सनक उवाच ॥ ॥
भगवन्नरुणाद्रीश माहात्म्यमिदमद्भुतम् ॥
श्रुतं शिवप्रसादेन दयया ते जगद्गुरोः ॥ १ ॥
आश्चर्यमेतन्माहात्म्यं सर्वपापविनाशनम् ॥
आराधयन्पुनः के वा वरदं शोणपर्वतम् ॥ २ ॥
अनादिरन्तरहितः शिवः शोणचलाकृतिः ॥
युवयोस्तपसा देव वरदानाय संस्थितः ॥ ॥३॥
सकृत्सङ्कीर्तिते नाम्नि शोणाद्रिरिति मुक्तिदे ॥
सन्निधिः सर्वकामानां जायते चाघनाशनम् ॥४॥
शिवशब्दामृतास्वादः शिवार्चनकथाक्रमः॥
इति तद्वचनं श्रुत्वा देवदेवः पितामहः ॥ ५ ॥
उवाच करुणामूर्तिररुणाद्रीशमानमन् ॥
॥ ब्रह्मोवाच ॥ ॥
श्रूयतां वत्स पार्वत्याश्चरितं यत्पुरातनम् ॥ ६ ॥
अरुणाद्रीशमाश्रित्य यथा सा निर्वृताभवत् ॥
आससाद महादेवः कदाचित्पार्वतीपतिः ॥ ७ ॥
रत्नसिंहासनं दिव्यं रत्नतोरणसंयुतम् ॥
रत्नपुष्पफलोपेत कल्पद्रुममनोहरम् ॥ ८ ॥
परार्ध्य दृषदास्तीर्णं बद्धमुक्तावितानकम् ॥
विमुक्तपुष्पप्रकरदिव्यधूपोरुसौरभम् ॥ ९ ॥
प्रलम्बमालिकाजालनिनदद्भृङ्गसङ्कुलम् ॥
दिव्यतूर्यघनारावप्रनृत्यद्गुहवाहनम् ॥ 1.3.1.3.१० ॥
पार्वतीसिंहसञ्चारपरित्रस्तमहागजम् ॥
अप्सरोभिः प्रनर्त्ताभिर्गायन्तीभिश्च केवलम् ॥ ११ ॥
आसेवितपुरोरङ्गं दिक्पालकनिषेवितम् ॥
ऋग्यजुःसामजैर्मन्त्रैः स्तुवद्भिर्मुनिपुङ्गवैः ॥ १२ ॥
ब्रह्मर्षिभिस्तथा देवैः सिद्धै राजर्षिभिवृतम् ॥
गणैश्च विविधाकारैर्भस्मालङ्कृतविग्रहैः ॥ १३ ॥
रुद्राक्षधारसुभगैरापूर्णं शिवतत्परैः ॥
वीणावेणुमृदङ्गादितौर्यत्रिकजनिस्वनैः ॥।१४ ॥
घण्टाटङ्कारसुभगैर्वेदध्वनिविमिश्रितैः ॥
मनोहरं महादिव्यमासनं पार्वतीसखः ॥ १५ ॥
अलञ्चकार भगवन्भक्तानुग्रहकाम्यया ॥
आस्थाय विमलं रूपं सर्वतेजोमयं शिवम् ॥ १६ ॥
अम्बिकासहितः श्रीमान्विजहार दयानिधिः ॥
सङ्गीतेन कथाभेदैर्द्यूतक्रीडाविकल्पनैः ॥ १७ ॥
गणानां विकटैर्नृत्यै रमयामास पार्वतीम् ॥
विसृज्य सकलान्देवानृषींश्चापि सभासदः ॥ १८ ॥
वरान्प्रदाय विविधान्भक्तलोकाय वाञ्छितान् ॥
आगमेषु विचित्रेषु सर्वर्तुकुसुमेषु च ॥ १९ ॥
विजहारोमया सार्द्धं रत्नप्रासादपङ्क्तिषु ॥
वापिकासु मनोज्ञासु रत्नसोपानपङ्क्तिषु ॥ 1.3.1.3.२० ॥
केलिपर्वतशृङ्गेषु हेमरम्भावनान्तरे ॥
गङ्गातरङ्गशीतेन फुल्लपङ्कजगन्धिना ॥ २१ ॥
वातेन मन्दगतिना विहारविहतश्रमः ॥
स्वकामतः स्वयं देवः प्रेयसीमभ्यनन्दयत् ॥ २२ ॥
रतिरूपां शिवां देवीं सर्वसौभाग्यसुन्दरीम् ॥
कदाचिद्रहसि प्रीता निजाज्ञावशवर्त्तिनम् ॥ २३ ॥
रमणं जानती मुग्धा पश्चादभ्येत्य सादरम् ॥
कराभ्यां कमलाभाभ्यां त्रिणेत्राणि जगद्गुरोः ॥ २४ ॥
पिदधे लीलया शम्भोः किमेतदिति कौतुकात् ॥
चन्द्रादित्याग्निरूपेण पिहितेष्वक्षिषु क्रमात् ॥ २५ ॥
अन्धकारोऽभवत्तत्र चिरकालं भयङ्करः ॥
निमिषार्द्धेन देवस्य जग्मुर्वत्सरकोटयः ॥ २६ ॥
देवीलीलासमुत्थेन तमसाभूज्जगत्क्षयः ॥
तमसा पूरितं विश्वमपारेण समन्ततः ॥२७॥
शून्यं ज्योतिः प्रचारेण विनाशं प्रत्यपद्यत ॥
न व्यजृम्भत विबुधा न च वेदाश्चकाशिरे ॥२८॥
नापि जीवाः समभवन्नव्यक्तं केवलं स्थितम् ॥
जगतामपि सर्वेषामकाले वीक्ष्य सङ्क्षयम् ॥२९॥
तपसा लब्धस्फूर्तीनां विचारः समपद्यत ॥
किमेतत्तमसो जन्म भुवनक्षयकारणम् ॥ 1.3.1.3.३० ॥
भगवानपि सर्वात्मा न नूनं कालमाक्षिपत् ॥
देवी विनोदरूपेण पिधत्ते पुरजिद्दृशः ॥ ३१ ॥
तेनेदमखिलं जातं निस्तेजो भुवनत्रयम् ॥
अकालतमसा व्याप्ते सकले भुवनत्रये ॥ ३२ ॥
का गतिर्लब्धराज्यानां तपसो देवजन्मनाम् ॥
न यज्ञाः सम्प्रवर्तन्ते न पूज्यन्ते सुरा भुवि ॥ ३३ ॥
इति निश्चित्य मनसा वीक्ष्य ते ज्ञानचक्षुषा ॥
नित्यास्ते सूरयो भक्त्या शम्भुमागम्य तुष्टुवुः ॥ ३४ ॥
नमः सर्वजगत्कर्त्रे शिवाय परमात्मने ॥
मायया शक्तिरूपेण पृथग्भावमुपेयुषे ॥ ३५ ॥
अविनाभाविनी शक्तिराद्यैका शिवरूपिणी ॥
लीलया जगदुत्पत्तिरक्षासंहृतिकारिणी ॥ ३६ ॥
अर्धाङ्गी सा तव देव शिवशक्त्यात्मकं वपुः ॥
एक एव महादेवो न परे त्वद्विना विभो ॥ ३७ ॥
लीलया तव लोकोयमकाले प्रलयं गतः ॥
करुणा तव निर्व्याजा वर्द्धतां लोकवर्द्धनी ॥ ३८ ॥
भवतो निमिषार्द्धेन तेजसामुपसंहृतेः ॥
गतान्यनेकवर्षाणि जगतां नाशहेतवे ॥ ३९ ॥
ततः प्रसीद करुणामूर्त्ते काल सदाशिव ॥
विरम प्रणयारब्धादमुष्माल्लोकसङ्क्षयात् ॥ 1.3.1.3.४० ॥
इति तेषां वचः श्रुत्वा भक्तानां सिद्धिशालिनाम् ॥
विसृजाक्षोणि गौरीति करुणामूर्त्तिरब्रवीत् ॥ ४१ ॥
विससर्ज च सा देवी पिधानं हरचक्षुषाम् ॥
सोमसूर्याग्निरूपाणां प्रकाशमभवज्जगत् ॥ ४२ ॥
कियान्कालो गतश्चेति पृष्टैः सिद्धैश्च वै नतैः ॥
उक्तं त्वन्निमिषार्द्धेन जग्मुर्वत्सरकोटयः ॥ ४३ ॥
अथ देवः कृपामूर्त्तिरालोक्य विहसन्प्रियाम् ॥
अब्रवीत्परमोदारः परं धर्मार्थसङ्ग्रहम् ॥ ४४ ॥
अविचार्य कृतं मुग्धे भुवनक्षयकारणात् ॥
अयुक्तमिह पश्यामि जगन्मातुस्तवैव हि ॥ ४५ ॥
अहमप्यखिलाल्ँलोकान्संहरिष्यामि सङ्क्षये ॥
प्राप्ते काले त्वया मौग्ध्यादकाले प्रलयं गताः ॥ ४६ ॥
केयं वा त्वादृशी कुर्यादीदृशं सद्विगर्हितम् ॥
कर्म नर्मण्यपि सदा कृपामूर्तिर्न बाधते ॥ ४७ ॥
इति शम्भोर्वचः श्रुत्वा धर्मलोपभयाकुला ॥
किं करिष्यामि तच्छान्त्या इत्यपृच्छत्स्म तं प्रिया ॥ ४८ ॥
अथ देवः प्रसन्नात्मा व्याजहार दयानिधिः ॥
देव्यास्तेनानुतापेन भक्त्या च तोषितः शिवः ॥ ४९ ॥
मन्मूर्तेस्तव केयं वा प्रायश्चित्तिरिहोच्यते ॥
अथापि धर्ममार्गोयं त्वयैव परिपाल्यते ॥ 1.3.1.3.५० ॥
श्रुतिस्मृतिक्रियाकल्पा विद्याश्च विबुधादयः ॥
त्वद्रूपमेतदखिलं महदर्थोस्मि तन्मयः ॥ ५१ ॥
मान्ययाभिन्नया देव्या भाव्यं लोकसिसृक्षया ॥ ॥ ५२ ॥
तस्माल्लोकानुरूपं ते प्रायश्चित्तं विधीयते ॥
षड्विधो गदितो धर्मः श्रुतिस्मृतिविचारतः ॥ ५३ ॥
स्वामिना नानुपाल्येत यदि त्याज्योऽनुजीविभिः ॥
न त्वां विहाय शक्नोमि क्षणमप्यासितुं क्वचित् ॥ ५४ ॥
अहमेव तपः सर्वं करिष्याम्यात्मनि स्थितः ॥
पृध्वी च सकला भूयात्तपसा सफला तव ॥ ५५ ॥
त्वत्पादपद्मसंस्पर्शात्त्वत्तपोदर्शनादपि ॥
निरस्यन्ति स्वसान्निध्याद्दुष्टजातमुपद्रवम् ॥ ५६ ॥
कर्मभूमेस्त्वमाधिक्यहेतवे पुण्यमाचर ॥
त्वत्तपश्चरणं लोके वीक्ष्य सर्वोपि सन्ततम् ॥ ५७ ॥
धर्मे दृढतरा बुद्धिं निबध्नीयान्न संशयः ॥
कृतार्थयिष्यति महीं दया ते धर्मपालनैः ॥ ५८ ॥
त्वमेवैतत्सकलं प्रोक्ता वेदैर्देवि सनातनैः ॥
अस्ति काञ्चीपुरी ख्याता सर्वभूतिसमन्विता ॥ ५९ ॥
या दिवं देवसम्पूर्णा प्रत्यक्षयति भूतले ॥
यत्र कृतं तपः किञ्चिदनन्तफलमुच्यते ॥ 1.3.1.3.६० ॥
देवाश्च मुनयः सर्वे वासं वाञ्छन्ति सन्ततम् ॥
तत्र कम्पेति विख्याता महापातकनाशिनी ॥ ॥६१॥
यत्र स्थितानां मर्त्यानां कम्पन्ते पापकोटयः ॥
तत्र चूतद्रुमश्चैको राजते नित्यपल्लवः ॥६२॥
सम्पूर्णशीतलच्छायः प्रसूनफलपल्लवैः ॥
तत्र जप्तं हुतं दत्तमनन्तफलदं भवेत् ॥ ६३ ॥
गणाश्च विविधाकारा डाकिन्यो योगिनीगणाः ॥
परितस्त्वां निषेवन्तां विष्णुमुख्यास्तथा पराः ॥६४॥
अहं च निष्कलो भूत्वा तव मानसपङ्कजे ॥
सन्निधास्यामि मा भूस्त्वं देवि मद्विरहाकुला ॥ ६५ ॥
इत्युक्ता देवदेवेन देवी कम्पान्तिकं ययौ ॥
तपः कर्तुं सखीयुक्ता विस्मयाक्रान्तलोचना ॥६६ ॥
कम्पां च विमलां सिन्धुं मुनिसमघनिषेविताम् ॥
आलोक्य कोमलदलमेकाम्रं दृष्टिवारणम् ॥ ६७ ॥
फलपुष्पसमाकीर्णं कोकिलालापसङ्कुलम् ॥
प्रससाद पुनर्देवं सस्मार च महेश्वरम् ॥ ६८ ॥
कामाग्निपरिवीताङ्गी तपःक्षामेव साऽभवत् ॥
अभ्यभाषत सा गौरी विजयां पार्श्ववर्त्तिनीम् ॥ ६९ ॥
कामशोकपरीताङ्गी पुरारिविरहाकुला ॥ 1.3.1.3.७० ॥
इममघहरमागतानिशं स्वयमपि पूजयितुं तपोभिरीशम् ॥
अयमभिनवपल्लवप्रसूनः स्मरयति मां स्मरबन्धुरेकचूतः ॥ ७१ ॥
कथमिव विरहः शिवस्य सह्यः क्षुभितधियात्र भृशं मनोभवेन ॥
तदपि च तरुणेन्दुचूडपादस्मरणमहौषधमेकमेव दृष्टम् ॥ ७२ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्द्धे पार्वत्याः शिवनेत्रमीलनेन तमसा क्षुब्धलोकपापभयेन काञ्च्यां कम्पास्थितैकाम्रतले तपश्चर्यार्थमागमनन्नाम तृतीयोऽध्यायः ॥ ३ ॥ ॥ छ ॥