१ ॥
सफलान्यद्य सर्वाणि तपांसि चरितानि मे ॥
यदहं शम्भुनादिष्टं माहात्म्यं कीर्त्तये श्रुतम् ॥ ३२ ॥
शिवाशिवप्रसादेन माहात्म्यमिदमद्भुतम् ॥ ३३ ॥
अरुणाचलमाहात्म्यं दुरितक्षयकारणम् ॥
श्रूयतामनवद्याङ्गि पुरावृत्तमिदं महत् ॥ ३४ ॥
अरुणाद्रिमयं लिङ्गमाविर्भूतं यथा पुरा ॥
न शक्यते पुनर्वक्तुमशेषं वक्त्रकोटिभिः ॥ ३५ ॥
अरुणाचलमाहात्म्यं ब्रह्मणामपि कोटिभिः॥
ब्रह्मणा विष्णुना पूर्वं सोमभास्करवह्निभिः ॥ ३६ ॥
इन्द्रादिभिश्च दिक्पालैः पूजितश्चाष्टसिद्धये ॥
सिद्धचारणगन्धर्व यक्षविद्याधरोरगैः ॥ ३७ ॥
खगैश्च मुनिभिर्दिव्यैः सिद्धयोगिभिरर्चितः ॥
तत्तत्पापनिवृत्त्यर्थं तत्तदीप्सितसिद्धये ॥ ३८ ॥
आराधितोऽयं भगवानरुणाद्रिपतिः शिवः ॥
दृष्टो हरति पापानि सेवितो वाञ्छितप्रदः ॥ ३९ ॥
कीर्तितोपि जनैर्दूरैः शोणाद्रिरिति मुक्तिदः ॥
तेजःस्तम्भमयं रूपमरुणाद्रिरिति श्रुतम् ॥ 1.3.1.5.४० ॥
ध्यायन्तो योगिनश्चित्ते शिवसायुज्यमाप्नुयुः ॥
दत्तं हुतं च यत्किञ्चिज्जप्तं चान्यत्तपः कृतम् ॥ ४१ ॥
अक्षय्यं भवति प्राप्तमरुणाचलसन्निधौ ॥
पुरा ब्रह्मा च विष्णुश्च शिवतेजोंशसम्भवौ ॥४२॥
साहङ्कारौ युयुधतुः परस्परजिगीषया ॥
तथा तयोर्गर्वशान्त्यै योगिध्येयः सदाशिवः ॥ ४३॥
अग्नितेजोमयं रूपमादिमध्यान्तवर्जितम् ॥
सम्प्राप्य तस्थौ तन्मध्ये दिशो दश विभासयन् ॥ ४४ ॥
तेजःस्तम्भस्य तस्याथ द्रष्टुमाद्यन्तभागयोः ॥
हंसक्रोडतनू कृत्वा जग्मतुर्द्यां रसातलम् ॥ ४५ ॥
तौ विषण्णमुखौ दृष्ट्वा भगवान्करुणानिधिः ॥
आविर्बभूव च तयोर्वरं प्रादादभीप्सितम् ॥४६॥
तत्प्रार्थितश्च देवेशो यातः स्थावरलिङ्गताम् ॥
अरुणाद्रिरिति ख्यातः प्रशान्तः सम्प्रकाशते ॥४७॥
दिव्यदुन्दुभिनिर्घोषैरप्सरोगीतनर्त्तनैः॥
पूज्यते तैजसं लिङ्गं पुष्पवृष्टिशतैः सदा ॥ ४८ ॥
ब्रह्मणामप्यतीतानां पुरा षण्णवतेः प्रभुः ॥
विष्णुनाभिसमुद्भूतो ब्रह्मा लोकान्ससर्ज हि ॥ ४९ ॥
स कदाचित्तपोविघ्नं कर्तुकामेन योगिनाम् ॥
इन्द्रेण प्रार्थितो ब्रह्मा ससर्ज ललितां स्त्रियम् ॥ 1.3.1.5.५० ॥
लावण्यगुणसम्पूर्णामालोक्य कमलेक्षणाम् ॥
मुमोह कन्दर्पशरैः स विद्धहृदयो विधिः ॥ ५१ ॥
स्प्रष्टुकामं तमालोक्य ब्रह्माणं कमलासनम् ॥
नत्वा प्रदक्षिणव्याजाद्गन्तुमैच्छद्वराप्सराः ॥ ५२ ॥
अस्यां प्रदक्षिणां भक्त्या कुर्वाणायां प्रजापतेः ॥
चतसृभ्योऽपि दिग्भ्योऽस्य मुखान्युदभवन्क्षणात् ॥ ५३ ॥
सा बाला पक्षिणी भूत्वा गगनं समगाहत ॥
पुनश्च खगरूपेण समायान्तं समीक्ष्य सा ॥ ५४ ॥
शरणं याचमाना सा शोणाद्रिमिममाश्रयत् ॥
ब्रह्मणा विष्णुना च त्वमदृष्टपदशेखरः ॥ ५५ ॥
रक्ष मामरुणाद्रीश शरण्य शरणागताम् ॥
इति तस्यां भयार्त्तायां क्रोशन्त्यामरुणाचलात् ॥ ५६ ॥
उदभूत्स्थावराल्लिङ्गाद्व्याधः कश्चिद्धनुर्द्धरः ॥
सन्धाय सायकं चापे समेघगगनद्युतिः ॥ ५७ ॥
निषादे पुरतो दृष्टे मोहस्तस्य ननाश हि ॥
ततः प्रसन्नहृदयोतिनम्रः कमलोद्भवः॥ ५८ ॥
नमश्चक्रे शरण्याय शोणाद्रिपतये तदा ॥
सर्वपापक्षयकृते नमस्तुभ्यं पिनाकिने ॥ ५९ ॥
अरुणाचलरूपाय भक्ववश्याय शम्भवे ॥
अजानतां स्वभक्तानामकर्मविनिवर्त्तने ॥ 1.3.1.5.६० ॥
त्वदन्यः कः प्रभुः कर्तुमशक्यं चापि देहिनाम् ॥
उपसंहर मे देहं तेजसा पापनिश्चयम् ॥ ६१ ॥
अन्यं वा सृज विश्वात्मन्ब्रह्माणं लोकसृष्टये ॥
अथ तस्य वचः श्रुत्वा शिवो दीनस्य वेधसः ॥ ६२ ॥
उवाच करुणामूर्तिर्भूत्वा चन्द्रार्द्धशेखरः ॥
दत्तः कालस्तव मया पुरैव न निवर्त्यते ॥ ६३ ॥
कं वा रागादयो दोषा न बाधेरन्प्रभुस्थितम् ॥
तस्माद्दूरस्थितोऽप्येतदरुणाचलसञ्ज्ञितम्॥६४॥
भजस्व तैजसं लिङ्गं सर्वदोषनिवृत्तये ॥
वाचिकं मानसं पापं कायिकं वा च यद्भवेत् ॥६५॥
विनश्यति क्षणात्सर्वमरुणाचलदर्शनात् ॥
प्रदक्षिणा नमस्कारैः स्मरणैरर्चनैः स्तवैः ॥६६॥
अरुणाद्रिरयं नृणां सर्वकल्मषनाशनः ॥
कैलासे मेरुशृङ्गे वा स्वस्थानेषु कलाद्रिषु ॥६७॥
सन्दृश्यः कश्चिदेवाहमरुणाद्रिरयं स्वयम् ॥
यच्छृङ्गदर्शनान्नॄणां चक्षुर्लाभेन केवलम् ॥ ६८ ॥
भवेत्सर्वाघनाशश्च लाभश्च ज्ञानचक्षुषः ॥
मदंशसम्भवो ब्रह्मा स्वनाम्ना ब्रह्मपुष्करे ॥ ६९ ॥
अत्र स्नातः पुरा ब्रह्मन्मोहोऽगाज्जगतीपतेः ॥
स्नात्वा त्वं ब्रह्मतीर्थे मां समभ्यर्च्य कृताञ्जलिः ॥ 1.3.1.5.७० ॥
मौनी प्रदक्षिणं कृत्वा विश्वात्मन्भव विज्वरः ॥७१॥
इति वचनमुदीर्य विश्वनाथं स्थितमरुणाचलरूपतो महेशम् ॥
अथ सरसि निमज्य पद्मजन्मा दुरितहरं समपूजयत्क्रमेण॥७२॥
इममरुणगिरीशमेष वेधा यमनियमादिविशुद्धचित्तयोगः ॥
स्फुटतरमभिपूज्य सोपचारं गतदुरितोऽथ जगाम चाधिपत्यम् ॥७३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मपुष्करमाहात्म्यवर्णनन्नाम पञ्चमोऽध्यायः॥५॥ ॥