००४ गौतमाश्रमागमनम्

॥ ब्रह्मोवाच ॥ ॥
अथाभ्यधत्त विजया प्रणम्य जगदम्बिकाम् ॥
सान्त्वयन्ती स्तुतिशतैरुपायैः शिवदर्शनैः ॥ १ ॥
देवि त्वमविनाभूता सदा देवेन शम्भुना ॥
प्राणेश्वरी त्वमेकासि शक्तिस्तस्य परात्मनः ॥ २ ॥
तथा मायां त्वमात्मीयां सन्दर्शयितुमीहसे ॥
पृथग्भावमिवेशानः प्रकाशयति न स्वयम् ॥ ३ ॥
आदेशं प्रतिगृह्यैव समुपेतासि पार्वति ॥
अलङ्घनीया सेवाज्ञा शाम्भवी सर्वदा त्वया ॥४ ॥
विधातव्यं तपः प्राप्तं स्थानेस्मिच्छिवकल्पिते ॥
निवृत्त्य निखिलान्कामाच्छम्मुमाश्रितया त्वया ॥ ५ ॥
अन्यथापि जगद्रक्षा त्वदधीना जगन्मयि ॥
धर्मसंरक्षणं भूयः शिवेन सहितं तव ॥ ६ ॥
निष्कलं शिवमत्यन्तं ध्यायन्त्यात्मन्यवस्थितम् ॥
वियोगदुःखं कञ्चित्त्वं न स्मरिष्यसि पार्वति ॥ ७ ॥
भक्तानां तव मुख्यानां तवैवाचारसङ्ग्रहः ॥
उपदेशितया लोके प्रथतां धर्मवत्सले ॥ ८ ॥
इति तस्या वचः श्रुत्वा गौरी सुस्थिरमानसा ॥
तपः कर्त्तुं समारेभे कम्पा नद्यास्तटे शुभे ॥ ९ ॥
विमुच्य विविधा भूषा रुद्राक्षगणभूषिता ॥
विसृज्य दिव्यं वसनं पर्यधाद्वल्कले शुभे ॥ 1.3.1.4.१० ॥
अलकैः सहसा शिल्पमनयच्च कपर्दृताम् ॥
अलिम्पत तनूं सर्वां भस्मना मुक्तकुङ्कुमा ॥ ११ ॥
मृगेषु कृतसन्तोषा शिलोञ्छीकृतवृत्तिषु ॥
जजाप नियमोपेता शिवपञ्चाक्षरं परम् ॥ १२ ॥
कृत्वा त्रिषवणं स्नानं कम्पा पयसि निर्मले ॥
कृत्वा च सैकतं लिङ्गं पूजयामास सादरम् ॥ १३ ॥
वृक्षप्ररोपणैर्दानैरशेषातिथिपूजनैः ॥
श्रान्तिं हरन्ती जीवानां देवी धर्ममपालयत् ॥ १४ ॥
ग्रीष्मे पञ्चाग्निमध्यस्था वर्षासु स्थण्डिलेशया ॥
हेमन्ते जलमध्यस्था शिशिरे चाकरोत्तपः ॥ १५ ॥
पुण्यात्मनां महर्षीणां दर्शनार्थमुपेयुषाम् ॥
विस्मयं जनयामास पूजयामास सादरम् ॥ १६ ॥
कदाचित्स्वयमुच्चित्य वनान्तात्पल्लवान्वितम् ॥
पुष्पोत्करं विशेषेण शोधितुं समुपाविशत् ॥ १७ ॥
कृत्वा च सैकतं लिङ्गं कम्पारोधसि पावने ॥
सम्पूजयितुमारेभे न्यासावाहनपूर्वकम् ॥ १८ ॥
सूर्यमभ्यर्च्य विधिवद्रक्तैः पुष्पैश्च चन्दनैः ॥
पञ्चावरणसंयुक्तं क्रमादानर्च शङ्करम् ॥ १९ ॥
धूपैर्दीपश्च नैवेद्यैर्भक्तिभावसमन्वितैः ॥
अपरोक्षितमीशानमालुलोके पुरोहितम् ॥ 1.3.1.4.२० ॥
अथ देवः शिवः साक्षात्संशोधयितुमम्बिकाम् ॥
कम्पानद्याः प्रवाहेण महता पर्यवेष्टयत् ॥ २१ ॥
अतिवृद्धं प्रवाहं तं कम्पायाः समुपस्थितम् ॥
आलोक्य नियमासीनामाहुः सख्यस्तदाम्बिकाम् ॥२२॥
उत्तिष्ठ देवि बहुलः प्रवाहोऽयं विजृम्भते ॥
दिशां मुखानि सम्पूर्य तरसा प्लावयिष्यति ॥ २३ ॥
इति तद्वचनं श्रुत्वा ध्यायन्ती मीलितेक्षणा ॥
उन्मील्य वेगमतुलं नद्यास्तं समवैक्षत ॥ २४ ॥
अचिन्तयच्च सा देवी पूजाविघ्नसमाकुला ॥
किं करोमि न शक्नोमि हातुमारब्धमर्चनम् ॥ २५ ॥
श्रेयः प्राप्तुमविघ्नेन प्रायः पुण्यात्मनां भुवि ॥
घटते धर्मसंयोगो मनोरथफलप्रदः ॥ २६ ॥
सैकतं लिङ्गमतुलप्रवाहाल्लयमेष्यति ॥
लिङ्गनाशे विमोक्तव्यः सद्भक्तैः प्राणसङ्ग्रहः ॥ २७ ॥
प्रवाहोऽयं समायाति शिवमायाविनिर्मितः ॥
विशोधयितुमात्मानं भक्तियुक्तं निजे पदे ॥ २८ ॥
आलिङ्ग्य सुदृढं दोर्भ्यामेतल्लिङ्गमनाकुलम् ॥
अहं वत्स्यामि याताशु सख्यो यूयं विदूरतः ॥ २९ ॥
इत्युक्ता सैकतं लिगं गाढमालिङ्ग्य साम्बिका ॥
न मुमोच प्रवाहेन वेष्ट्यमानापि वेगतः ॥ 1.3.1.4.३० ॥
स्तनचूचुकनिर्मग्नमुद्रादर्शितलाञ्छनम् ॥
महालिङ्गं स्वसंयुक्तं प्रणनाम तदादरात् ॥ ३१ ॥
निमीलितेक्षणा ध्याननिष्ठैकहृदया स्थिता ॥
पुलकाञ्चितसर्वाङ्गी सा स्मरन्ती सदाशिवम् ॥ ३२ ॥
कम्पस्वेदपरित्राणलज्जाप्रणयकेलिदात् ॥
क्षणमप्यचला लिङ्गान्न वियोगमपेक्षते ॥ ३३ ॥
अथ तामब्रवीत्कापि दैवी वागशरीरिणी ॥
विमुञ्च बालिके लिङ्गं प्रवाहोऽयं गतो महान् ॥३४॥
त्वयार्चितमिदं लिङ्गं सैकतं स्थिरवैभवम् ॥
भविष्यति महाभागे वरदं सुरपूजितम् ॥ ३५ ॥
तपश्चर्यां तवालोक्य रचितं धर्मपालनम् ॥
लिङ्गं चैतन्नमस्कृत्य कृतार्थाः सन्तु मानवाः ॥ ३६ ॥
अहं हि तैजसं रूपमास्थाय वसुधातले ॥
वसामि चात्र सिद्ध्यर्थमरुणाचलसञ्ज्ञया ॥ ३७ ॥
रुणद्धि सर्वलोकेभ्यः परुषं पापसञ्चयम् ॥
रुणो न विद्यते यस्मिन्दृष्टे तेनारुणाचलः ॥ ३८ ॥
ऋषयः सिद्धगन्धर्वा महात्मानश्च योगिनः ॥
मुक्त्वा कैलासशिखरं मेरुं चैनमुपासते ॥ ३९ ॥
मदम्श जातयोः पूर्वं युध्यतोर्ब्रह्मकृष्णयोः ॥
अहं मोहमपाकर्त्तुं तेजोरूपो व्यवस्थितः ॥ 1.3.1.4.४० ॥
ब्रह्मणा हंसरूपेण विष्णुना क्रोडरूपिणा ॥
अदृष्टशेखरपदः प्रणतो भक्तियोगतः ॥ ४१ ॥
ततः प्रसन्नः प्रत्यक्षस्तस्यां वरमभीप्सितम् ॥
प्रादां जगत्त्रयस्यास्य संरक्षायां तु कौशलम् ॥ ४२ ॥
प्रार्थितश्च पुनस्ताभ्यामरुणाचलसञ्ज्ञया ॥
अनैषि तैजसं रूपमहं स्थावरलिङ्गताम् ॥ ४३ ॥
गत्वा पृच्छ महाभागं मद्भक्तिं गौतमं मुनिम् ॥
अरुणाचलमाहात्म्यं श्रुत्वा तत्र तपश्चर ॥ ४४ ॥
तत्र ते दर्शयिष्यामि तैजसं रूपमात्मनः ॥
सर्वपापनिवृत्त्यर्थं सर्वलोकहिताय च ॥ ४५ ॥
इति वाचं समाकर्ण्य निष्कलात्कथितां शिवात् ॥
तथेति सहसा देवी गन्तुं समुपचक्रमे ॥ ४६ ॥
अथ देवानृषीन्सर्वान्पश्चात्सेवार्थमागतान् ॥
अवादीदम्बिकालोक्य स्नेहपूर्णेन चक्षुषा ॥ ४७ ॥
तिष्ठतात्रैव वै देवा मुनयश्च दृढव्रताः ॥
नियमांश्चाधितिष्ठन्तः कम्पारोधसि पावने ॥ ४८ ॥
सर्वपापक्षयकरं सर्वसौभाग्यवर्द्धनम् ॥
पूज्यतां सैकतं लिङ्गं कुचकङ्कणलाञ्छनम् ॥ ४९ ॥
अहं च निष्कलं रूपमास्थायैतद्दिवानिशम् ॥
आराधयामि मन्त्रेण शोणेश्वरं वरप्रदम् ॥ 1.3.1.4.५० ॥
मत्तपश्चरणाल्लोके मद्धर्मपरिपालनात् ॥
मल्लिङ्गदर्शनाच्चैव सिध्यन्त्विष्टविभूतयः ॥ ॥ ५१ ॥
सर्वकामप्रदानेन कामाक्षीमिति कामतः ॥
मां प्रणम्यात्र मद्भक्ता लभन्तां वाञ्छितं वरम् ॥ ५२ ॥
अहं हि देवदेवस्य शम्भोरव्याहतो जनः ॥
आदेशं पालयिष्यामि गत्वारुणमहीधरम् ॥ ५३ ॥
तत्र गत्वा तपस्तीव्रं कृत्वा शम्भुं प्रसाद्य च ॥
मां तु लब्धवरां यूयं पश्चाद्रक्ष्यथ सङ्गताः ॥ ५४ ॥
इति सर्वान्विसृज्याशु सद्भक्तान्पादसेविनः ॥
अरुणाद्रिं गता बाला तपसे शङ्कराज्ञया ॥ ५५ ॥
नित्याभिसेविताऽकारि सखीभिरभियोगतः ॥
आससादारुणाद्रीशं दिव्यदुन्दुभिनादितम् ॥ ५६ ॥
अन्तस्तेजोमयं शान्तमरुणाचलनायकम् ॥
अप्सरोनृत्यगीतैश्च पूजितं पुष्पवृष्टिभिः ॥ ५७ ॥
प्रणम्य स्थावरं लिङ्गं कौतूहलसमन्विता ॥
सिद्धानां योगिनां सार्थमृषीणां चान्ववैक्षत ॥ ५८ ॥
अत्रिर्भृगुर्भरद्वाजः कश्यपश्चाङ्गिरास्तथा ॥
कुत्सश्च गौतमश्चान्ये सिद्धविद्याधरामराः ॥ ५९ ॥
तपः कुर्वन्ति सततमपेक्षितवराप्तये ॥
गङ्गाद्याः सरितश्चान्याः परितः पर्युपासते ॥ 1.3.1.4.६० ॥
दिव्यलिङ्गमिदं पूज्यमरुणाद्रिरिति स्मृतम् ॥
वन्दस्वेति सुरैः प्रोक्ता प्रणनाम पुनःपुनः ॥ ६१ ॥
अभ्यर्थिता पुनः सर्वैरातिथ्यार्थे महर्षिभिः ॥
शिवाज्ञया गौतमो मे द्रष्टव्य इति सावदत् ॥ ६२ ॥
अयमत्रर्षिभिर्भक्तैर्निर्दिष्टं तमथाभ्यगात् ॥
स मुनिः शिवभक्तानां प्रथमस्तपसां निधिः ॥ ६३ ॥
वनान्तरं गतेः प्रातः समित्कुशफलाहृतेः ॥
अतिथीनाश्रमं प्राप्तानर्चथेति दृढव्रतान् ॥ ६४ ॥
शिष्यानादिश्य धर्मात्मा गतश्च विपिनान्तरम् ॥
अथ सा गौतमं द्रष्टुमागता पर्णशालिकाम् ॥६५॥
क्व गतो मुनिरित्युक्तैरित आयास्यति क्षणात् ॥
शिष्यैरभ्यर्थितेत्युक्त्वा फलमूलैस्सुगन्धिभिः ॥ ६६ ॥
अभ्युत्थानेनासनेन पाद्येनार्घेण सूनृतैः ॥
वचनैः फलमृलेन सार्चिता शिष्यसम्पदा ॥ ६७ ॥
क्षणं क्षमस्वसूनुस्तामन्ये जग्मुस्तदन्तिकम् ॥
देव्यां प्रविष्टमात्रायां महर्षेराश्रमो महान् ॥ ६८ ॥
अभवत्कल्पबहुलो मणिप्रासादसङ्कुलः ॥
वनान्तरादुपावृत्त्य समित्कुशफलाहरः ॥ ६९ ॥
अपश्यत्स्वाश्रमं दूरे विमानशतशोभितम् ॥
किमेतदिति साश्चर्यं चिन्तयन्मुनिपुङ्गवः ॥ 1.3.1.4.७० ॥
गौर्याः समागमं सर्वमपश्यज्ज्ञानचक्षुषा ॥
शीघ्रं निवर्तमानोऽसौ द्रष्टुं तां लोकमातरम् ॥ ७१ ॥
शिष्यैः शीघ्रचरैर्वृत्तमावेदितमथाशृणोत् ॥ ७२ ॥
अथ महर्षिरुपागतकौतुको निजतपःफलमेव तदागमम् ॥
शिवदयाकलितं परिचिन्तयन्नभजदाश्रममाश्रितवत्सलः ॥ ७३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे पार्वत्याः कम्पाया अरुणाचले गौतमाश्रमागमनन्नाम चतुर्थोऽध्यायः॥ ४ ॥ ॥